________________
उपोद्घातः - [नि. ८६४ ]
समासः, ‘संक्षेपः' संक्षेपणं संक्षेपः स्तोकाक्षरं सामायिकं महार्थ च द्वादशाङ्गपिण्डार्थत्वात्, अनवद्यं चेति अवद्यं पापमुच्यते नास्मिन्नवद्यमस्तीत्यनवद्यं सामायिकमिति, परिः समन्ताज्ज्ञानं पापरित्यागेन परिज्ञा सामायिकमिति, परिहरणीयं वस्तु वस्तु प्रति आख्यानं प्रत्याख्यानं च, त एते सामायिकपर्याया अष्टाविति गाथार्थः ॥ एतेषामष्टानामप्यर्थानामनुष्ठातृन् यथासमयेनाष्टावेव दृष्टान्तभूतान् महात्मनः प्रतिपादयन्नाह
नि. ( ८६५)
दमदं मे कालयपुच्छा चिलाय अत्तेय । धम्मरुइ इला तेयलि सामाइए अट्ठदाहरणा ॥
वृ- दमदन्तः मेतार्यः कालकपृच्छा चिलातः आत्रेयः धर्मरुचिः इला तेतलिः, सामायिकेऽष्टाबुदाहरणानीति गाथासमुदायार्थः ॥ अवयवार्थस्तु कथानकेभ्योऽवसेय इति, तत्र यथोद्देशं निर्देश इति सामायिकमर्थतो दमदन्तानगारेण कृतमिति तच्चरितानुवर्णनमुपदेशार्थमद्यकालमनुष्याणां संवेगजननार्थं कथ्यते हत्थिसीसए नगरे राया दमदंतो नाम, इओ य गयपुरे नगरे पंच पंडवा, तेसिं तस्स य वइरं, तेहिं तस्स दमदमंतस्स जरासंधमूलं रायगिहं गयस्स सो विसयो लूडितो दड्ढो य, अन्नदा दमदंतो आगओ, तेन हत्थिणापुरं रोहितं, ते भएण न निंति, तओ दमदंतेन ते भणिया - सियाला चेव सुण्णगविसए जहिच्छियं आहिडह, जाव अहं जरासंधसगास गओ ताव मम विसयं लुडेह, इदानिं निप्फिडह, ते न निति ताहे सविसयं गओ । अन्नया निविण्णकामभोगो पव्वइओ, तओ एगल्लविहारं पडिवण्णो विहरंतो हत्यिणापुरं गओ, तस्स बाहिं पडिमं ठिओ, जुहिट्टिलेण अनुजत्ताणिग्गएण वंदिओ, पच्छा सेसेहिवि
उहि पंडवेहिं वंदिओ, ताहे दुजोधणो आगओ, तस्स मनुस्सेहिं कहियं जहा एस सो दमदंतो, तेन सो मातुलिंगेण आहओ, पच्छा खंधावारेण एंतेण पत्थरं २ खिवंतेण पत्थररासीकओ, जुधिट्ठिलो नियत्तो पुच्छइ - एत्थ साहू आसि कहिं सो ?, लोएण कहियं - जहा एसो पत्थररासी दुजोहण कओ, ताहे सो अंबाडिओ, ते य अवणिया पत्थरा, तेल्लेण अब्भंगिओ खामिओ य । तस्स किर भगवओ दमदंतस्स दुजोहणे पंडवेसु य समो भावो आसि, एवं कातव्वं ॥ अमुमेवार्थ प्रतिपादयन्नाह भाष्यकारः[भा. १५१]
निक्खतो हथिसीसा दमदंतो कामभोगमवहाय ।
३२१
नवि रज्जइ रत्तेसुं दुट्ठेसु न दोसमावज ॥
वृ- निष्क्रान्तो हस्तिशीर्षात् हस्तिशीर्षात् नगराद्दमदन्तो राजा कामभोगानपहाय, कामःइच्छा भोगाः शब्दाद्यनुभवाः कामप्रतिबद्धा वा भोगाः कामभोगा इति, स च नापि रज्यते रक्तेषु न प्रीतिं करोति, अप्रीतेषु द्विष्टेषु न द्वेषमापद्यते, वर्तमाननिर्देशप्रयोजनं प्राग्वदिति गाथार्थः ॥ तथाहि - मुनयः खल्वेवम्भूता एव भवन्ति, तथा चाह-
नि. (८६६) वंदिज्जमाणा न समुक्कसंति, हीलिज्जमाणा न समुज्जलंति । दंतेण चित्तेण चरंति धीरा, मुनी समुग्धाइयरागदोसा ॥
वृ-वन्द्यमानाः 'न समुक्कसंति' न समुत्कर्ष यान्ति, तथा हील्यमाना 'न समुज्ज्वलन्ति' न कोपाग्निं प्रकटयन्ति, किं तहि ? - 'दान्तेन' उपशान्तेन चित्तेन चरन्ति धीराः मुनयः समुद्घातित
24 21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org