________________
३१८
आवश्यक मूलसूत्रम्-१श्रुतप्रतिपन्नाः साम्प्रतं प्रतरस्य सप्तरज्ज्वात्मकस्यासङ्खयेयभागमात्राः, असङ्ख्येसु श्रेणिषु यावन्तः प्रदेशास्तावन्त इत्यर्थः, सङ्ख्येयाश्च चारित्रे प्राक्प्रतिपन्ना इति, 'त्रिभ्योऽपि' चरणदेशचरणसम्यक्त्वेभ्यः पतिताः 'अनंतगुण त्ति प्राप्य प्रतिपतिता अनन्तगुणाः प्रतिपद्यमानकप्राक्प्रतिपन्नेभ्यः, तत्र चरणप्रतिपतिता अनन्ताः, तदसङ्ख्येयगुणास्तु देशविरतिप्रतिपतिताः, तदसङ्ख्येयगुणाश्च सम्यक्त्वप्रतिपतिता इति । अत्रान्तरे सामान्यश्रुतप्रतिपतितानधिकृत्यैष्यगाथापश्चाद्धं व्याख्येयं 'सेसा संसारत्था सुयपरिवडिया हु ते सव्वे' । सम्यक्त्वप्रतिपतितेभ्यस्तेऽनन्तगुणा इति गाथार्थः ।। अधुनाऽन्तरद्वारावयवार्थं उच्यते-सकृदवाप्तमपगतं पुनः सम्यक्त्वादि कियता कालेनावाप्यते?, कियदन्तरं भवतीति, तत्राक्षरात्मकाविशिष्ट-श्रुतस्यान्तरं जघन्यमन्तर्मुहूर्तम्, उत्कृष्टं त्वाहनि. (८५३) कालमनंतं च सुए अद्धापरियट्टओ उ देसूनो ।
आसायणबहुलाणं उक्कोसं अंतर होइ । वृ-एकं जीवं प्रति कालोऽनन्त एव, चशब्दस्यावधारणार्थत्वादनुस्वारस्य चालाक्षणिकत्वात्, 'श्रुते' सामान्यतोऽक्षरात्मके 'उक्कोसं अंतर होइ' त्ति योगः । तथा सम्यक्त्वादिसामायिकेषु तु जघन्यमन्तर्मुहूर्तकाल एव, उत्कृष्टं त्वाहउपार्द्धपुद्गलपरावर्त एव देशोनः, किम् ?-उत्कृष्टमन्तरं भवतीति योगः, केषाम् ?-आशतनाबहुलानाम्, उक्तं च
"तित्थगरपवयणसुयं आयरियं गणहरं महिड्डीयं ।
आसाइन्तो वहुसो अणंतसंसारिओ होइ ॥१॥" त्ति गाथार्थः । साम्प्रतमविरहितद्वारार्थमाह-अथ कियन्तं कालमविरहेणैको ध्यादयो वा सामायिकं प्रतिपद्यन्त इत्याहनि. (८५४) सम्मसुयअगारीणं आवलियअसंखभागमेत्ता उ ।
अट्ठसमया चरिते सव्वेसु जहन्न दो समया ॥ वृ- 'सम्यक्त्वश्रुतागारिणां' सम्यक्त्वश्रुतदेशविरतिसामायिकानामित्यर्थः, नैरन्तर्येण प्रतिपत्तिकालः आवलिकाअसङ्खयेयभागमात्राः समया इति, तथाऽष्टौ समयाः चारित्रे निरन्तरं प्रतिपत्तिकाल इति, 'सर्वेषु' सम्यक्त्वादिषु 'जघन्यः' अविरहप्रतिपत्तिकालो द्वौ समयाविति गाथार्थः ॥ तत्रास्मादेवाविरहद्वाराद् विरहकालः प्रतिपक्ष इति गम्यमानत्वादनुद्दिष्टोऽपि द्वारगाथायां प्रदर्श्यतेनि. (८५५) सुयसम्म सत्तयं खलु विरयाविरईय होइ बारसगं ।
विरईए पन्नरसगं विरहियकालो अहोरत्ता । वृ- श्रुतसम्यक्त्वयोरुत्कृष्टः प्रतिपत्तिविरहकालः ‘सप्तकं खलु' इत्यहोरात्रसप्तकं, ततः परमवश्यं क्वचित् कश्चित् प्रतिपद्यत इति, जघन्यस्त्वेकसमय इति, 'विरताविरतेश्च भवति द्वादशकं' देशविरतरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रद्वादशकं भवति, जाघन्यतस्त त्रयः समया इति, 'विरतेः पञ्चदशकं विरहितकालः अहोरात्राणि' सर्वविरतेरुत्कृष्टः प्रतिपत्तिविरहकालोऽहोरात्रपञ्चदशकं, जघन्यतस्तु समयत्रमेवेति गाथार्थः ।। साम्प्रतं भवद्वारमुच्यते-कियतो भवानेको जीवः सामायिकंचतुष्टयं प्रतिपद्यत इति निदर्शयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org