SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ २२६ आवश्यक मूलसूत्रम्-१ वृ-पूर्ववदेव । एकादशो गणधरः समाप्तः । उक्ता गणधरसंशयापनयनवक्तव्यता । साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपिपादयिषया द्वारगाथामाहनि. (६४२) खेत्ते काले जम्मे गोत्तमगार छउमत्थपरियाए । केवलिय आउ आगम परिनेव्वाणे तवे चेव ॥ वृ- एकारान्ताः शब्दाः प्राकृतशैल्या प्रथमैकवचनान्ता द्रष्टव्याः, ततश्च गणधरानधिकृत्य क्षेत्रं-जनपदग्रामनगरादि तद्वक्तव्यं जन्मभूमिः, तथा कालो नक्षत्रचन्द्रयोगोयपलक्षितो वाच्यः, जन्म वक्तव्यं, तच्च मातापित्रायत्तमित्यतो माता-पितरौ वाच्यौ, गोत्रं यद्यस्य तद्वाच्यम्, 'अगारच्छीमत्थपरियाए' त्ति पर्यायशब्दः उभयत्राप्यभिसम्बध्यते, अगारपर्यायो-गृहस्थपर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति, तथा केवलिपर्यायो वाच्यः, सर्वायुष्कं वाच्यं, तथा आगमो वाच्यः, कः कस्यागम आसीत् ?, परिनिर्वाणं वाच्यं, कस्य भगवति जीवति सति आसीत् कस्य वा मृते इति, तपश्च वक्तव्यं, किं केनापवर्ग गच्छता तप आचरितमिति?, चशब्दात्संहननादि च वाच्यम्, इति गाथासमुदायार्थः ॥ . इदानीमयवयवार्थः प्रतिपाद्यते-तत्र क्षेत्रद्वारावयवार्थाभिधित्सयाऽऽहनि. (६४३) मगहा गोब्बरगामे जाया तिन्नेव गोयमसगोत्ता । कोल्लागसनिवेसे जाओ विअत्तो सुहम्मो य॥ वृ- मगधाविषये गोबरग्रामे सन्निवेशे जातास्त्रय एवाद्याः ‘गोयमे'त्ति एते त्रयोऽपि गौतमसगोत्रा इति, कोल्लागसन्निवेशे जातो व्यक्तः सुधर्मश्चेति गाथार्थः ॥ नि. (६४४) मोरीयसन्निवेसे दो भायरो मंडिमोरिया जाया। अयलो य कोसलाएँ महिलाए अंकपिओ जाओ। वृ-मौर्यसन्निवेशे द्वौ भ्रातरी मण्डिकमौ? जातो, अचलश्च कौशलायां मिथिलामकम्पिको जात इति गाथार्थः ॥ नि. (६४५) तुंगीय सन्निवेसे मेयजो वच्छभूमि' जाओ। भगवंपि य प्पभासो रायगिहे गणहगे जाओ। वृ- तुङ्गिकसन्निवेशे मेतार्यो वस्तभूमौ जातः, कोशाम्बीविषय इत्यर्थः, भगवानपि च प्रभासो राजगृहे गणधरो जात इति गाथार्थः । कालद्वारावयवार्थः प्रतिपाद्यते-तत्र कालो हि नक्षत्रचन्द्रयोगोपलक्षित इतिकृत्वा यद्यस्य गणभृतो नक्षत्रं तदभिधित्सुराहनि. (६४६) जेट्ठा कित्तिय साईं सवणो हत्युत्तरा महाओ य । रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पूसो ॥ वृ- ज्येष्ठाः कृत्तिकाः स्वातयः श्रवणः हस्त उत्तरो यासां ताः हस्तोत्तरा-उत्तरफाल्गुन्य इत्यर्थः, मघाश्च रोहिण्यः उत्तराषाढा मृगशिरस्तथा अश्विन्यः पुष्यः, एतानि यथायोगमिन्द्रभूतिप्रमुखानां नक्षात्राणीति गाथार्थः ।। जन्मद्वारं प्रतिपाद्यते-मातापित्रायत्तं च जन्मेतिकृत्वा गणभृतां मातापितरावेव प्रतिपादयन्नाहनि. (६४७) वसुभूई धनमित्ते धम्मिल मोरिए चेव । देवे वसू य दत्ते बले य पियरो गणहराणं । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy