________________
आवश्यक मूलसूत्रम्-१
वृ- सर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैः स्पृष्टा देशविरतिस्तु, इदमत्र हृदयं सर्वसिद्धानां बुद्ध्याऽसङ्घयेयभागीकृता-नामसङ्ख्येयभागैर्भागोनैर्देशविरतिः स्पृष्टा, असङ्खयेयभागेन तु न स्पृष्टा, यथा-मरुदेवास्वामिन्येति गाथार्थः । इदानीं निरुक्तिद्वारं, चतुर्विधस्यापि सामायिकस्य निर्वचनं, क्रियाकारकभेदपर्यायैः शब्दार्थकथनं निरुक्तिः, तत्र सम्यक्त्वसामायिक निरुक्तिमभिधित्सुराह
नि. (८६१) सम्मद्दिट्ठि अमोहो सोही सब्भाव दंसणं बोही । अविवजओ सुदिट्ठिति एवमाई निरुत्ताई ॥
- सम्यक् इति प्रशंसार्थः, दर्शनं दृष्टिः, सम्यग् - अविपरीता दृष्टिः सम्यग्दृष्टिः, अर्थनामिति गम्यते, मोहनं मोहः- वितथग्रहः न मोहः अमोहः - अवितथग्रहः, शोधनं-शुद्धिः मिथ्यात्वमलापगमात् सम्यक्त्वं शुद्धिः, सत् - जिनाभिहितं प्रवचनं तस्य भावः सद्भावः तस्य दर्शनम्-उपलम्भः सद्भावदर्शनमिति, बोधनं बोधिरित्यौणादिक इत्, परमार्थसम्बोध इत्यर्थः अतस्मिस्तदध्यवसायो विपर्ययः न विपर्ययः अविपर्ययः तत्त्वाध्यवसाय इत्यर्थः, सुशब्दः प्रशंसायां, शोभना दृष्टिः सुष्टिरिति एवमादीनि सम्यग्दर्शनस्य निरुक्तानीति गाथार्थः ॥ श्रुतसामायिकनिरुक्ति-प्रदर्शनायाऽऽह
नि. (८६२)
अक्खर सन्नी संमं सादियं खलु सपज्जवसियं च । मिं अंगपविद्धं सत्तवि एए सपडिवक्खा ॥
वृ- इयं च गाथा पीठे व्याख्यातत्वान्न विव्रियते ॥ देशविरतिसामायिकनिरुक्तिमाहनि. (८६३) विरयाविरईं संवुडमसंवुडे बालपंडिए चेव । देसेक्कदेसविरई अनुधम्मो अगारधम्मो य ॥
वृ- विरमणं विरतं, भावे निष्ठाप्रत्ययः, न विरतिः - अविरतिः, विरतं चाविरतिश्च यस्यां निवृत्ती सा विरताविरतिः, संवृतासंवृताः सावद्ययोगा यस्मिन् सामायिके तत् तथा संवृतासंवृताःस्थगितास्थगिताः परित्यक्तापरित्यक्ता इत्यर्थः, एवं वालपण्डितम्, उभयव्यवहारानुगतत्वाद्, देशैकदेशविरतिः प्राणातिपातविरतावपि पृथिवीकायाद्यविरतिर्गृह्यते, अनुधर्मो बृहस्तासाधुधमपिक्षया देशविरतिरिति, अगारधर्मश्चेति न गच्छन्तीत्यागाः वृक्षास्तैः कृतमगारं गृहं तद्योगादगारः गृहस्थः तद्धर्मश्चेति गाथार्थः । सर्वविरतिसामायिकनिरुक्तिमुपदर्शयन्नाहसामाइयं समइयं सम्मावाओ समास संखे वो ।
नि. (८६४)
अनवज्रं च परिण्णा पच्चक्खाणे य ते अट्ठ ॥
३२०
वृ- 'सामायिकम्' इति रागद्वेषान्तरालवर्ती समः मध्यस्थ उच्यते, 'अय गता' विति अयनम् अयः-गमनमित्यर्थः, समस्य अयः समायः स एव विनयादिपाठात् स्वार्थिकठक्प्रत्ययोपादानात् सामायिकम्, एकान्तोपशान्तिगमनमित्यर्थः, समयिकं समिति सम्यक्शब्दार्थ उपसर्गः सम्यगयः समयः सम्यग् दयापूर्वकं जीवेषु गमनमित्यर्थः, समयोऽस्यास्तीति, 'अत इनि ठना विति ठन् समयिकं सम्यग्वादः रागादिविरहः सम्यक् तेन तठप्रधानं वा वदनं सम्यग्वादः, रागादिविरहेण यथावद् वदनमित्यर्थः, समासः 'असु क्षेपण' इति असनम् आसः-क्षेप इत्यर्थः, संशब्दः प्रशंसार्थः शोभनमसनं समासः, अपवर्गे गमनमात्मनः कर्मणो वा जीवात् पदत्रयप्रतिपत्तिवृत्त्या क्षेपः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org