________________
२४४
आवश्यक मूलसूत्रम्-१नि. (७२१) इत्तरियं पि न कप्पइ अविदिन्नं खलु परोग्गहाईसुं।
चिट्ठित्तु निसिइत्तु व तइयव्वयरक्खणट्ठाए । वृ- 'इत्वरमपि' स्वल्पमपि, कालमिति गम्यते, न कल्पते अविदत्तं खलु परावगहादिषु, आदिशब्दः परावग्रहांनेकभेदप्रख्यापकः, किं न कल्पते इति ?, आह-'स्थातुं' कार्योत्सर्ग कर्तुं 'निषीदितुम्' उपवेष्टयुं, किमित्यत आह-'तइयव्वयरक्खणट्ठाए' अदत्तादानविरत्याख्यतृतीयव्रतरक्षणार्थं, तस्माभिक्षाटनादावपि व्याघातसम्भवे क्वचित् स्थातुकामेनानुज्ञाप्य स्वामिनं विधिना स्थातव्यम्, अटव्यादिष्वपि विश्रमितुकामेन पूर्वस्थित-मनुज्ञाप्य स्थातव्यं, तद्भावे देवतां, यस्याः सोऽवग्रह इति गाथार्थः ।। उक्ता दशविधसामाचारी, साम्प्रतमुपसंहरनाहनि. (७२२) एवं सामायारी कहिया दसहा समासओ एसा ।
- संजमतवड्याणं निग्गंथाणं महरिसीणं ॥ वृ-निगदसिद्धा । सामाचार्यासेवकानां फलप्रदर्शनायाहनि. (७२३) एवं सामायारिं मुंजंता चरणकरणमाउत्ता।
साहू खवंति कम्मं अनेगभवसंचियमनंतं । वृ-निगदसिद्धा एव । इदानीं पदविभागसामाचार्याः प्रस्तावः, सा च कल्पव्यवहाररूपा बहुविस्तरा स्वस्थानादवसेया, इत्युक्तः सामाचार्युपक्रमकालः, साम्प्रतं यथाऽऽयुष्कोपक्रमकालः प्रतिपाद्यते-स च सप्तधा, तद्यथानि. (७२४) अज्झवसाणनिमित्ते आहारे वेयणा पराघाए।
फासे आणापाणु सत्तविहे झिज्जए आउं । वृ-अध्यवसानमेव निमित्तम् अध्यवसाननिमित्तिं तस्मिन्नध्यवसाननिमित्ते सति, अथवा अध्यवसानं रागनेहभयभेदेन त्रिधा तस्मिन्नध्यवसाने सति, तथा दण्डादिके निमित्ते सति, आहारे प्रचुरे सति, वेदनायां नयनादिसम्बन्धिन्या सत्यां, पराघातो गर्तापातादिसमुत्थस्तस्मिन् सति, स्पर्शे भुजङ्गादिसम्बन्धिनि, प्राणापानयोनिरोधे, किम् ?, सर्वत्रैव क्रियामाह-'सप्तविधं' सप्तप्रकारमेवं भिद्यते आयुरिति गाथासमुदायार्थः ॥ अवयवार्थस्तूदाहरणेभ्योऽवसेयः, तानि चामूनि-रागाध्यवसाने सति भिद्यते आयुर्यथा__एगस्स गावीओ हरियाओ, ताहे कुढिया पच्छओ लग्गा, तेहिं नियत्तियाओ, तत्थेगो अतिसयदिव्वरूवधारी तिसिओ गामं पविट्ठो, तस्स तरुणीए नीणियमुदगं, सो य पीतो, सा तस्स अनुरत्ता, होक्कारंतस्सवि न ठाति, सो उठित्ता गतो, सावितं पलोएंती तहेव उनुयत्तेति, जाहे अद्दिस्सो जाओ ताहे तहठिया चेव रागसंमोहियमणा उयल्ला । एवं रागज्झवसाणे भिजति आउंति । तथा नेहाध्यवसाने सति भिद्यते आयुर्यथा-एगस्स वाणियगस्स तरुणी महिला, ताणि परोप्परमतीवमणरत्ताणि, ताहे सो वाणिजगेण गतो, पडिनियत्तो वसहिं एक्काहेण न पावइ, ताहे वयंसगा से भणंति-पिच्छामो किं सच्चो अणुरागो न वत्ति ?, ततो एगेनागंतूण भणिया-सो मउत्ति, तीए भणियं-किं सच्चं ?, सच्चं सच्चंति, ततो तिन्निवारे पुच्छित्ता मया, इयरस्स कहियं, सोऽवि तह चेव मतो । एवं नेहाध्यवसाने सति भिद्यते आयुरिति, आहरागनेहयोः कः प्रतिविशेष इति ?, उच्यते, रूपाद्याक्षेपजनितः प्रीतिविशेषो रागः, सामान्यस्त्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org