________________
२५०
आवश्यक मूलसूत्रम्-१तदेव द्रव्यकारणद्वैविध्यं दर्शयति मिति तस्यैव पटादेर्द्रव्यं तद्रव्यं-तन्त्वादि, तदेव कारणमिति द्रष्टव्यं, तद्विपरीतं वेमाद्यन्यद्रव्यकारणमिति । अथवाऽन्यथ द्विविधत्वं-निमित्तं नैमित्तिकमपि, अपिशब्दादन्यथापि कारणनानातेति, तां वक्ष्यति । तत्र पटस्य निमित्तं तन्तवस्तु एव कारणं, तद्व्यतिरेकेण पटानुत्पत्तेः, यथा च तन्तुभिर्विना न भवति पटस्तथा तद्गतातानादिचेष्टादिव्यतिरेकेणापि न भवत्येव, तस्याश्च चेष्टाया वेमादिनिमित्तं, ततो निमित्तस्येदं नैमित्तिकमिति। नि. (७३८) समवाइ असमवाई छव्विह कत्ता य कम्म करणं च ।
तत्तो य संपयाणापयाण तह संनिहाणे य॥ वृ-समेकीभावे अवोऽपृथक्त्वे अय गतौ, ततश्चैकीभावेनापृथग्गमनं समवायः-संश्लेषः स येषां विद्यते ते समवायिनः-तन्तवो यस्मात्तेषु पटः समवैतीति, समवायिनश्च ते कारणं च समवायिकारणं-तन्तुसंयोगाः, कारणद्रव्यान्तर-धर्मत्वात् पटाख्यकार्यद्रव्यान्तरस्य दूर वर्तित्वात् असमवायिनः त एव कारणमसमवायिकारणमिति । आह-अर्थाभेदे सत्यनेकधा कारणद्वयोपन्यासोऽनर्थक इति, न, सज्ञाभेदेन तन्त्रान्तरीयाभ्युपगमप्रदर्शनपरत्वात्तस्य, अथवा षड्धिमित्याह-कर्ता च कारणं, तस्य कार्ये स्वातव्येणोपयोगात्, तमन्तरेण विवक्षित-कार्यानुत्पत्तेः अभीष्टकारणवत्, ततश्च घटोत्पत्तौ कुलालः कारणं, तथा कारणं च-मृत्पिण्डादि करणं, तस्य साधकतमत्वात, तथा कर्म च कारणं, क्रियते-निर्वत्यते यत्तत्कर्म-कार्यम, आह-तत्कथमलब्धात्मलाभं तदा कारणमिति? अत्रोच्यते, कर्यनिर्वर्तनमिक्रयाविषयत्वात्तस्योपचारात्कारणता, उक्तं च
“निर्वर्त्य वा विकार्य वा, प्राप्यं वा यक्रियाफलम् ।
तत् दृष्टादृष्टसंस्कार, कर्म कर्तुर्यदीप्सितम् ॥" इत्यादि, मुख्यवृत्त्या वा सौकर्यगुणेन कर्म कारणं, तथा सम्प्रदानं च घटस्य कारणं, तस्य कर्मणाऽभिप्रेतत्वात्, तमन्तरेण तस्याभावात्, सम्यक् सत्कृत्य वा प्रयत्नेन दान सम्प्रदानम्, अत एव च रजकस्य वस्त्रं ददातीति न सम्प्रदाने चतुर्थी, किं तु ब्राह्मणाय घटं ददातीति, तथाऽपादानं कारणं, विवक्षितपदार्थापायेऽपि तस्य ध्रुवत्वेन कार्योपकारकत्वाद्, 'दो अवखण्डने' दानं खण्डनम् अपसृत्य मर्यादया दानमपादानं, पिण्डापायोऽपि मृदो ध्रुवत्वादपादानतेति, सा च घटस्य कारणं, तामन्तरेण तस्यानुत्पत्तेः, तथा सन्निधानं च कारणं, तस्याधारतया कार्योपकारकत्वात्, सन्निधीयते यत्र कार्यं तत्सन्निधानम्-अधिकरणं, तच्च घटस्य चक्रं तस्यापि भूः, तस्या अप्याकाशम, आकाशस्य त्वधिकरणं नास्ति, स्वरूपप्रतिष्टितत्वात, घटस्य चेदं कारणम्, एतदभावे घटानुत्पत्तेरिति गाथार्थः ॥ उक्तं द्रव्यकारणम्, इदानीं भावकारणम् नि. (७३९) दुविहं च होइ भावे अपसत्थ पसत्यगं च अपसत्थं ।
संसारस्सेगविहं दुविहं तिविहं च नायव्वं ॥ वृ-भवीति भावः, स चौदयिकादिः, स एव कारणं संसारापवर्गयोरिति भावकारणं, तत्र 'द्विविधं च' द्विपकारं च भवति, भावे विचार्यमाणे, कारणमिति प्रक्रमाद्गम्यते, भावविषयं वा, भावकारणमित्यर्थः, अप्रशस्तम्-अशोभनं प्रशस्तं-शोभनं च, तत्राप्रशस्तं संसारस्य सम्बन्धि एकविधम्-एकभेदं द्विविधं-द्विभेदं त्रिविधं-त्रिभेदं च ज्ञातव्यं, चशब्दश्चतुर्विधाद्यनुक्तJain Education International
For Private & Personal Use Only
www.jainelibrary.org