SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ ३३७ अध्ययनं-१ - [नि.९००] मङ्गीकृत्यैतदुक्तम्, अन्यथा क्षायिकौपशमिकयोरप्येके वदन्ति, क्षायिके यथा-श्रेणिकादीनाम्, औपशमिके श्रेण्यन्तर्गतानामिति, यथासङ्ख्यं च भागद्वारावयवार्थानभिधानमदोषायैव, विचित्रत्वात् सूत्रगतेरिति गाथार्थः ॥ भागद्वारं व्याचिख्यासुराहनि. (९०१) जीवाणऽनंतभागो पडिवण्णो सेसगा अनंतगुणा। वत्थु तऽरिहंताइ पञ्च भवे तेसिमो हेऊ ।। इ-जीवाणणन्तभागो पडिवण्णे सेसगा अपडिवनगा अनंतगुणत्ति ॥ अल्पवहुत्वद्वारं यथा पीठिकायां मतिज्ञानाधिकार इति । साम्प्रतं चशब्दाक्षिप्तं पञ्चविधप्ररूपणामनभिधाय पश्चार्धेन वस्तुद्वारनिरूपणायेदमाह-'वस्तु' इति वस्तु द्रव्यं दलिकं योग्यमहमित्यनन्तरं, वस्तु नमस्कारार्हा अर्हदादयः पञ्चैव भवन्ति, तेषां वस्तुत्वेन नमस्कारार्हत्वेऽयं हेतुः-वक्ष्यमाणलक्षण इति गाथार्थः। अधुना चशब्दसूचितां पञ्चविधां प्ररूपणां प्रतिपादयन्नाहनि. (९०२) आरोवणा य भयणा पुच्छा तह दायणा य निजवणा । नमुकारऽनमुक्कारे नोआइजुए व नवहा वा।। वृ-आरोपणा च भजना पृच्छा तथा 'दायना' दर्शना दापना वा, निर्यापना, तत्र किं जीव एव नमस्कार ? आहोस्विन्नमस्कार एव जीवः ? इत्येवं परस्परावधारणम् आरोपणा, तथा जीव एव नमस्कार इत्युत्तरपदावधारणम् १, अजीवाद्ध्यवच्छिद्य जीव एव नमस्कारोऽवधार्यते, जीवस्त्वनवधारितः, नमस्कारो वा स्यादनमस्कारो वा, एषा एकपदव्यभिचाराद्भजना २, किंविशिष्टो जीवो नमस्कारः ? किंविशिष्टस्त्वनमस्कार इति पृच्छा ३, अत्र प्रतिव्याकरणं दापना-नमस्कारपरिणतः जीवो नमस्कारो नापरिणत इति ४, निर्यापना त्वेष एव नमस्कारपर्यायपरिणतो जीवो नमस्कारः, नमस्कारोऽपिजीवपरिणाम एव नाजीवपरिणाम इति, एतदुक्तं भवति-दापना प्रश्नार्थव्याख्यानं निर्यापना तु तस्यैव निगमनमिति, अथवेयमन्या चतुर्विधा प्ररूपणेति, यत आह-'नमोकारऽनमोक्कारे नोआदिजुए व नवधा वा तत्र प्रकृत्यकारनोकारोभयनिषेधसमाश्रयाचातुर्विध्यं, प्रकृतिः-स्वभावः शुद्धता तथा नमस्कार इति, स एव नजा सम्बन्धादकारयुक्तः अनमस्कारः, स एव नोशब्दोपपदे नोनमस्कारः, उभयनिषेधात्तुं नोअनमस्कार इति, तत्र नमस्कारस्तत्परिणतो जीवः, अनमस्कारस्त्वपरिणतो लब्धिशून्यः अन्यो वा, 'नोआइजुए वत्ति नोआदियुक्तो वा नमस्कारः अनस्मारकश्च, अनेन भङ्गकद्वयाक्षेपो वेदितव्यः, नोशब्देनाऽऽदिर्युक्तो यस नमस्कारस्येतरस्य चेत्यक्षरगमनिका, तत्र नोनमस्कारो विवक्षया भङ्गकद्वयाक्षेपो वेदितव्यः, नोशब्देनाऽऽदियुक्तो यस्य नमस्कारस्येतरस्य चेत्यक्षरगमनिका, तत्र नोनस्कारो विवक्षया नमस्कारदेशः अनमस्कारो वा, देशसर्वनिषेधपरत्वानोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो वा नमस्कारो वा, देशसर्वनिषेधत्वादेव, एषा चतुर्विधा, नैगमादिनयाभ्युपगमस्त्वस्याः पूर्वोक्तानुसारेण प्रदर्शनीयः, 'नवधा वे' ति प्रागुक्ता पञ्चविधा इयं चतुर्विधा च सङ्कलिता सती नवविधा प्ररूपणा प्रकारान्तरतो द्रष्टव्येति गाथार्थः। प्ररूपणाद्वारं गतम्, इदानीं निः शेषमिति, साम्प्रतं 'वत्थु तऽरहंताई पंच भवे तेसिमो हेउत्ति गाथाशकलोपन्यस्तमवसरायातं च वस्तुद्वारं विस्तरतो व्याख्यायत इति, तत्रानन्तरोक्तं [2422 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy