________________
उपोद्घातः - [ नि.७८३]
गुरुवि पूतिओ नगरे य गोसयणं कयं वद्धमाणसामी जयइत्ति || अमुमेवार्थमुपसंहरन्नाह[ भा. १४० ] वाए पराजिओ सो निव्विसओ कारिओ नरिदेणं । घोसावियं च नगरे जयइ जिनो वद्धमाणोत्ति ॥
२८३
वृ- निगदसिद्धा, तेनावि सरकखरडिएणं चेव वइसेसियं पणीयं तं च अन्नमन्नेहिं खाई नीयं तं चोलूयपणीयन्ति वुच्चइ, जओ सो गोत्तेणोलूओ आसि । गतः षष्ठो निह्नवः, साम्प्रतं सप्तमं प्रतिपादयितुमाह
[भा. १४१]
पंचसया चुलसीया तइया सिद्धि गयस्स वीरस्स । अबद्धियाण दिट्ठी दसपुरनयरे समुप्पन्ना ॥
वृ- पञ्च वर्षशतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य वीरस्य ततोऽबद्धिक ष्टिः दशपुरनगरे समुत्पन्नेति गाथार्थः ॥ कथमुत्पन्ना ?, तत्रार्यरक्षितवक्तव्यतायां कथानकं प्रायः कथितमेव, यावद् गोष्ठामाहिलः प्रत्युच्चारके कर्मबन्ध-चिन्तायां कर्मोदयादभिनिविष्टो विप्रतिपन्न इति । तथा च कथानकानुसन्धानाय प्रागुक्तानुवादपरां सङ्ग्रहगाथामाह
[ भा. १४२ ] दसपुरे नगरुच्छुघरे अज्जरक्खियपूसमित्ततियगं च । गोट्ठामाहिल नवमट्ठमेसु पुच्छा य विंझस्स ।।
वृ- इयमर्थतः प्राग्व्याख्यातैवेति न विव्रियते, प्रकृतसम्बन्धस्तु-विंझो अट्ठमे कम्मप्पवायपुव्वे कम्मं परूवेति, जहा किंचि कम्म जीवपदेसेहिं बद्धमेत्तं कालन्तरट्ठितिमपप्प विहडइ शुष्ककुड्यापतितचूर्णमुष्टिवत्, किंचि बद्धं पुठ्ठे च कालंतरेण विहडइ, आर्द्रलेपकुड्यो सम्नेहचूर्णवत्; किंचि पुण बद्धं पुढं निकाइयं जीवेण सह एगत्तमावन्नं कालान्तरेण वेइज्जइत्ति ॥ एवं श्रुत्वा गोष्ठामाहिल आह- नन्वेवं मोक्षाभावः प्रसज्यते, कथम् ?, जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागबद्धत्वात्, स्वप्रदेशवत्, तस्मादेवमिष्यतां
[भा. १४३ ] पुट्ठो जहा अबद्ध कंचुइणं कंचुओ समन्नेइ । एवं पुट्ठमबद्धं जीवं कम्मं समन्नेइ ॥
वृ- स्पृष्टो यथाऽबद्धः कञ्चुकिनं पुरुषं कञ्चुकः 'समन्वेति' समनुगच्छति, एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति, प्रयोगश्च जीवः कर्मणा स्पृष्टो न च बध्यते, वियुज्यमानत्वात्, कञ्चुकेनेव तद्वानिति गाथार्थः । एवं गोट्ठामाहिलेण भणिते विंझेण भणियं अम्हं एवं चेव गुरुणा वक्खाणियं, गोट्ठामाहिलेण भणियं-सोय न याणति, किं वक्खाणेइ ?, ताहे सो संकिओ समाणो गओ पुच्छिउं, मा मए अन्नहा गहियं हवेज्ज, ताहे पुच्छिओ सो भणइ जहा मए भणियं तहा तुमएवि अवगयं, तहेवेदं, ततो विंझेण माहिलवुत्तंतो कहिओ, ततो गुरुर्भणति - माहिलभणिती मिच्छा, कहं ! यदुक्तम्- जीवात् कर्म न वियुज्यत इत्यादि, अत्र प्रत्यक्षविरोधिनी प्रतिज्ञा, यस्मादायुष्ककर्मवियोगात्मकं मरणमध्यक्षसिद्धमिति, हेतुरप्यनैकान्तिकः, अन्योऽन्याविभागसम्बद्धानामपि क्षीरोदकादीनामुपायत्लो वियोगदर्शनात्, द्दष्टान्तोऽपि न साधनधर्मानुगतः, स्वप्रदेशस्य युक्तत्वासिद्धेः, ताद्रूप्येणानादिरूपत्वाद्भिन्नं च जीवात् कर्मेति, तथा यच्चोक्तम्- 'जीवः कर्मणा स्पृष्टो न बध्यत इत्यादि' अत्रापि किं प्रतिप्रदेशं स्पृष्टो नभसेव उत त्वडमात्रे कंचुकेनेव, यदि प्रतिप्रदेशं दृष्टान्तदान्तिकयोरसाम्यं, कंचुकेन प्रतिप्रदेशमस्पृष्टत्वात्, अथ त्वग्मात्रे स्पृष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org