________________
३५२
आवश्यक मूलसूत्रम्-१-१/१ पत्ताणि, आभरणगाणि सारवियाणि, एगत्थ वाणियत्तं करेइ, पंगू य से वीहीए सोहगो, घडिओ, सा भणइ-न सक्कणोमि एगागिनी गिहे चिहिउँ बिदिज्जियं लभाहि, चिंतियं चऽनेणननिरवाओ पंगू सोहणो, तओऽनेन सो नेड्डवालगो निउत्तो, तेन य गीयछलियकहाइहिं आवज्जिया, पच्छा तस्सेव लग्गा भत्तारस्स छिद्दाणि मग्गइ, जाहे न लभइ ताहे उज्जाणियागओ सुवीसत्यो बहुं मज्जं पाएत्ता गंगाए पक्खित्तो, सावितं दव्वं खाइऊण खंधेण तं वहइ, गायंति य घरे २, पुच्छिया भणइ-अम्मापिईहिं एरिसो दिनो किं करेमि?, सोऽवि राया एगत्य नयरे उच्छलिओ, रुक्खछायाए सुत्तो, न परावत्तति छाया, राया तत्थ मयओ अपुत्तो, अस्सो य अहिवासिओ तत्थ गओ, जयजयसद्देण पडिबोहिओ, राया जाओ, ताणिवि तत्य गयाणि, रन्नो कहियं, आणावियाणि, पुच्छिया, साहइ-अम्मापीईहि दिनो, राया भणइ
'बाहुभ्यां शोणितं पीतमुरुमांसं च भक्षितम् ।
गङ्गायां वाहितो भर्ता, साधु साधु पतिव्रते ?॥१॥' निव्विसयाणि आणत्ताणि । एवं दोण्हपि विसेसओ सूमालियाए दुक्खाय फासिंदियं ॥
शब्दसङ्गे यतो दोषो, मृगादीनां शरीरहा । सुखार्थी सततं विद्वानं, शब्दे किमिति सङ्गवान् ?॥१॥
प्रतङ्गानां क्षयं दृष्ट्वा, सद्यो रूपप्रसङ्गतः । स्वस्थचित्तस्य रूपेषु, किं व्यर्थः सङ्गसम्भवः ?॥२॥
उरगान् गंधदोषेण, परतन्त्रान् समीक्ष्य कः । गंधासक्तो भवेत्कायस्वभावं वा न चिंतयेत् ?॥३॥
रसास्वादप्रसङ्गेन, मत्स्याधुत्सादनं यतः । ततो दुःखादिजनने, रसे कः सङ्गमाप्नुयात् ?॥४॥
स्पर्शाभिषक्तचित्तानां, हस्त्यादीनां समन्ततः । — अस्वातन्त्रयं समीक्ष्यापि, कः स्यात्स्पर्शनसंवशः ?॥५॥" इत्येवंविधानीन्द्रियाणि संसारवर्द्धनानि विषयलालसानि दुर्जयानि दुरन्तानि नामयन्त इत्यादि पूर्ववत् ।। अधुना परीषहद्वारावसरः, तत्र ‘मार्गाच्यवननिर्जरार्थ परिषोढव्याः परीषहा' इति निर्वचनं, तत्र मार्गाच्यवनार्थ दर्शनपरीषहः प्रज्ञापरीषहश्च, शेषास्तु निर्जरार्थमिति, एते च द्वाविंशतिः परिसङ्ख्याता एव, तद्यथा-क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचनालाभोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाऽज्ञान-दर्शनानि विस्तरतोऽवगन्तव्याः, अस्य भावार्थः
क्षुधातः शक्तिमान् साधुरेषणां नातिलङ्घयेत् । यात्रामात्रोद्यतो विद्वानदीनोऽविपुवश्चरेत् ॥१॥ पिपासितः पथिस्योऽपि, तत्त्वविद् दैन्यवर्जितः । शीतोदकं नाभिलषेन्मृगयेत् कल्पितोदकम् ॥२॥ . शीताभिघातेऽपि यतिस्त्वग्वस्त्रत्राणवर्जितः । वासोऽकल्प्यं न गृह्णीयादग्निं नोज्जवालयेदपि ॥३॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org