SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २४९ उपोद्घातः - [नि.७३५] तत्र गौतमस्वामिना निषधात्रयेण चतुदर्श पूर्वाणि गृहीतानि, प्रपित्य पृच्छा निषद्योच्यते, भगवांश्चाचष्टे-उप्पन्ने इ वा विगमे इ वा धूवे इ वा, एता एव तिस्रो निषद्याः, आसामेव सकाशाद्गणभृताम् ‘उत्पादव्ययध्रौव्ययुक्तं सदि' ति प्रतीतिरुपजायते, अन्यथा सत्ताऽयोगात्, ततश्च ते पूर्वभवभावितमतयो द्वादशाङ्गमपरचयन्ति, ततो भगवमणुन्नं करेइ; सक्को य दिव्वं वइरमयं थालं दिव्वचुण्णाणं भरेऊण सामिमुवागच्छइ, ताहे सामी सीहासणाओ उठ्ठित्ता पडिपुण्णं मुढ़ि केसराणं गेण्हइ, ताहे गोयमसामिप्पमुहा एक्कारसवि गणहरा इसिं ओणया परिवाडीए ठायंति, ताहे देवा आउज्जगीयसदं निरंभंति, ताहे सामी पुव्वं तित्थ गोयम-सामिस्स दव्वेहिं गुणेहिं पज्जवेहिं अणुजाणामिति भणति चुण्णाणि य से सीसे छुहइ, ततो देवावि चुण्णवासं पुप्फवासंच उवरिं वासंति, गणं च सुधम्मसामिस्स धुरे ठवेऊण अणुजाणइ । एवं सामाइयस्सवि अत्थो भगवतो निग्गओ, सुत्तं गणहरेहितो निग्गतं, इत्यलं विस्तरेणेति गाथार्थः । साम्प्रतं पुरुषद्वारावयवार्थप्रतिपिपादयिषयाऽऽहनि. (७३६) दव्वाभिलावचिंधे वेए धम्मत्थभोगभावे य । भावपुरिसो उ जीवो भावे पगयं तु भावेणं ॥ वृ- ‘दव्य'त्ति द्रव्यपुरुषः, स चागमनो आगमज्ञशरीरभव्यशरीररातिरिक्तैकभविकबद्धायुष्काभिमुखनामगोत्र भेदभिन्नो द्रष्टव्यः, अथवा व्यतिरिक्तो द्विधा-मूलगुणनिर्मितः उत्तरगुणनिर्मितश्च, तत्र मूलगुणनिर्मितः पुरुषप्रायोग्याणि द्रव्याणि, उत्तरगुणनिर्मितस्तु तदाकारवन्ति तान्येव, अभिलप्यतेऽनेनेति अभिलापः-शब्दः, तत्राभिलापपुरुषः पुल्लिङ्गाभिधानमात्रं घटः पट इति वा, चिह्नपुरुषस्त्वपुरुषोऽपि पुरुषचिह्नोपलाक्षितो यथा नपुंसकं रमश्रुचित्तमित्यादि, तथा त्रिष्वपि लिङ्गेषु स्त्रीपुनपुंसकेषु तृणज्वालोपमवेदानुभवकाले वेदपुरुष इति, तथा धर्मार्जनव्यापार परः साधुर्धर्मपुरुषः, अर्थार्जनपरस्त्वर्थपुरुषो मम्मणनिधिपालवत्, भोगपुरुषस्तु सम्प्राप्तसमस्तविषयसुखभोगोपभोगसमर्थश्चक्रवर्त्तिवत्, 'भावे य' ति भावपुरुषश्च, चशब्दो नामाद्यनुक्तभेदसमुच्चयार्थः, 'भावपुरिसो उ जीवो भावे त्ति पू:-शरीरं पुरि शेते इति निरुक्तवशाद् भावपुरुषस्तुजीवः, 'भावि' त्ति भावद्वारे निरूप्यमाणे भावद्वारचिन्तायामिति भावार्थः, अथवा 'भावे'त्ति भावनिर्गमप्ररूपणायामधिकृतायां, किम् ? - 'पगयं तु भावणं' ति 'प्रकृतम्' उपयोगस्तु भावेनेत्युपलक्षणाद् भावपुरुषेण-शुद्धेन जीवेन, तीर्थकरेणेत्यर्थः, तुशब्दावेदपुरुषेण च गणधरेणेति, एतदुक्तं भवति-अर्थतस्तीर्थकरान्निर्गतं सूत्रतो गणधरेभ्य इति, एवमन्येऽपि यथासम्भवमायोज्या इति गाथार्थः ॥ गतं पुरुषद्वारं, साम्प्रतं कारणद्वारावयवार्थव्याचिख्या-सयाऽऽहनि. (७३७) निक्खेवो कारणंमी चउव्विहो दुविहु होइ दव्वंमि । तद्दव्यमण्णदव्वे अहवावि निमित्तनेमित्ती ।। वृ-अस्या गमनिका-निक्षेपणं निक्षेपो न्यास इत्यर्थः, करोतीति कारणं, कार्य निर्वर्तयतीति हृदयं, तस्मिन् कारणे-कारण विषयः 'चतुर्विधः' चतुर्भेदः नामस्थापनाद्रव्यभावलक्षणः, नामस्थापने सुज्ञाने, द्रव्यकारणं व्यतिरिक्तं द्विधा, यत आह-द्विविधो भवति द्रव्ये, निक्षेप इति वर्त्तते, सूचनात्सूत्रमितिकृत्वा द्रव्ये इति द्रव्यकारणविषयो द्विविधो निक्षेपः परिगृह्यते, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy