________________
पीठिका - [ नि. १६/१]
'अत्थाणं उग्गहणं' इत्यादावेताः प्रकृतयः प्रदर्शिता एव, किमिति पुनः प्रदर्शन्ते ?, उच्यते, तत्र सूत्रे संखयानियमेन नोक्ताः, इह तु संख्यानियमेन प्रतिपादनादविरोध इति । इदं च मतिज्ञानं चतुर्विधं द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतः सामान्यादेशेन मतिज्ञानी सर्वद्रव्याणि धर्मास्तिकायादीनि जानीते, न विशेषादेशत इति, एवं क्षेत्रतो लोकालोकं, कालतः सर्वकालं, भावतस्तु औदयिकादीन् पञ्च भावानिति, सर्वभावानां चानन्तभागमिति । उक्तं मतिज्ञानं, इदानीं अवसरप्राप्तं श्रुतज्ञानं प्रतिपिपादयिषुराह
२१
नि. (१६ / २) सुयनाणे पयडीओ, वित्थरओ आवि वोच्छामि ॥
वृश्रुतज्ञानं पूर्वं व्युत्पादितं तस्मिन् प्रकृतयो भेदा अंशा इति पर्यायाः, ताः, 'विस्तरतः ' प्रपञ्चेन, चशब्दात् संक्षेपतश्च, अपिशब्दः संभावने, अवधिप्रकृतीश्च 'वक्ष्ये' अभिधास्ये ॥ इदानीं ता एव श्रुतप्रकृतीः प्रदर्शयन्नाह - नि. (१७)
पत्तेयमक्खराई, अक्खरसंजोग जत्तिआ लोए एवइया पयडीओ, सुयनाणे हुंति नायव्वा ॥
वृ- एकमेकं प्रति प्रत्येकं, अक्षराण्यकारादीनि अनेकभेदानि, यथा अकारः सानुनासिको निरनुनासिकश्च, पुनरेकैकस्त्रिधा - ह्रस्वः दीर्घः प्लुतश्च, पुनरेकैकस्त्रिधैव- उदात्तः अनुदात्तः स्वरितश्च, इत्येवमकारः अष्टादशभेदः इत्येवमन्येष्वपि इकारादिषु यथासंभवं भेदजालं वक्तव्यमिति । तथा अक्षराणां संयोगा अक्षरसंयोगाः संयोगाश्च द्व्यादयः यावन्तो लोके यथा घटपट' इति 'व्याघ्रस्ती' इत्येवमादयः एते चानन्ता इति, तत्रापि एकैकः अनन्तपर्यायः, स्वपरपर्यायापेक्षया इति । आह-संख्येयानां अकारादीनां कथं पुनरनन्ताः संयोगा इति, अत्रोच्यते, अभिधेयस्य पुद्गलास्तिकायादेरनन्तत्वात् भिन्नत्वाच्च, अभिधेयभेदे च अभिधानभेदसिद्धया अनन्तसंयोगसिद्धिरिति, अभिधेयभेदानन्त्यं च यथा- परमाणुः, द्विप्रदेशिको, यावाद् अनन्तप्रदेशिक इत्यादि, तथैकत्रापि च अनेकाभिधानप्रवृत्तेः अभिधेयधर्मभेदा यथा- परमाणुः, निरंशो, निष्प्रदेशः, निर्भेदः, निरवयव इत्यादि, न चैते सर्वथैकाभिधेयवाचका ध्वनय इति, सर्वशब्दानां भिन्नप्रवृत्तिनिमित्तत्वात्, इत्येवं सर्वद्रव्यपर्यायेषु आयोजनीयमिति, तथा च सूत्रेऽप्युक्तं "अनंता गमा अनंता पज्जवा” अमुमेवार्थं चेतस्यारोप्याह-'एतावत्यः' इयत्परिमाणाः प्रवृत्तिनिमित्तत्वात् इत्येवं सर्वप्रकृतयः श्रुतज्ञाने भवन्ति ज्ञातव्या इति गाथार्थः । इदानीं सामान्यतयोपदर्शितानां अनन्तानां श्रुतज्ञानप्रकृतीनां यथावद्भेदेन प्रतिपादनसामर्थ्य आत्मनः खलु अपश्यन्नाहनि. (१८) कत्तो मे वण्णेउं, सत्ती सुयनाणसव्वपयडीओ ? | चउदसविहनिक्खेवं सुयनाणे आवि वोच्छामि ।।
वृ- कुतो ? नैव प्रतिपादयितुं, 'मे' मम 'वर्णयितुं' प्रतिपादयितुं 'शक्तिः' सामर्थ्यं, काः ? - प्रकृतीः, तत्र प्रकृतयो भेदाः, सर्वाश्च ताः प्रकृतयश्च सर्वप्रकृतयः श्रुतज्ञानस्य सर्वप्रकृतयः श्रुतज्ञानसर्वप्रकृतय इति समासः, ताः कुतो मे वर्णयितुं शक्तिः ?, कथं न शक्तिः ?, इह ये श्रुतग्रन्थानुसारिणो मतिविशेषास्तेऽपि श्रुतमिति प्रतिपादिताः, उक्तं च- "तेऽविय मईविसेसे, सुयनाणब्धंतरे जाण” ताँश्चोत्कृष्टतः श्रुतधरोऽपि अभिलाप्यानपि सर्वान् न भाषते, तेषामनन्तत्वात् आयुषः परिमितत्वात् वाचः क्रमवृत्तित्वाच्चेति, अतोऽशक्तिः, ततः 'चतुर्दशविधनिक्षेपं'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org