________________
२९४
आवश्यक मूलसूत्रम्-१'इंदग्गेई जम्मा य नेरती वारुणी य वायव्वा । सोमा ईसानऽवि य विमला य तमा य बोद्धव्वा ॥१॥
इंदा विजयद्दारानुसारतो सेसिया पदक्खिणतो ।
अट्ठवि तिरियदिसाओ उड़े विमला तमा चाधो ॥२॥ 'तावखेत्त' त्ति, तापः-सविता तदुपलक्षिता क्षेत्रदिक् तापक्षेत्रदिक्, सा चानियता
'जे सिं जत्तो सूरोउदेति तेसिं तईं हवइ पुव्वा ।
___ तावक्खेत्तदिसाओ पदाहिणं सेसियाओसिं ॥१॥ 'पन्नवए' त्ति प्रज्ञापकस्य दिक् प्रज्ञापकदिक्
“पन्नवओ जदभिमुहो सा पुव्वा सेसिया पदाहिनतो ।
तस्सेवनुगंतव्वा अग्गेयादी दिसा नियमा ॥१॥ सप्तमी भावदिक् सा भवत्यष्टादशविधैव, दिश्यते अयममुक इति संसारी यया सा भावदिक, सा चेत्थं भवत्यष्टादशविधा
'पुढविजलजलण वाया मूला खंधग्गपोरबीया य । बितिचउपंचेंदिय तिरियनारगा देवसंधाया ॥१॥
संमुच्छिमकंमाकम्मभूमगणरा तहऽन्तरद्दीवा ।
भावदिसा दिस्सइ जं संसारी निययमेताहिं ॥२॥ ति गाथार्थः ॥ इह च नामस्थापनाद्रव्यदिग्भिरनधिकार एव, शेषासु यथासम्भवं सामायिकस्य प्रतिपद्यमानकः पूर्वप्रतिपन्नो वा वाच्यः, तत्र क्षेत्रदिशोऽधिकृत्य तावदाहनि. (८१०) पुव्वाईआसु महादिसासु पडिवजमाणओ होइ।
पुवपडिवनओ पुण अन्नयरीए दिसाए उ ॥ वृ-पूर्वाद्यासु महादिक्षु विवक्षिते काले सर्वेषां सामायिकानां प्रतिपद्यमानको भवति, न तु विदिक्षु, तास्वेकप्रदेशिकत्वेन जीवावगाहनाभावात्, आह च भाष्यकारः
“छिण्णावलिरुयगागिइदिसासु सामाइयं न जं तासु ।
सुद्धासु नावगाहइ जीवो ताओ पुंफुसेजा ॥१॥" पूर्वप्रतिपन्नकः पुनरन्यतरस्यां दिशि भवत्येव, पुनः शब्दस्यैवकासर्थत्वादिति गाथार्थः ॥ तापक्षेत्रप्रज्ञापकदिक्षु पुनरष्टसु चतुर्णामपि सामायिकानां पूर्वप्रतिपन्नोऽस्ति, प्रतिपद्यमानकश्च सम्भवति, अधऊर्ध्वदिग्द्वये तु सम्यक्त्वाश्रुतसामायिकयोरेवमेव, देशविरतिसर्वविरतिसामायिकयोस्तु पूर्वप्रतिपन्नकः सम्भवति, प्रतिपद्यामानकस्तु नैवेति, उक्तं च
“अट्ठसु चउण्ह नियमा पुवपवण्णो उ दोसु दोण्हेव ।
दोण्ह तु पुव्वपवण्णो सिय नन्नो तावपन्नवए ॥१॥" भावदिक्षु पुनरेकेन्द्रियेषु न प्रतिपद्यमानको नापि पूर्वप्रतिपन्नतुर्णामपि, विकलेन्द्रियेषु सम्यक्त्वश्रुतसामायिकयोः पूर्वप्रतिपन्नः सम्भवति नेतरः, पञ्चेन्द्रियतिर्यक्षु सर्वविरतिवर्जानां पूर्वप्रतिपनोऽस्ति, प्रतिपद्यमानको भाज्यः, विवक्षितकाले नारकामराकर्मभूमिजान्तरद्वीपकनरेषु सम्यक्त्वश्रुतयोः पूर्वप्रतिपन्नकोऽस्त्येव, इतरस्तु, भाज्यः, कर्मभूमिजमनुष्येषु चतुर्णामपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org