SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः [नि. ७१९] २४३ वृ- इह चारित्रार्थमाचार्यस्य कश्चिद्वैयावृत्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च भवति, आचार्यस्यापि वैयावृत्यकरोऽस्ति वा न वा, तत्रायं विधिः यदि नास्ति ततोऽसाविष्यत एव, अथास्ति स इत्वरो वा स्याद्यावत्कथिको वा, आगन्तकोऽप्येवं द्विभेद एव, तत्र यदि द्वावपि यावत्कथिकौ ततश्च यो लब्धिमान् स कार्य्यते, इतरस्तूपाध्यायादिभ्यो दीयत इति, अथ नेच्छति ततो वास्तव्य एव प्रीतिपुरस्सरं तेभ्यो दीयते, आगन्तुकस्तु कार्यत इति, अथ प्राक्तनोऽप्युपाध्यायादिभ्यो नेच्छति तत आगन्तुको विसर्ज्यत एव, अथ वास्तव्यो यावत्कथिक इतरस्त्वित्वर इत्यत्राप्येवमेव भेदाः कर्त्तव्याः यावदागन्तुको विसर्ज्यते, नानात्वं तु वास्तव्य उपाध्यायादिभ्योऽनिच्छन्नपि प्रीत्या इति, अथ वास्तव्यः खल्वित्वरः आगन्तुकस्तु यावत्कथिकः, ततोऽसौ वास्तव्योऽवधिकालं यावदुपाध्यायादिभ्यो दीयते, शेषं पूर्ववत्, अथ द्वावपीत्व तत्राप्येक उपाध्यायादिभ्यः कार्य्यते शेषं पूर्ववद्, अन्यतमो वाऽवधिकालं यावद्धार्यत इत्येवं यथाविधिना विभाषा कार्येति । उक्ता वैयावृत्योपसम्पत् - साम्प्रतं क्षपणोपसम्पत्प्रतिपाद्यते चारित्रनिमित्तं कश्चित्क्षपणार्थमुपसम्पद्यते, स च क्षपको द्विविधः - इत्वरो यावत्कथिकश्च यावत्कथिक उत्तल्कालेऽनशनकर्त्ता, इत्वरस्तु द्विधाविकृष्टक्षपकोऽविकृष्टक्षपकश्च तत्राष्टमादिक्षपको विकृष्टक्षपकः, चतुर्थषष्ठक्षपकस्त्वविकृष्ट इति । तत्रायं विधिः-अविकृष्टक्षपकः खल्वाचार्येण प्रष्टव्यः - हे आयुष्मन् ! पारणके त्वं की शो भवसि ?, यद्यसावाह - ग्लोनोपमः, ततोऽसाविभधातव्यः- अलं तव क्षपणेन, स्वाध्याय-वैयावृत्करणे यत्नं कुरु, इतरोऽपि पृष्टः सन्नेवमेव प्रज्ञाप्यते, अन्ये तु व्याचक्षते विकृष्टक्षपकः पारणककाले ग्लानकल्पतामनुभवन्नपीष्यत एव यस्तु मासादिक्षपको यावत्कथिको वा स इष्यत एव तत्राप्याचर्योण गच्छः प्रष्टव्यो- यथाऽयं क्षपक उपसम्पद्यत इति, अनापृच्छय गच्छं सङ्गच्छतः सामाचारीविराधना, यतस्ते सन्दिष्टा अप्युपधिप्रत्युपेक्षणादि तस्य न कुर्वन्ति, अथ पृष्टा ब्रुवते यथाऽस्माकं एकः क्षपकोऽस्त्येव, तस्य क्षपणपरिसमाप्तावस्य करिष्यामः, ततोऽसौ ध्रियते, अथ नेच्छन्ति ततस्त्यज्यते, अथ गच्छस्तमप्यनुमन्यते ततोऽसाविष्यत एव, तस्य च विधिना प्रतीच्छितस्योद्वर्त्तनादि कार्य, यत्पुनः प्रमादतोऽनाभोगतो वा न कुर्वन्ति शिष्यास्तदाऽऽचार्येण चोदनीया इत्यलं प्रसङ्गेन इति गाथार्थः ॥ चारित्रोपसम्पद्विधि-विशेषप्रतिपादनायाह नि. (७२०) वृ- उपसम्पन्नो 'यत्कारणं' यन्निमित्तं, तुशब्दादन्यच्च सामाचार्य्यन्तर्गतं किमपि गृह्यते, 'तत्कारणं' वैयावृत्त्यादि 'अपूरयन्' अकुर्वन, यदा वर्त्तत इत्यध्याहारः, किम् ? - तदा 'सारणया वा विसग्गो वा' तदा तस्य 'सारणा' चोदना वा क्रियते, अविनीतस्य पुनः विसर्गे वा - परित्यागो वा क्रियते इति, तथा नापूरयन्नेव यदा वर्त्तते तदैव सारणा वा विसर्गे वा क्रियते, किं तु ? ' अहवा समाणियंमित्ति अथवा परिसमाप्तिं नीते अभ्युपगतप्रयोजने स्मारणा वा क्रियते, यथा-समाप्तं तद्विसर्गों वेति गाथार्थः । उक्ता संयतोपसम्पत्, साम्प्रतं गृहस्थोपसम्पदुच्यते तत्र साधूनामियं सामाचारी सर्वत्रैवाध्वादिषु वृक्षाद्यधोऽप्यनुज्ञाप्य स्थातव्यं, यत आह Jain Education International For Private & Personal Use Only www.jainelibrary.org उवसंपन्नो जं कारणं तु तं कारणं अपूरेंतो । अहवा समाणियंमी सारणया वा विसग्गो वा ॥
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy