________________
३४१
अध्ययनं-१ - [नि.९१२] निच्छिड्डपोता जहिट्ठियं पट्टणं पावेंति, एवं चनि. (९१३) मिच्छत्तकालियावायविरहिए सम्मत्तगजभपवाए ।
एगसमएण पत्ता सिद्धिवसहिपट्टणं पोया । वृ- मिथ्यात्वमेव काल्किावातः तेन विरहिते भवाम्भोधौ तथा सम्यक्त्वगर्जभप्रवाते, कालिकावातो ह्यसाध्यः गर्जभस्त्वनुकूलः, रूकसमयेन प्राप्ताः सिद्धिवसतिपत्तंन 'पोताः' जीवाबोहित्थाः, तनिर्यामकोपकारादिति भावना ॥ ततश्च यथा सांयात्रिकसार्थः प्रसिद्धं निर्यामकं चिरगतमपि यात्र-सिद्ध्यर्थं पूजयति, एवं ग्रन्थकरोऽपि सिद्धिपत्तनं प्रति प्रस्थितोऽभीष्टयात्रासिद्धये निर्यामकरलेभ्यस्तीर्थकृद्भयः स्तवचिकीर्षयेदमाहनि. (९१४) निजामगरयणाणं अमूढनाणमइकण्णाधाराणं ।
वंदामि विनयपणओ तिविहेण तिदंडविरयाणं ।। वृ-निर्यामकरलेभ्यः' अर्हद्भयः 'अमूढज्ञाना'यथावस्थितज्ञाना मननं मतिः-संविदेव सैव कर्णधारो येषां ते तथाविधास्तेभ्यो वन्दामि विनयप्रणतस्त्रिविधेन त्रिदण्डविरतेभ्य इति गाथार्थ ॥ द्वारं । साम्प्रतं तृतीयद्वारव्याचिख्यासयाऽऽहनि. (९१५) पालंति जहा गावो गोवा अहिसावयाइदुग्गेहिं ।
पउरतणपाणिआणि अ वणाणि पावंति तह चेव ॥ नि. (९१६) जीवनिकाया गावो जं ते पालंति ते महागोवा ।
मरणाइभया उ जिणा निव्वाणवणंच पावंति ॥ नि. (९१७) तो उवगारित्तणओ नमोऽरिहा भविअजीवलोगस्स ।
सव्वस्सेह जिणिंदा लोगुत्तम भावओ तह य॥ वृ-गाथात्रयं निगदसिद्धमेव ।। एवं तावदुक्तेन प्रकारेण नमोऽर्हत्वहेतवे गुणाः प्रतिपादिताः, साम्प्रतं प्रकारान्तरेण नमोऽर्हत्वहेतुगुणाभिधित्सयाऽऽहनि. (९१८) रागबोसकसाए, इंदिआणि अ पंचवि ।
परीसहे उवस्सग्गे, नामयंता नमोऽरिहा ॥ वृ-रागद्वेषकषायेन्द्रियाणि च पञ्चापि परीषहानुपसर्गान्नामयन्तो नमोऽर्हा इति । तत्र ‘रज रागे' रज्यते अनेन अस्मिन् वा रञ्चनं वा रागः, स च नामादिश्चतुर्विधः, तत्र नामस्थापने सुगमे, द्रव्यरागो द्वेधा-आगमतो नोआगमतश्च, आगमतो रागपदार्थज्ञस्तत्रानुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदस्त्रिभेदस्त्रिविधः, व्यतिरिक्तोऽपि कर्मद्रव्यरागो नोकर्मद्रव्यरागश्च, कर्मद्रव्यरागश्चतुर्विधः-रागवेदनीयपुद्गला योग्याः १ बध्यमानका २ बद्धाः ३ उदीरणावलिका-प्राप्ताश्च ४, बन्धपरिणामाभिमुखा योग्याः, बन्धपरिणामप्राप्ता बध्यमानकाः, निवृत्तबन्धपरिणामाः सत्कर्मतया स्थिता जीवेनाऽऽत्मसात्कृता बद्धाः, उदीरणाकरणेनाऽऽकृष्योदीरणावलिकामानीताश्चरमा इति, नोकर्मद्रव्यरागस्तु कर्मरागैकदेशस्तदन्यो वा, तदन्यो द्विविधः- प्रायोगिको वैश्रसिकश्च, प्रायोगिको कुसुम्भरागादिः, वैश्रसिकः, सन्ध्याभ्ररागादिः भावरागोऽप्यागमेतरभेदाद् द्विधैव, आगमतो रागपदार्थज्ञ उपयुक्तः, नोआगमतो रागवेदनीयकर्मोदयप्रभवः परिणाम-विशेषः, स च द्वेधा-प्रशस्तोऽप्रशस्तश्च, अप्रशस्तस्त्रिविधः-द्दष्टिरागो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org