________________
उपोद्घातः - [नि.७२८]
२४७ अतो मध्वादीनां ग्रहणप्रस्तावः, तथा या चाङ्गणे प्रसुप्ता प्रोषितपतिका च मत्ता च तस्या अपि ग्रहणं प्रति प्रस्ताव एवेति, आसवेन मदनाकुलीकृतत्वात्तस्या इति गाथार्थः । इदानीं कालकाल: प्रतिपाद्यते-कालस्य-सत्त्वस्य श्वादेः कालो-मरणं कालकालः, अमुमेवार्थ प्रतिपादयन्नाहनि. (७२९) कालेन कओ कालो अम्हं सज्झायदेसकालंमि ।
तो तेन हओ कालो अकालकालं करेंतेनं ॥ वृ- 'कालेन' शुना ‘कृतः कालः' कृतं मरणम् अस्माकं स्वाध्यायदेशकाले ततोऽनेन हतः काल:-भग्नः स्वाध्यायकालः, 'अकाले' अप्रस्तावे 'कालं' मरणं कुर्वतेति गाथार्थः ।
इदानीं प्रमाणकालः प्रतिपाद्यते-तत्राद्धाकालविशेष एव मनुष्यलोकान्तर्वर्ती विशिष्टव्यवहारहेतुः अहर्निशरूपः प्रमाणकाल इति, आह चनि. (७३०) दुविहो पमाणकालो दिवसपमाणं च होइ राई अ।
चइपोरिसिओ दिवसो राती चउपोरिसी चेव ॥ वृ-द्विविधः प्रमाणकाल:-दिवसप्रमाणं च भवति रात्रिश्च, चतुष्पौरुषिौ दिवसः रात्रिः चतुष्पौरुष्येव, ततश्च प्रमाणमेव कालः प्रमाणकालः पौरुषीप्रमाणं त्वन्यत्रोत्कृष्टहीनादिभेदभिन्नं प्रतिपादितमेवेति गाथार्थः । इदानीं वर्णकालस्वरूपप्रदर्शनायाहनि. (७३१) पंचण्हं वण्णाणं जो खलु वण्णेण कालओ वण्णो।
सो होइ वण्णकालो वण्णिज्जइ जोव जं कालं ॥ वृ-पञ्चानां शुक्कादीनां वर्णानां यः खलु वर्णेन छायया कालको वर्णः, खलुशब्दस्यावधारणार्थत्वात्कृष्ण एव, अनेन गौरादेर्नामकृष्णस्य च व्यवच्छेदः, स भवति वर्णकालः, वर्णश्चासौ कालश्चेति वर्णकालः, 'वण्णिज्जइ जो व जं कालं'ति वण्णेनं वर्णः, प्ररूपणमित्यर्थः, ततश्च वर्ण्यते प्ररूप्यते यो वा कश्चित्पदार्थो यत्कालं स वर्णकालंः, वर्णप्रधानः कालो वर्णकाल इति गाथार्थः ॥ इदानीं भावकालः प्रतिपाद्यते-भावानामौदयिकादीनां स्थिति वकाल इति, आह च - नि. (७३२) सादीसपज्जवसिओ चउभंगविभागभावणा एत्थं ।
ओदइयादीयाणं तं जाणसु भावकालं तु ॥ वृ- सादिः सपर्यवसितश्चतुर्भङ्गविभागभावना अत्र कार्या, केषाम् ? -औदयिकादीनां भावानामिति, ततश्च योऽसौ विभागभावनाविषयस्तं जानीहि भावकालं तु, इयमक्षरगमनिका, अयं भावार्थः-औदयिको भावः सादिः सपर्यवसानः सादिरपर्यवसानः अनादिः सपर्यवसानः अनादिरपर्यवसान इत्येवमौपशमिकादिष्वपि चतुर्भङ्गियका द्रष्टवया, इयं पुनरत्र विभागभावनाऔदियकचतुर्भङ्गिकायां द्वितीयभङ्गशून्यानां शेषभङ्गानामयं विषयः-नारकादीनां नारकादिभवः खल्वौदयिको भावः सादिसपर्यवसानः, मिथ्यात्वादयो भव्यानामौदयिको भावोऽनादिसपर्यवसानः, स एवाभवयानां चरमभङ्गइति । उक्तः औदयिकः, औपशमिकचतुर्भङ्गिकायां तु व्यादयः शून्या एव, प्रथमभङ्गस्त्वौपशमिकसम्यक्त्वादयः, औपशमिको भावः सादिसपर्यवसान इति । उक्त औपशमिकः, क्षायिकचतुर्भङ्गिकायां तु व्यादयः शून्या एव, क्षायिकं चारित्रं दानादिलब्धिपञ्चकं च क्षायिको भावः सादिसपर्यवसानः, सिद्धस्य चारित्र्यचारित्र्यादिविकल्पा
For Private & Personal Use Only
Jain Education International
____www.jainelibrary.org