________________
उपोद्घातः - [नि.८४८]
३१७
तक्रियोपलब्ध्यादेः सम्यग्दर्शनलाभो भवतीत्यध्याहारः, विरताविरतेच विरतेश्चेति गाथार्थः। कथमिति द्वारं गतं । तदित्थं लब्धं सत् कियच्चिरं भवति कालं ?, जघन्यत उत्कृष्टतश्चेति प्रतिपादयन्नाहनि. (८४९) सम्मत्तस्स सुयस्स य छावट्ठी सागरोवमाई ठिई।
सेसाण पुवकोडी देसूणा होइ उक्कोसा ।। वृ- सम्यक्त्वस्य श्रुतस्य च षट्षष्टिः सागरोपमाणि स्थितिः, कथं ?
'विजयाइसु दो वारे गयस्स तिण्णच्चुए व छावट्ठी ।
नरजम्मपुव्वकोडी मुहुत्तमुक्कोसओ अहियं ।।१।। 'शेषयोः' देशविरतिसर्वविरतिसामायिकयोः पूर्वकोटी देशोना भवति, “उक्कोस'त्ति उत्कृष्टस्थितिकालः, जघन्यतस्त्वाद्यत्रयस्यान्तर्मुहूर्त, सर्वविरतिसामायिकस्य समयः, चारित्रपरिणामारम्भसमयानन्तर-मेवाऽऽयुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तमौहूर्तिक एव, नियमितप्राणाति-पातादिनिवृत्तिरूपत्वात्, उपयोगापेक्षया तु सर्वेषामन्तर्मुहूर्तः सर्वजीवानां तु सर्वाणि सर्वदैवेति गाथार्थः । अधुना कइत्ति द्वारं व्याख्यायते-कतीति कियन्तः वर्तमानसमये सम्यक्त्वादिसामायिकानां प्रतिपत्तारः प्राक्प्रतिपन्नाः प्रतिपतिता वेति, अत्र प्रतिपमानकेभ्यः प्राक्प्रतिपन्नप्रतिपतितसम्भवात्तानेव प्रतिपादयत्राहनि. (८५०) सम्मत्तदेसविरया पलियस्स असंखभागमेत्ता उ ।
सेढीअसंखभागो सुए सहस्सग्गसो विरई॥ वृ- सम्यक्त्वदेशविरताः प्राणिनः क्षेत्रपलितस्यासङ्ख्येयभागमात्रा एव, इयं भावनाक्षेत्रपलितासङ्ख्येयभागे यावन्तः प्रदेशास्तावन्त एव उत्कृष्टतः सम्यक्त्वदेशविरतिसामायिकयोरेकदा प्रतिप्रत्तारो भवन्ति, किन्तु देशविरतिसामायिकप्रतिपत्तृभ्यः सम्यक्त्वप्रतिपत्तारोऽसङ्खयेयगुणा इति, जघन्यतस्त्वेको द्वौ वेति । 'सेढीअसंखभागो सुएत्ति इह संवर्तितचतुरस्त्रीकृतलोकैकप्रदेशनिवृत्ता सप्तरज्वात्मिका श्रेणिः परिगृह्यते, तदसङ्ख्येयभाग इति, तस्याः खल्वसङ्ख्येयभाग यावन्तः प्रदेशास्तावन्त एव एकदोत्कृष्टतः सामान्यश्रुत-अक्षरात्मके सम्यगमिथ्यात्वानुगते विचार्यो प्रतिपत्तारो भवनन्तीति हृदयं, जघन्यतस्त्वेको द्वौ वेति । 'सहस्सग्गसो विरई' सहस्त्राग्रशो विरतिमधिकृत्य उत्कृष्टतः प्रतिपत्तारो ज्ञेया इत्यध्याहारः, जघन्यतस्त्वेको द्वौ वेति गाथार्थः ।। प्राक्प्रतिपन्नानिदानी प्रतिपादयन्नाहनि. (८५१) सम्मत्तदसविरया पडिवन्ना संपई असंखेजा।
संखेज्जा य चरिते तीसुवि पडिया अनंतगुणा । नि. (८५२) सुय पडिवन्ना संपई पयरस्स असंखभागमेत्ता उ ।
सेसा संसारत्था सुयपरिवडिया हु ते सव्वे ॥ वृ-सम्यक्त्वदेशविरताः प्रतिपन्नाः ‘साम्प्रतं' वर्तमानसमयेऽसङ्ख्येया उत्कृष्टतो जघन्यतश्च, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः, एत च प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणा इति । अत्रैवान्तरे सामान्यश्रुतापेक्षया प्राक्प्रतिपन्नान् प्रतिपादयता 'सुयपडिवण्णा संपइ पयरस्स असंखभागमेत्ता उ" इदमेष्यगाथाशकलं व्याख्येयं, द्वितीयं तूतरत्र, तत्राक्षरात्मकाविशिष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org