SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ उपोद्घातः - [नि.६१२] २१७ वृ-किं 'पञ्च भूतानि' पृथिव्यादीनि सन्ति न सन्तीति वा मन्यसे, व्याख्यान्तरं पूर्ववत् । संशयश्च तवाय विरुद्धवेदपदश्रुतिसमुत्थो वर्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि वर्तन्ते-‘स्वप्नोपमं वै सकलमित्येष ब्रह्मविधिरजसा विज्ञेय' इत्यादीनि, तथा 'द्यावा पृथिवी' इत्यादीनि च, तथा 'पृथ्वी देवता आपो देवता' इत्यादीनि च, एतेषां चायमर्थः तव प्रतिमासते'स्वप्नोपमं' स्वप्नसद्दशं, वैनिपातोऽवधारणे ‘सकलम्' अशेषं जगत् 'एष ब्रह्मविधिः' एष परमार्थ-प्रकार इत्यर्थः ‘अअसा प्रगुणेन न्यानेन विज्ञेयो' विज्ञातव्यो भाव्य इत्यर्थः, ततश्चामूनि किल भूतनिह्नवपराणि, शेषाणि तु सत्ताप्रतिपादकानीति, अतः संशयः, तथा भूताभाव एव च युक्तत्युपपन्नः, ते चित्तविभ्रमः, तेषां प्रमाणतोऽग्रहणात्, तथाहि-चक्षुरादिविज्ञानस्य आलम्बनं परमाणवो वा स्युः परमाणुसमूहोवा?, न तावदणवो, विज्ञाने अप्रतिभासनात्, नापि तत्समूहो, भ्रान्तत्वात्, द्विचन्द्रवत्, भ्रान्तता चास्य समूहिभ्यस्तत्त्वान्यत्वाभ्यामनिर्वचनीयत्वात् अवस्तुत्वात्, अतः कुतो भूतसत्तेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुक्ति हृदयं च तेषां' तवसंशयनिबन्धनानां वेदपदा नामयमर्थः, 'स्वप्नोपमं वै सकल' मित्यादीन्यध्यात्मचिन्तायां मणिकनकाङ्गनादिसंयोगस्यानियतत्वादस्थिरत्वादसारत्वा-द्विपाककटुकत्वादास्थानिवृत्तिपराणि वर्तन्ते, न तु तदत्यन्ताभावप्रतिपादकानि इति, तथा 'द्यावा पृथिवी' त्यादीनि तु सुगमानि, तथा सौम्य ! न च चक्षुरादिविज्ञाने परमाणवो नावभासन्ते, तेषां तुल्यातुल्यरूपत्वात, तुल्यरूपस्य च चक्षुरादिविज्ञाने प्रतिभासनात्, न च तुल्यं रूपं नास्त्येव, तदभावे खल्वेकपरमाणु-व्यतिरेकेणान्येषामणुत्वाभावप्रसङ्गात्, न च तद् अन्यव्यावृत्तिमात्रं परिकल्पितमेव, स्वरूपाभावेऽन्यव्यावृत्तिमात्रतायां तस्य खपुष्पकल्पत्वप्रसङ्गात्, तथा चाशेषपदार्थव्यावृत्तमपि खपुष्पं स्वरूपाभावान्न सत्तां धारयति, न च तद्रूपमेव सजातीयेतरासाधारणं तदन्यव्यावृत्तिः, तस्य तेभ्यः स्वभावभेदेन व्यावृत्तेः, स्वभावभेदानभ्युपगमे च सजातीयेतरभेदानुपपत्तेः, सजातीयैकान्तव्यावृत्तौ च विजातीयव्यावृत्तावनणुत्ववदणुत्वाभावप्रसङ्गः, भावे च तुल्यरूपसिद्धिरिति, न चेयमनिमित्ता तुल्यबुद्धिः, देशादिनियमेनोत्पत्तेः, न च स्वप्नबुद्ध्या व्यभिचारः, तस्या अप्यनेकविधनिमित्तबलेनैव भावात्, आह च भाष्यकारः___“अनुभूय दिट्ठ चिन्तिय सुय पयइवियार देवयाऽनूया । सुमिणस्स निमित्ताइं पुण्णं पावं च नाभावो ॥" न च भूताभावे स्वप्नास्वप्नगन्धर्वपुरपाटलिपुत्रादिविशेषो युज्यते, न चालयविज्ञानगतशक्तिपरिपाकसमनन्तरोपजातविकल्पविज्ञानसामर्थ्यमस्यास्तुल्यबुद्धेः कारणं, स्वलक्षणादस्वलक्षणानुपपत्तेः, नापि पारम्पर्येण तदुत्पत्तियुज्यते, स्वलक्षणसामान्यलक्षणातिरिक्तवस्त्वभावेन पारम्पर्यानुपपत्तेः, बाह्यनीलाद्यभावे च शक्तिविपाकनियमो न युज्यते, नियामकसहकारिकारणाभावात् । किंच-आलयात्पीतादिसंवेदनजननशक्तयो भिन्ना वा स्युरभिन्ना वा ?, यद्यभिन्नाः सर्वेकत्वप्रसङ्गः, एकालयाभेदान्यथानुपपत्तेः, ततश्च कुतस्तासां पीतादिप्रतिभासहेतुता?, प्रयोगश्चनीलविज्ञानहेतुतया परिकल्पिता शक्तिर्न तद्धर्मा, शक्तन्तरस्वात्मवत्, अथ भिन्नास्तथाप्यवस्तुसत्यो वा स्युः वस्तुसत्यो वा ?, यद्यवस्तुसत्यः समूहवत्कुतः प्रत्ययत्वम् ?, अथ वस्तुसत्यो बाह्योऽर्थः केन वार्यत इति ?, एवमणूनां तुल्यरूपग्रहणं तदाभासज्ञानोत्पत्तेः, न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003328
Book TitleAgam Suttani Satikam Part 24 Aavashyaka
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages452
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy