________________
२४०
__ आवश्यक मूलसूत्रम्-१०
क्षपणविषया च, इयं च कालतो यावत्कथिका च भवति, चशब्दादित्वरा च भवति, एतदुक्तं भवति-चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, सच कालत इत्वरो यावत्कथिकश्च भवतीति गाथासमासार्थः । साम्प्रतमयमेवार्थो विशेषतः प्रतिपाद्यते-तत्रापि सन्दिष्टेन सन्दिष्टस्योपसम्पदातव्येति मौलिकोऽयं गुण इति, एतत्प्रभवत्वादुपसम्पद इति, अतः अमुमेवार्थमभिधित्सुराहनि. (७००) संदिट्ठो संदिट्ठस्स चेव संपजई उ एमाई।
चउभंगो एत्थं पुन पढमो भंगो हवइ सुद्धो ॥ वृ- 'सन्दिष्ठो' गुरुणाऽभिहितः सन्दिष्टस्यैवाचार्यस्य यथा अमुकस्य सम्पद्यतां उपसम्पदं प्रयच्छत इत्यर्थः, एवमादिश्चतुर्भङ्गः, स चायं-तद्यथा-सन्दिष्टः सन्दिष्टस्योक्त एव, सन्दिष्टः असन्दिष्टः असन्दिष्टस्य-न तावदिदानी गन्तव्यं न चामुकस्येति, तत्र पुनः प्रथमो भङ्गो भवति शुद्धः, पुनः शब्दस्य विशेषणार्थत्वात् द्वितीयपदेनाव्यवच्छित्ति-निमित्तमन्येऽपि द्रष्टव्या इति गाथार्थः ।। साम्प्रतं वर्तनादिस्वरूपप्रतिपादनायाहनि. (७०१) अथिरस्स पुव्वगहियस्स वत्तणा जं इहं थिरीकरणं ।
तस्सेव पएसंतरणट्ठस्सऽनुसंधणा थडणा ॥ नि. (७०२) गहणं तप्पडढमतया सुत्ते अत्थे य तदुभए चेव ।
अत्यग्गहणंमि पायं एस विही होइ नायव्वो ॥ कृ-गाथाद्वयं निगदसिद्धमेव । नवरं-प्रायोग्रहणं सूत्रग्रहणेऽवि कश्चिद्भवत्येव प्रमार्जनादिरिति ज्ञापनार्थम् ।। साम्प्रतमधिकृतविधिप्रदर्शनाय द्वारगाथामाहनि. (७०३) मजननिसेजअक्खा कितिकमुस्सग वंदनं जेट्टे ।
भासंतो होई जेट्टो नो परियारण तो वंदे ॥ वृ- एतद्व्याचिख्यासयैवेदमाहनि. (७०४) ठाणं पमज्जिऊणं दोन्नि निसिजाउ होंति कायव्वा ।
एगा गुरुणो भणिया बितिया पुण होंति अक्खाणं ॥ वृ-निगद सिद्धा, नवरम्-'अक्खाणंति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या कर्तव्येत्युत्सर्गः ।। व्याख्यातं द्वारत्रयं, कृतिकर्मद्वारव्यचिख्यासयाऽऽहनि. (७०५) दो चेव मत्तगाइं खेले तह काइयाए बीयं तु ।
जावइया य सुणेती सव्वेऽवि य ते तु वंदंति ॥ वृ-निगदसिद्धैव, नवरं मात्रकं-समाधिः, कृतिकर्मद्वार एव च विशेषाभिधानमदुष्टमिति, अर्द्धकृतव्याख्यानोत्थाना-नुत्थनाभ्यां पलिमन्थाऽऽत्मविराधनादयश्च दोषा भावनीया इति द्वारम्।
अधुना कायोत्सर्गद्वारं व्याचिख्यासुराहनि. (७०६) सव्वे काउस्सगं करेंति सव्वे पुणोऽवि वंदति ।
नासण्णे नाइदूरे गुरूवयणपडिच्छगा होति ।। वृ-सर्वे श्रोतारः श्रेयांसि बहुविघ्नानी' तिकृत्वा तद्विघातायानुयोगप्रारम्भनिमित्तं कायोत्सर्ग कुर्वन्ति, तं चोत्सार्य सर्वे पुनरपि वन्दन्ते, ततो नासन्ने नातूिदारे व्यवस्थिताः सन्तः, किम् ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org