________________
उपोद्घातः - [नि.८०६]
२९३ इत्यालोचनीयमिति समुदायार्थः । अवयवार्थं तु प्रतिद्वारं स्वयमेव वक्ष्यति-तत्रोर्ध्वलोकादिक्षेत्रमङ्गीकृत्य सम्यक्त्वादिसामायिकानां लाभादिभावमभिधित्सुराहनि. (८०७) संमसुआणं लंभो उटुं च अहे अतिरिअलोए अ।
- विरई मनुस्सलोए विरयाविरई तिरिएसुं॥ वृ- सम्यक्त्वश्रुतसामायिकयोः 'लाभः' प्राप्तिः ‘उड्डे च' इत्यूर्ध्वलोके च 'अधे य' त्ति अधोलोके च तिर्यग्लोके च, इयमत्र भावना-ऊर्ध्वलोके मेरुसुरलोकादिषु ये सम्यक्त्वं प्रतिपद्यन्ते जीवास्तेषां श्रुताज्ञानमपि तदैव सम्यक्श्रुतं भवतीति, एमधोलोकेऽपि महाविदेहाधोलौकिकग्रामेषु नरकेषु च ये प्रतिपद्यन्ते, एवं तिर्यग्लोकेऽपीति, 'विरईं मनुस्सलोगे' ति विरतिशब्देन सर्वविरतिसामायिकं गृह्यते, तच्च लाभापेक्षया मनुष्यलोक एव भवति, नान्यत्र, मनुष्या एवास्य प्रतिपत्तार इति भावना, क्षेत्रनियमं तु विशिष्टश्रुतविदो विदन्ति, विराविरई य तिरिएसुति विरताविरतिश्च देशविरतिसामायिकलक्षणा लाभविचारे तिर्यक्षु भवति, मनुष्येषु च केषुचित् । नि. (८०८) पुव्वपडिवनगा पुण तीसुवि लोएसु निअमओ तिण्हं ।
चरणस्स दोसु निअमा भयणिज्जा उड्डलोगंमि ॥ वृ- पूर्वप्रतिपन्नकास्तु त्रयाणां नियमेन त्रिष्वपि लोकेषु विद्यन्ते, चारित्रसामायिकं त्वधोलोकतिर्यग्लोकयोरेव, ऊर्ध्वलोके तु भाज्या इत्यलं प्रसङ्गेनेति गाथार्थः ॥
साम्प्रतं दिग्द्वारा-वयवार्थाभिधित्सया दिक्स्वरूप-प्रतिपादनायाहनि. (८०९) नामं ठवणा दविए खेत्तदिसा तावखेत्त पन्नवए ।
__ सत्तमिया भावदिसा सा होअट्ठारसविहा उ । वृ-नामस्थापने सुगमे 'दविए' त्ति द्रव्यविषया दिक् द्रव्यदिक्, सा च जघन्यतस्त्रयोदशप्रदेशिकं दशदिक्प्रभवं द्रव्यं, तत्रैकैकः प्रदेशो विदिश्वेते चत्वारः, मध्ये त्वेक इत्येते पञ्च, चतसृषु च दिक्ष्वायतावस्थितौ द्वौ द्वाविति, आह च भाष्यकारः
'तेरसपदेसियं खलु तावतिएसुं भवे पदेसेसुं।
जं दव्वं ओगाढं जहन्नगं तं दसदिसागं ।' उत्कृष्टतस्त्वनन्तप्रदेशिकमिति, 'खेत्तदिस' त्ति क्षेत्रदिक, सा चानेकभेदा मेरुमध्याष्टप्रादेशिकरुचकाद् बहियादिव्युत्तरश्रेण्या शकटोर्द्धिसंस्थानाश्चतस्त्रो दिशः, चतसृणामड्डप्यन्तराल-कोणावस्थिता एक-प्रदेशिकारिछन्नावलिसंस्थानाश्चतस्त्र एव विदिशः ऊर्ध्वं चतुःप्रदेशिक चतुरस्त्रदण्डसंस्थाना एकैव, अधोऽप्येवंप्रकारा द्वितीयेति, उक्तं च
'अट्ठपदेसो रुयगो तिरियं लोगस्स मज्झयारंमि । एस पभवो दिसाणं एसेव भवेऽनुदिसाणं ॥
दुपदेसादिदुरुत्तर एगपदेसा अनुत्तरा चेव । चउरो चउरो य दिसा चउरादि अनुत्तरा दोन्नि । सगडुद्धिसंठिताओ महादिसाओ भवंति चत्तारि ।
मुत्तावली य चउरो दो चेव य होति रुयगनिभा ॥ आसां च नामानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org