________________
उपोद्घातः - [ नि. ८१६]
नि. (८१६) निद्दाए भावओऽवि य जागरमाणो चउण्हमन्नयरं । अंडयपोयजराउय तिग तिग चउरो भवे कमसो ॥
२९७
वृ- इह सुप्तो द्विविधः - द्रव्यसुप्तो भावसुप्तश्च, एण जाग्रदपीति, तत्र द्रव्यसुप्तो निद्रया, भावसुप्तस्त्वज्ञानी, तथा द्रव्यजागरो निद्रया रहितः, भावजागरः सम्यग्द्दष्टिः, तत्र निद्रया भावतोऽपि च जाग्रत् चतुर्णां सामायिकानामन्यतरत् प्रतिपद्यते, पूर्वप्रतिपन्नस्त्वस्त्येवेत्यध्याहारः, अपिशब्दो विशेषणे, किं विशिनष्टि ? - भावजागरः द्वयोः प्रथमयोः पूर्वप्रतिपन्न एव, द्वयस्य तु प्रतिपत्ता भवतीति निद्रासुप्तस्तु चतुर्णामपि पूर्वप्रतिपन्नो भवति, न तु प्रतिपद्यमानकः, भावसुप्तस्तूभयविकलः, नयमताद्वा प्रतिपद्यमानको भवति, अलं विस्तरेण । जन्म त्रिविधम्अण्डजपोतजजरायुजभेदभिन्नं, तत्र यथासङ्ख्यं 'तिग तिग चउरो भवे कमसो' त्ति अण्डजाःहंसादयः त्रयाणां प्रतिपद्यमानकाः सम्भवन्ति, पूर्वप्रतिपन्नास्तु सन्त्येव, पोतजाः - हस्तत्यादयोऽप्येवमेव, जरायुजाः - मनुष्यास्तेऽपि चतुर्णामित्थमेव, औपपातिकास्तु प्रथमयोर्द्वयोरेवमिति गाथार्थः ॥ स्थितिद्वारमधुनाऽऽह
नि. (८१७)
उक्कोसयद्वितीए पडिवजंते य नत्थि पडिवण्णो । अजहन्नमनुक्कोसे पडिवचंते य पडिवण्णे ॥
वृ- आयुर्वर्जानां सप्तानां कर्मप्रकृतीनामुत्कृष्टस्थितिर्जीवश्चतुर्णामपि सामायिकानां 'पडिवचंते य नत्थि पडिवण्णो' त्ति प्रतिपद्यमानको नास्ति प्रतिपन्नश्च नास्तीति, चशब्दस्य व्यवहितः सम्बन्धः, आयुषस्तूत्कृष्टस्थितौ द्वयोः पूर्वप्रतिपन्न इति, अजघन्योत्कृष्टस्थितिरेवाजघन्योकृष्टः स्थितिशब्दलोपात्, 'पडिवते य पडिवण्णो' त्ति, स हि चतुर्णामपि प्रतिपद्यमानकः सम्भवति, प्रतिपन्नश्चास्त्येव, जघन्यायुष्कस्थितिस्तु न प्रतिपद्यते, न पूर्वप्रतिपन्नः, क्षुल्लकभवगत इति, शेषकराशिजघन्यस्थितिस्तु देशविरतिरहितस्य सामायिकत्रयस्य पूर्वप्रतिपन्नः स्याद्, दर्शनसप्तकातिक्रान्तः क्षपकः अन्तकृत् केवली, तस्य तस्यामवस्थायां देशविरतिपरिणामाभावात्, जघन्यस्थितिकर्मबन्धकत्वाच्च जघन्यस्थितित्वं तस्य न तूपात्तकर्मप्रवाहापेक्षयेति, आह च - "न जहन्नाउठिईए पडिवज्जइ नेव पुव्वपडिवण्णो । सेसे पुव्यपवण्णो देसविरतिवज्जिए होज्ज || "
गाथार्थः ।। द्वारं ।। साम्प्रतं वेदसंज्ञाकषायद्वारत्रयं व्याचिख्यासुराहनि. (८१८) चउरोऽवि तिविहवेदे चउसुवि सण्णासु होइ पडिवत्ती । ट्ठा जहा कसा वणियं तह य इहयंपि ॥
वृ- 'चत्वार्यपि' सामायिकानि 'त्रिविधवेदे' स्त्रीपुंनपुंसकलक्षणे उभयथऽपि सन्तीति वाक्यशेषः, इयं भावनाचत्वार्यपि सामायिकान्यधिकृत्य त्रिविधवेदे विवक्षिते काले प्रतिपद्यमानकः सम्भवति, पूर्वप्रतिपन्नस्त्वस्त्येव, अवेदस्तु देशविरतिरहितानां त्रयाणां पूर्वप्रतिपन्नः स्यात्; क्षीणवेदः क्षपको, न तु प्रतिपद्यमानकः । द्वारं । तथा चतसृष्वपि संज्ञासु आहारभयमैथुनपरिग्रहरूपासु चतुर्विधस्यापि सामायिकस्य भवति 'प्रतिपत्तिः' प्रतिपद्यमानको भवति, न न भवति, इतरस्त्वस्त्येव । द्वारम् । अधो यथा 'पढमिल्लुगाण उदये' इत्यादिना कषायेषु वर्णित, इहापि तथैव वर्णितव्यं, समुदायार्थस्त्वयम् - सकषायी चतुर्णामप्युभयथाऽपि भवति, अकषायी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org