SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ २० आवश्यक मूलसूत्रम्-१ एको द्वौ त्रयो वा, उत्कृष्टतस्तु क्षेत्रपल्योपमासंख्येयभागप्रदेशराशितुल्या इति, पूर्वप्रतिपन्नास्तु जघन्यतः क्षेत्रपल्योपमासंख्येयभागप्रदेशराशिपरिमाणा एव, उत्कृष्टातस्तु एभ्यो विशेषाधिका इति । उक्तं द्रव्यप्रमाण, इदानी क्षेत्रद्वारं', तत्र नानाजीवान् एकजीवं चङ्गीकृत्य क्षेत्रमुच्यते, तत्र सर्व एवाभिनिबोधिकज्ञानिनो लोकस्य असंख्येयभागे वर्तन्ते, एकजीवस्तु ईलिकागत्या गच्छन्नूर्ध्वं अनुत्तरसुरेषु सप्तसु चतुर्दशभागेषु वर्तते, तेभ्यो वाऽऽगच्छन्निति, अधस्तु षष्ठी पृथ्वी गच्छंस्ततो वा प्रत्यागच्छन् पञ्चसु सप्तभागेषु इति, नातः परमधः क्षेत्रमस्ति, यस्मात् सम्यग्दृष्टेः अधः सप्तमनरकगमनं प्रतिषिद्धमिति, आह-अधः सप्तमनरकपृथिव्यामपि सम्यग्दर्शनलाभस्य प्रतिपादितत्वात् आगच्छतः पञ्चसप्तभागाधिकक्षेत्रसंभव इति, अत्रोच्यते, एतदप्ययुक्तं, सप्तमनरकात् सम्यग्दृष्टेरागमनस्याप्यभावात्, कथम् ?, यस्मात् तत उद्धृतास्तिर्यक्ष्वेवागच्छन्तीति प्रतिपादितं, अमरनारकाश्च सम्यग्दृष्टयो मनुष्येष्वेव, इत्यलं प्रसङ्गेन प्रकृतं प्रस्तुमः । 'स्पर्शनाद्वारं' इदानीं, इह यत्रावगाहस्तत् क्षेत्रमुच्यते, स्पर्शना तु ततोऽतिरिक्ता अवगन्तव्या, यथेह परमाणोरेकप्रदेशं क्षेत्रं सप्तप्रदेशो च स्पर्शनेति ।। तथा 'कालद्वारं', तत्रापयोगमङ्गीकृत्य एकस्यानेकेषां चान्तर्मुहूर्त्तमात्र एव कालो भवति जघन्यत उत्कृष्टतश्च, तथा तल्लब्धिमङ्गीकृत्य एकस्य जघन्येनान्तर्मुहूर्तमेव, उत्कृष्टतस्तु षट्षष्टिसागरोपमाण्यधिकानीति, वारद्वयं विजयादिषु गतस्य अच्युते वा वारत्रमिति, नरभवकालाभ्यधिक इति, तत ऊर्ध्वमप्रच्युतेनापवर्गप्राप्तिरेव भवतीति भावार्थः, नानाजीवापेक्षया तु सर्वकाल एवेति, न यस्मादाभिनिबोधिकलब्धिमच्छून्यो लोक इति । इदानीं 'अन्तरद्वारं', तत्रैकजीवमङ्गीकृत्य आभिनिबोधिकस्यान्तरं जघन्येनान्तर्मुहूर्त, कथम् ?, इह कस्यचित् सम्यक्त्वं प्रतिपन्नस्य पुनस्तत्परित्यागे सति पुनस्तदावरणकर्मक्षयोपशमाद् अन्तर्मुहूर्तमात्रेणैव प्रतिपद्यमानस्येति, उत्कृष्टतस्तु आशतनाप्रचुरस्य परित्यागे सति अपार्धपुद्गलपरावर्त्त इति, उक्तं च "तित्थगरपवयणसुयं, आयरियं गणहरं महिड्डीयं ? आसादितो बहुसो, अनंतसंसारिओ होइ॥" तथा नानाजीवानपेक्ष्य अन्तराऽभावा इति । 'भाग इति द्वारं तत्र मतिज्ञानिनः शेषज्ञानिनामज्ञानिनां चानन्तभागे वर्तन्ते इति । “भावद्वार' इदानीं, तत्र मतिज्ञानिनः क्षायोपशमिके भावे वर्तन्ते, मत्यादिज्ञानचतुष्टयस्य क्षायोपशमिकत्वात् । तथा 'अल्पबहुत्वद्वारं', तत्राभिनिबोधिकज्ञानिनां प्रतिपद्यमानपूर्वप्रतिपन्नपेक्षया अल्पबहुत्वविभागोऽयमि ति, तत्र सद्भावे सति सर्वस्तोकाः प्रतिपद्यमानकाः, पूर्वप्रतिपन्नास्तु जघन्यपदिनस्तेभ्योऽसंख्येयगुणाः, तथोत्कृष्टपदिनस्तु एतेभ्योऽपि विशेषाधिका इति गाथावयवार्थः ।। साम्प्रतं यथाव्यावर्णितमतिभेद-संख्याप्रदर्शनद्वारेणोपसंहारमाह-- नि. (१६/१) आभिनिबोहियनाणे, अट्ठावीसइ हवंति पयडीओ । वृ-अस्य गमनिका-'आभिनिबोधिकज्ञाने अष्टाविंशतिः भवन्ति प्रकृतयः' प्रकृतयो भेदा इत्यनन्तरं, कथम् ?, इह व्यञ्जनावग्रहः चतुविधिः, तस्य मनोनयनवर्जेन्द्रियसंभवात्, अर्थावग्रहस्तु षोढा, तस्य सर्वेन्द्रियेषु संभवात्, एवं ईहावायधारणा अपि प्रत्येकं षड्भेदा एव मन्तव्या इति, एवं संकलिता अष्टाविंशतिर्भदा भवन्ति । आह-प्राग् अवग्रहादिनिरूपणायां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy