________________
२४६
आवश्यक मूलसूत्रम्-१
जण्णवाडादिसु मारिजंताणं । एवं सप्तविधं भिद्यते आयुरिति । न चैतत्सर्वेषामेव, किंतु सोपक्रमायुषा न निरुपक्रमायुषामिति । तत्र
देवा नेरइया वा असंखवासाउया य तिरिमणुया । उत्तम-पुरिसा य तहा चरिमसरीरा य निरुवकमा ॥ सेसा संसारत्था भइया निरुवकमा व इतरे वा ।
सोवक्कवमनिरुवक्कमभेदो भणिओ समासेणं ॥ आह-अध्यवसायादीनां निमित्तत्वापरित्यागाइँदोपन्यासो विरुध्यत इति, न, आन्तरेतरविचित्रोपाधिभेदेन निमित्तभेदानामेवोपन्यासात्, सकलजनसाधरणत्वाच्च शास्त्रारम्भस्य, आहयद्येवमुपक्रम्यते आयुस्ततश्च कृतनाशोऽकृताभ्यागमश्च, कथम् ?, संवत्सरशतमुपनिबद्धमायुः, तस्यापान्तराल एव व्यपगमात्कृतनाशः, येन च कर्मणा तदुपक्रम्यते तस्याकृतस्यैवाभ्यागम इति, अत्रोच्यते, यथा वर्षशतभक्तमप्यग्निकव्याधितस्याल्पेनापि कालेनोपभुञानस्य न कृतनाशो नाप्यकृताभ्यागमस्तद्वदिहापीति, आह च भाष्यकारः
"कम्मोवक्कामिजइ अपत्तकालंपि जइ ततो पत्ता ।
अकयागमकयनासामोक्खानासासयादोसा ॥ न हि दीहकालियस्सवि नासो तस्सानुभूतितो खिप्पं ।
बहुकालाहारस्स व दुयमग्गितरोगिणो भोगो॥ सव्वं च पदेसतया भुजइ कम्ममणुभावतो भइतं ।
तेनावस्सानुभवे के कतनासादयो तस्स ?॥ किंचिदकालेऽवि फलं पाविजइ पच्चए य कालेण ।
तह कम्मं पाविजइ कालेणवि पच्चए अन् ।
जह वा दीहा रज्जू डज्झइ कालेण पुंजिया खिप्पं ।
विततो पडोऽवि सुस्सइ पिंडीभूतो य कालेणं ॥" इत्यादि ततश्च यथोक्तदोषानुपपत्तिरिति द्वारगाथावयवार्थः । व्याख्यात उपक्रमकालः, साम्प्रतं देशकालद्वारावयवार्थ उच्यते-तत्र देशकालः प्रस्तावोऽभिधीयते, स च प्रशस्तोऽप्रशस्तश्च, तत्र प्रशस्तस्वरूपप्रतिपादनायाहनि. (७२७) निद्भूमगं च गामं महिलाथूभं च सुण्णयं दटुं ।
नीयं च कागा ओलेति जाया भिक्खस्स हरहरा ॥ वृ-निर्दूमकं च ग्रामं महिलास्तूपं च कूपतटिमत्यर्थः, शून्यं दृष्ट्वा, तथा नीचं च काकाः 'ओलिन्ति' त्ति गृहाणि प्रति परिभ्रमन्ति, तांश्च दृष्ट्वा विद्यात् यथा जाता भैक्षस्य 'हरहरे' त्यतीव भिक्षाप्रस्ताव इति, पाठान्तरं वा 'नीयं च काए ओलिन्ते' दृष्ट्वेत्यनुवर्तत इति गाथार्थः।
अप्रशस्तदेशकालस्वरूपाभिधित्सयाऽऽहनि. (७२८) निम्मच्छियं महुं पायडो निही खजगावणो सुण्णो ।
जा यंगणे पसुत्ता पउत्थवइया य मत्ता य॥ वृ-निर्माक्षिकं मधु, प्रकटो निधिः, खाद्यकापणः शून्यः, कुल्लूरिकापण इति भावार्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org