________________
२४१
उपोद्घातः - [नि.७०६] -गुरुवचनप्रतीच्छका भवन्ति-शृण्वन्तीति गाथार्थः ।। साम्प्रतं श्रवणविधिप्रतिपादनायाहनि. (७०७) निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं ।
भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयव्वं ॥ । नि. (७०८) अभिकंखंतेहिं सुहासियाइँ वयणाइँ अत्थसाराई ।
विम्हियमुहेहिं हरिसागएहिं हरिसं जणंतेहिं॥ वृ- गाथाद्वयं निगदसिद्धं । नवरं 'हरिसागएहिं ति सातहषैरित्यर्थः, अन्येषां च संवेगकारणादिना हर्षं जनयद्भिः, एवं च शृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति ।।
ततः किमित्याहनि. (७०९) गुरुपरिओसगएणं गुरुभत्तीए तहेव विनएणं ।
इच्छियसुत्तत्थाणं खिप्पं पारं समुवयंति ॥ वृ- 'गुरुपरितनोषगतेन' गुरुपरितोषजातेन सता गुरुभक्त्या तथैव विनयेन, किम् ? सम्यक्सद्भावप्ररूपणया ईप्सितसूत्रार्थयोः क्षिप्रं' शीघ्रं पारं समुपयान्ति-निष्ठां व्रजन्तीति गाथार्थः॥ नि. (७१०) वक्खाणसमत्तीए जोगं काऊण काइयाईणं ।
वंदंति तओ जेठं अन्ने पुव्वं चिय भणन्ति ॥ वृ-निगदसिद्धा । नवरम्, अन्ये आचार्या इत्थमभिदधति-किल पूर्वमेव व्याख्यानारम्भकाले ज्येष्ठं वन्दन्त इति । द्वारगाथापश्चार्धमाक्षेपद्वारेण प्रपञ्चतो व्याचिख्यासुराहनि. (७११) चोएति जइ हु जिट्ठो कहिंचि सुत्तत्थधारणाविगलो ।
वक्खाणलद्धिहीणो निरत्थयं वंदनं तंमि ॥ वृ-निगदसिद्धा । नवरं निरर्थकं वन्दनं, तस्मिस्तत्फलस्य प्रत्युच्चारकश्रवणस्याभावादिति भावना। नि. (७१२) अह वयपरियाएहिं लहुगोऽबिहु भासओ इहं जेट्ठो ।
रायनियवंदने पुण तस्सवि आसायणा भंते !॥ वृ-अथ वयःपर्यायाभ्यां लघुरपि भाषक एवेह ज्येष्ठः परिगृह्यते, रत्नाधिकवन्दने पुनः तस्याप्याशातना भदन्त ! प्राप्नोति, तथाहि-न युज्यत एव चिरकालप्रव्रजितान् लघोर्वन्दनं दापयितुमिति गाथार्थः । इत्थं पराभिप्रायमाशङ्ख्याहनि. (७१३) जइवि वयमाइएहिं लहुओ सुत्तत्थधारणापडुओ ।
वक्खाणलद्धिमंतो सो चिय इह धेप्पई जेहो ॥ वृ-प्रकटार्था । आशातनादोषपरिजिहीर्षया त्वाह- . नि. (७१४) आसायणावि नेवं पडुच्च जिनवयणभासयं जम्हा ।
. वंदनयं राइनिए तेन गुणेणंपि सो चेव ।। वृ- प्रकटाथैव । नवरं 'तेन गुणेन' अर्हद्वचनव्याख्यानलक्षणेनेति । इदानीं प्रसङ्गतो वन्दनविषय एव निश्चयव्यवहार-नयमतप्रदर्शनायाह[2416
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org