________________
३१
पीठिका - [नि. ३९] दुरभिगन्धानां चर, तिक्तरसानां यावन्मधुररसानां ५, मृदूनां यावद्रूक्षाणां ८ गुरुलधूनामगुरुलघूनां च, एवमेता द्रव्यवर्गणाद्या वर्गणाश्चतुर्विधा भवन्ति, प्रकृतोपयोगः प्रदर्श्यते-तत्र परमाणूनामेका वर्गणा, एवं द्विप्रदेशिकानामप्येका, एवमेकैकपरमाणुवृद्धया संख्येयप्रदेशिकानां संख्येया वर्गणा असंख्येयप्रदेशिकानां चासंख्येयाः ततोऽनन्त प्रदेशिकानां अनन्ताः खल्वग्रहणयोग्या विलय ततश्च विशिष्टपरिणामयुक्ता औदारिकशरीरग्रहणयोग्याः खल्वनन्ता एवेति, ता अपि चोल्लङ्घय प्रदेशवृद्ध्या प्रवर्धमानास्ततस्तस्यैवाग्रहणयोग्या अनन्ता इति, ताश्च प्रभूतद्रव्यनिर्वृत्तत्वात् सूक्ष्मपरिणामोपेतत्वाश्च औदारिकस्याग्रहणयोग्या इति, वैक्रियस्यापि चाल्पपरमाणुनिवृत्तत्वाद् बादरपरिणामयुक्तत्वाच्चा-ग्रहणयोग्या एव ता इति, पुनः प्रदेशवृद्धया प्रवर्धमानाः खल्वनन्ता एवोल्लङ्घय तथापरिणामयुक्ता वैक्रियग्रहणयोग्या भवन्ति, ता अपिच प्रदेशवृद्ध्या प्रवर्धमाना अनन्ता एवेति तावद् यावद् एकादिप्रचुरपरमाणुनिवृत्तत्वात् सूक्ष्मपरिणाम-युक्तत्वाच्च वैक्रियस्याग्रहणयोग्या भवन्ति, एवं प्रदेशवृद्ध्या प्रवर्धमानाः खल्वग्रहणयोग्या अप्यनन्ता एवेति, ताश्चाहारकस्य अल्पपरमाणुनिवृत्तत्वाद् बादरपरिणामोपेतत्वाच्च अग्रहणयोग्या एवेति, एवमाहारकस्य तैजसस्य भाषायाः आनापानयोर्मनसः कर्मणश्च अयोग्ययोग्यायोग्यानां वर्गणानां प्रदेशवृद्ध्युपेतानामनन्तानां त्रयं त्रयमायोजनीयं । ___आह-कथं पुनरिदं एकैकस्यौदारिकादेस्त्रयं त्रयं गम्यत इति, उच्यते, तैजसभाषाद्रव्यान्तरवर्युभयायोग्यद्रव्यावधिगोचराभिधानात् । 'अथ' अयं द्रव्यवर्गणानां क्रमः, तत्र वर्गणा वर्गो राशिरिति पर्यायाः, तथा विपर्यासेन 'क्षेत्रे' इति क्षेत्रविषयो वर्गणाक्रमो वेदितव्यः, एतदुक्तं भवति-एकप्रदेशवगाहिनां परमाणूनां स्कन्धानां चैका वर्गणा, तथा द्विप्रदेशावगाहिनां स्कन्धानामेव द्वितीया वर्गणा, एवमेकैकप्रदेशवृद्ध्या संख्येयप्रदेशावगाहिनां संख्येयां असंख्येयप्रदेशावगाहिनां चासंख्येयाः, ताश्च प्रदेशप्रदेशोत्तराः खल्वसंख्येया विलय कर्मणो योग्यानामसंख्येया वर्गणा भवन्ति, पुनः प्रदेशवृद्ध्या तस्यैवायोग्यानां असंख्येया इति, अयोग्यत्वं चाल्पपरमाणुनित्तत्वात् प्रभूतप्रदेशावगाहित्वाच्च, मनोद्रव्यादीनामप्येवमेवायोग्ययोग्यायोग्यलक्षणं त्रयं त्रयमायोजनीयमिति । एवं सर्वत्र भावना कार्या, 'परंपरं सूक्ष्मं' 'प्रदेशतोऽसंख्येयगुणं' इति वचनात्, कालतो भावतश्च वर्गणा दिग्मात्रतो दर्शिता एवेति गाथार्थः ॥ नि. (४०) कम्मोवरिं धुवेयरसुण्णेयरवग्गणा अनंताओ ।
चउधुवनंतरतनुवग्गणा य मीसो तहाऽचित्तो॥ वृ-तत्रानन्तरगाथायां कर्मद्रव्यवर्गणाः प्रतिपादिताः, साम्प्रतं प्रदेशोत्तरवृद्ध्या तदग्रहणप्रायोग्याः प्रदेश्यन्ते-क्रियत इति कर्म, कर्मण उपरि कर्मोपरि, ध्रुवेति-ध्रुववर्गणा अनन्ता भवन्ति, ध्रुववर्गणा इतिध्रुवा नित्याः सर्वंकालावस्थायिन्य इति भावार्थः, 'इतरा' इति प्रदेशवृद्ध्या ततोऽनन्ता एवाध्रुववगणा अनन्ता, 'अध्रुवा' इति अशाश्वत्यः, कदाचिन्न सन्त्यपीत्यर्थः, ततः 'शून्या' इति सूचनात्सूत्रमितिकृत्वा शून्यान्तरवर्गणाः परिगृह्यन्ते, शून्यान्यन्तराणि यासां ताः शून्यान्तराः शून्यान्तराश्च ता वर्गणाश्चेति समासः, एतदुक्तं भवति-एकोत्तरवृद्ध्या व्यवहितान्तरा इति, ता अपि चानन्ता एव, तथा 'इतरेति' इतरग्रहणादशून्यान्तराः परिगृह्यन्ते, न शून्यानि अन्तराणि यासां ता अशून्यान्तराः, अशून्यान्तराश्च ता वर्गणाश्चेति विग्रहः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org