________________
आवश्यक मूलसूत्रम्-१
अशून्यान्तरवर्गणा अव्ववहितान्तरा इत्यर्थः, ता अपि च प्रदेशोत्तरवृद्ध्या खल्वनन्ता एव भवन्ति, ततः 'चतुरिति' चतस्त्रः ध्रुवाश्चता अनन्तराश्च ध्रुवानन्तराः प्रदेशोत्तरा एव वर्गणा भवन्ति, ततः 'तनुवर्गणाश्च' तनुवर्गणा इति, किमुक्तं भवति !-भेदाभेदपरिणामाभ्यमौदारिकादियोग्यताऽभिमुखा इति, अथवा मिश्राचित्तस्कन्धद्वययोग्यास्ताश्चतस्त्र एव भवन्ति, ततो 'मिश्र' इति मिश्रस्कन्धो भवति, सूक्ष्म एवेषद्बादरपरणामाभिमुखो मिश्रः, 'तथा' इति आनन्तर्ये 'अचित्त' इति अचित्तमहास्कन्धः, स च विश्रसापरिणामविशेषात् केवलिसमुद्घातगत्या लोकमापूरयन्नुपसंहरंश्च भवतीति । आह-अचित्तत्वाव्यभिचारात्तस्याचित्तविशेषणानर्थक्यमिति, न, केवलिसमुद्घातसचित्तकर्मपुद्गललोककव्यापिमहास्कन्धव्यवच्छेदपरत्वात् विशेषणस्येति, अयमेव सर्वोत्कृष्टप्रदेश इति केचिद् व्याचक्षते, न चैतदुपपत्तिक्षम, यस्मादुत्कृष्टप्रदेशोऽवगाहनास्थितिभ्यां असंख्येयभागहीनादिभेदाद् चतुः स्थानपतित उक्तः, तथा चोक्तं“उक्कोसपएसिआणं भंते ! केवइआ पज्जवा पण्णत्ता ?, गोयमा अनन्ता, से केणटेणं भंते ! एवं वुच्चइ ?, गोयमा ! उक्कोसपएसिए उक्कोसपएसिअस्स दव्वठ्ठयाए तुल्ले, पएसठ्ठयाएवि तुल्ले, ओगाहणट्ठयाए चउट्ठाणवडिए, ठितीएवि ४, वण्णरसगन्ध अहि अ फासेहि छट्ठाणवडिए" । अयं पुनस्तुल्य एव, अष्टस्पर्शश्चासौ पठ्यते, चतुःस्पर्शश्च अयमिति, अतोऽन्येऽपि सन्तीति प्रतिपत्तव्यं, इत्यलं प्रसङ्गेनेति गाथार्थः ॥
प्राक् 'तैजसभाषाद्रव्याणामन्तराले गुरुलध्वगुरुलघु च जघन्यावधिप्रमेयं द्रव्यं' इत्युक्तं, नौदारिकादिद्रव्याणि, साम्प्रतमौदारिकादीनां द्रव्याणां यानि गुरुलघूनि यानि चागुरुलघूनि तानि दर्शयन्नाहनि. (४१) ओरालिअवेउव्विअआहारगतेअ गुरुलहू दव्वा ।
कम्मगमनभासाई, एआइ अगुरुलहुआई॥ कृपदार्थस्तु औदारिकवैक्रियाहारकतैजसद्रव्याणि गुरुलघूनि, तथ कार्मणमनोभाषादिद्रव्याणि च अगुरुलघूनि निश्चयनयापेक्षयेति गाथार्थः ॥ वक्ष्यमाणगाथाद्वयसंबन्धः-पूर्वे क्षेत्रकालयोरवधिज्ञानसंबन्धिनोः केवलयोः अङ्गुलावलिकाऽसंख्येयादिविभागकल्पनया परस्परोपनिबन्ध उक्तः, साम्प्रतं तयोरेवोक्तलक्षणेन द्रव्येण सह परस्परोपनिबन्धमुपदर्शयन्नाहनि. (४२) संखिज्ज मनोदव्वे, भागो लोगपलियस्स बोद्धव्वो।
संखिज्ज कम्मदव्वे, लोए थोवूणगं पलियं ॥ वृ- संख्यायत इति संख्येयः, मनसः संबन्धि योग्यं वा द्रव्यं मनोद्रव्यं तस्मिन् मनोद्रव्ये इति मनोद्रव्यपरिच्छेदके अवधौ, क्षेत्रतः संख्येयो लोकभागः, कालतोऽपि संख्येय एव, 'पलियस्स' पल्योपमस्य 'बोद्धव्यो विज्ञेयः, प्रमेयत्वेनेति, एतदुक्तं भवति-अवधिज्ञानी मनोद्रव्यं पश्यन् क्षेत्रतो लोकस्य संख्येयभागं कालतश्च पल्योपमस्य जानीते इति, तथा संख्येया लोकपल्योपमभागाः 'कर्मद्रव्ये' इति कर्मद्रव्यपरिच्छेदकेऽवधौ प्रमेयत्वेन बोद्धव्या इति वर्तते, अयं भावार्थः -- कर्मद्रव्यं पश्यन् लोकपल्योपमयोः पृथक् पृथक् संख्येयान् भागान् जानीते, 'लोके' इति चतुदर्शशरज्वात्मकलोकविषयोऽवधौ क्षेत्रतः कालतः स्तोकन्यूनं पल्योपमं प्रमेयत्वेन
बोद्धव्यं इति वर्तते, इदमत्र हृदयं-समस्तं लोकं पश्यन् क्षेत्रतः कालतः देशोनं पल्योपमं पश्यति, Jain Education International
For Private & Personal Use Only
www.jainelibrary.org