________________
३३८
आवश्यक मूलसूत्रम् - १- १/१
गाथाशकलं व्याख्यातमेव, नवरं तत्र यदुक्तं 'तेषां वस्तुत्वेऽयं हेतु' रिति, स खल्विदानीं हेतुरुच्यते, तत्रेयं गाथा
नि. (९०३) मग्गे १ अविप्पनासो २ आयारे ३ विनयया ४ सहायत्तं ५ । पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ॥
वृ- मार्गः अविप्रणाशः आचारः विनयता सहायत्वम् अर्हदादीनां नमस्कारार्हत्वे एते हेतव, यदाह - पञ्चविधनमस्कारं करोमि एभिर्हेतुभिरिति गाथासमासार्थः ॥ इयमत्र भावना - अर्हतां नमस्कारार्हत्वे मार्गः- सम्यग्दर्शनादिलक्षणो हेतु:, यस्मादसौ तैः प्रदर्शितस्तस्माच्च मुक्तिः, ततश्च पारम्पर्येण मुक्तिहेतुत्वात् पूज्यास्त इति । सिद्धानां तु नमस्कारार्हत्वेऽविप्रणाशः, शाश्वतत्वं हेतु:, तथाहि तदविप्रणाशवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्ते । आचार्याणां तु नमस्कारार्हत्वे आचार एव हेतु:, तथाहि - तानाचारवत आचाराख्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठानाय भवन्ति । उपाध्यायानां तु नमस्कारार्हत्वे विनयो हेतुः, यतस्तान् स्वयं विनीतान् प्राप्य कर्मविनयनसमर्थविनयवन्तो (प्र) भवन्ति देहिन इति । साधूना तु नमस्कारार्हत्वे सहायत्वं हेतुः यतस्ते सिद्धिवधूसङ्गमैकनिष्ठानां तदवाप्तिक्रियासाहाय्यमनुतिष्ठन्तीति गाथार्थः ॥ एवं तावत्समासेनार्हदादीनां नमस्कारार्हत्वद्वारेण मार्गप्रणयनादयो गुणा उक्ताः साम्प्रतं प्रपञ्चेनार्हतां गुणानुपदर्शयन्नाह
"
नि. (९०४) अडवीइ देसिअत्तं १ तहेव निजामया समुद्दमि २ । छक्कायरक्खणट्ठा महगोवा तेन वुच्छंति ३ ॥
वृ- अटव्यां देशकत्वं कृतमर्हद्भिः, तथैव निर्यामकाः समुद्रे, भगवन्त एव षट्कायरक्षणार्थं यतः प्रयत्नं चक्रुः महागोपास्तेनोच्यन्त इति गाथासमासार्थः ॥ अवयवार्थ तु प्रतिद्वारं वक्ष्यति, तत्र द्वारावयवार्थोऽभिधीयते
नि. (९०५).
अडविं सपञ्चवायं वोलित्ता देसिओवएसेणं । पावंति जहिट्ठपुरं भवाडविंपी तहा जीवा ॥ पावंति निव्वुइपुरं जिनोवइट्ठेण चेव मग्गेणं । अडवीइ देखिअत्तं एवं नेअं जिणिदाणं ॥
नि. (९०६)
वृ- 'अटवी' प्रतीतां 'सप्रत्यपायाम्' इति व्याघ्रादिप्रत्यपायबहुलां 'वोलेत्त' त्ति उल्लवय 'देशिकोपदेशेन' निपुणमार्गज्ञोपदेशेन प्राप्नुवन्ति 'यथा' 'इष्टपुरम्' इष्टपत्तनं, भवाटवीमप्युल्लजयेति वर्तते, तथा जीवः किं प्राप्नुवन्ति ? - 'निर्वृतिपुरं सिद्धिपुरं जिनोपदिष्टेनैव मार्गेण, नान्योपदिष्टेन, ततश्चाटव्यां देशिकत्वमेवं 'ज्ञेयं' ज्ञातव्यं, केषां ? -जिनेन्द्राणामिति गाथाद्वयसमासार्थः ॥ व्यासार्थस्तु कथानकादवसेयः, तच्छेदम्-एत्थं अडवी दुविहा- दव्वाडवी भावाडवी य, तत्थ दव्वाडवीए ताव उदाहरणं-वसंतपुरं नयरं, धनो सत्यवाहो, सो पुरंतरं गंतुकामो घोसणं कारेइ जहा नंदिफलणाए, तओ तत्थ वहवे तडिगकप्पडिगायदो संपिडिया, सो तेसिं मिलियाणं पंथगुणे कहेइ- एगो पंथो उज्जुओ एगो वंको, जो सो वंको तेन मणागं सुहंसुहेण गम्म, बहुणा य कालेण इच्छियपुरं पाविज्जइ, अवसाणे सोवि उज्जुगं चेव ओयरइ, जो पुण उज्जुगो तेन लहुं गम्मइ, किच्छेण य, कहं ?, सो अईव विसमो सण्हो य, तत्थ ओतारे चेव दुवे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International