________________
अध्ययनं -१ - [ नि. ९१२]
उष्णतप्तो न तं निन्देच्छायामपि न संस्मरेत् । नानगात्राभिषेकादि, व्यजनं चापि वर्जयेत् ||४|| न दष्टो दंशमशकैस्त्रासंद्वेषं मुनिर्व्रजेत् । न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित् ||५|| वासोऽशुभं न वा मेऽस्ति, नेच्छेत् तत्साध्वासाधु वा । लाभालाभविचित्रत्वं, जानन्नाग्न्येन विप्लुतः || ६ || गच्छंस्तिष्ठन्निषण्णो वा, नारतिप्रवणो भवेत् । धर्मारामरतो नित्यं, स्वस्थचेता भवेन्मुनिः ||७|
सङ्गपङ्कसुदुर्बाधाः, स्त्रियो मोक्षपथार्गलाः । चिन्तिता धर्मानाशय, यतोऽतस्ता न चिन्तयेत् ॥८॥ ग्रामाद्यनियतस्थायी, सदा वाऽनियतालयः । विविधाभिग्रहैर्युक्तश्चर्यामेकोऽप्यधिश्रयेत् ॥९॥ श्यमशानदिनिषद्यासु, स्त्र्यादिकण्टकवर्जिते । उपसर्गाननिष्टेस्टानेकोऽभीरस्पूहः क्षमेत् ||१०||
शुभाशुभासु शय्यासु, सुखदुःखे समुत्थिते । सहेत सङ्गं नेयाच्च, वस्त्याज्येति च भावयेत् ॥ ११ ॥ नाक्रुष्टो मुनिराक्रोशेत्, साम्याद् ज्ञानद्यवर्जकः । अपेक्षेतोपकारित्वं, न तु द्वेषं कदाचन ॥१२॥ हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् । जीवानाशात् क्षमायोगाद्, गुणाप्तेः क्रोधदोषतः ॥१३॥ परदत्तोपजीवित्वाद, यतीनां नास्त्ययाचितम् । यतोऽतो याचनादुःखं, क्षाम्येन्त्रेच्छेदगारिताम् ॥१४॥
परकीयं परार्थ च, लभ्येतान्नादि नैव वा । लब्धे न माद्येन्निन्देद्वा, स्वपरान्नाप्यलाभतः ||१५|| नोद्विजेद्रोगसम्प्रातो, न चाभीप्सेच्चिकित्सितम् । विषहेत तथाऽदीनः, श्रामण्यमनुपालयेत् ||१६||
अभूताल्पाणुचेलत्वे, कादाचित्कं तृणादिषु । तत्संस्पर्शोद्भवं दुःखं, सहेन्नेच्छेच्च तान् मृदून् ||१७| मलपङ्करजोदिग्धो, ग्रीष्मोष्णक्केदनादपि । नोद्विजेत् स्नानमिच्छेद्वा, सहतोद्वर्तयेन वा ॥ १८ ॥ उत्थानं पूजनं दानं, स्पृहयेनात्मपूजकः । मूर्च्छितो न भवेल्लब्धे, दीनोऽसत्कारितो न च ॥ १९ ॥ अजानन् वस्तु जिज्ञासुर्न-मुह्येत् कर्मदोषवित् ।
24 23
Jain Education International
For Private & Personal Use Only
३५३
www.jainelibrary.org