SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २९८ आवश्यक मूलसूत्रम्-१तु छद्मस्थवीतरागस्त्रयाणां पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः । द्वारमिति गाथार्थः ॥ गतं द्वारत्रयं, साम्प्रतमायुनिद्वारद्वयाभिधित्सयाऽऽहनि. (८१९) संखिजाऊ चउरो भयणा सम्मसुयऽसंखवासीणं । ओहेण विभागेन य नाणी पडिवज्जई चउरो॥ वृ-सङ्ख्येयायुनैरः चत्वारि प्रतिपद्यते, प्रतिपन्नस्त्वस्त्येवेति वाक्यशेषः, 'भयणा सम्मसुयऽसंखवासीणं' ति भजना-विकल्पना सम्यक्त्वश्रुतसामायिकयोरसङ्ख्येयवर्षायुषाम्, इयं भावनाविवक्षितकालेऽसङ्ख्येयवर्षायुषां सम्यक्त्व श्रुतयोः प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति । द्वारम् । 'ओहेण विभागेण य नाणी पडिवज्जए चउरो'त्ति ओधेन-सामान्येन ज्ञानी प्रतिपद्यते चत्वार्यपि नयमतेन, पूर्वप्रतिपन्नस्त्वस्त्येव, विभागेन चाभिनिबोधिकश्रुतज्ञानी युगपदाद्यसामायिकद्वयप्रतिपत्ता सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येवेति, उपरितनसामायिकद्वयस्यापि प्रतिपद्यमानकः सम्भवति, इतरस्त्वस्त्येवेति, अवधिज्ञानी सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्न एव न प्रतिपद्यमानकः, देशविरतिसामायिकं तु न प्रतिपद्यते, गणपूर्वकत्वात् तदवाप्तेः, स्यात् पुनः पूर्वप्रतिपन्नः, सर्वविरतिसामायिकं तु प्रतिपद्यते, पूर्वप्रतिपन्नोऽपि भवति, मनःपर्यायज्ञानी देशविरतिरहितस्य त्रयस्य पूर्वप्रतिपन्न एव, न प्रतिपद्यमानकः, युगपद्वा सह तेन चारित्रं प्रतिपद्यते तीर्थकृद्, उक्तं च-“पडिवन्नंमि चरित्ते चउणाणी जाव छउमत्थो" त्ति, भवस्थः केवली पूर्वप्रतिपन्नः सम्यक्त्वचारित्रयोः न तु प्रतिपद्यमानक इति गाथार्थः ॥ गतं द्वारद्वयं, साम्प्रतं योगोपयोगशरीरद्वाराभिधित्सयाऽऽहनि. (८२०) चउरोऽवि तिविहजोगे उवओगदुगंमि चउर पडिवज्जे । ओरालिए चउक्कं सम्मसुय विउव्विए भयणा ॥ वृ- ‘चत्वार्यपि सामायिकानि सामान्यतः 'त्रिविधयोगे' मनोवाकायलक्षणे सति प्रतिपत्तिमाश्रित्य विवक्षितकाले सम्भवन्ति, प्राक्प्रतिपन्नतां त्वधिकृत्य विद्यन्त एव, विशेषतस्त्वौदारिककाययोगवति योगत्रये चत्वार्युभयथाऽपि, वैक्रियकाययोगवति तु सम्यक्त्वश्रुते उभयथाऽपि, आहारककाययोगवति तु देशविरतिरहितानि त्रीणि सम्भवन्ति, तैजसकार्मणकाययोग एव केवले अपान्तरालगतावाद्यं सामायिकद्वयं प्राक्प्रतिपन्नतामधिकृत्य स्यात्, मनोयोगे केवले न किश्चित्, तस्यैवाभावाद्, एवं वाग्योगेऽपि, कायवाग्योगद्वये तु स्याद् द्वयमाद्यं प्राक्प्रतिपन्नतामधिकृत्य, सम्यक्त्वात् प्रतिपततो विकलेन्द्रियोपपातिषु घण्टालालान्यायेनेति विस्तरेणालम्। 'उवओगदुगीम चउरो पडिवजे' त्ति उपयोगद्वये-साकारानाकारभेदे चत्वारि प्रतिपद्यते, प्राक्प्रतिपन्नस्तु विद्यत एव, अत्राह-सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स भवन्ती' त्यागमादनाकारोपयोगे सामायिकलब्धिविरोधः, उच्यते, प्रवर्धमानपरिणामजीवविषयत्वात् तस्यागमस्य, अवस्थितौपशमिकपरिणामापेक्षया चानाकरोपयोगे सामायिकलब्धिप्रतिपादनादविरोध इति, आह च भाष्यकार: “ऊसरदेसं दड्डेल्लयं च विज्झाइ वणदवो पप्प । - इय मिच्छस्स अनुदए उवसमसमं लहइ जीवो ॥१॥" अवस्थितपरिणामता चास्य-जं मिच्छस्सानुदओ न हायए तेन तस्स परिणामो । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy