________________
२१६
आवश्यक मूलसूत्रम्-१अयं स संशयस्तव विरुद्धवेदपदश्रुतिनिबन्धनो वर्तते, वेदपदानां चार्थं न जानासि, तेषां तव संशयनिबन्धनानामयमर्थो-वक्ष्यमाणलक्षण इति गाथाक्षरार्थः ॥ तानि चामूनि परस्परविरुद्धानि वेदपदानि-विज्ञानघन एव एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्यसञ्ज्ञाऽस्ति' इत्यादीनि, तथा ‘सत्येन लभ्यः तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो, यं पश्यन्ति धीरा यतयः संयतात्मानः' इत्यादीनि चेति, एतेषां चायमर्थः ते बुद्धौ प्रतिभासते-'विज्ञानघने' त्यादीनां पूर्ववत् व्याख्या, नवरं न प्रेत्य सञ्ज्ञा अस्ति-न देहात्मनोः भेदसज्ञाऽस्ति, भूतसमुदायमात्रधर्मत्वात् चैतन्यस्य, ततश्चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्तन्ते, 'सत्येन लभ्य' इत्यादीनि तु देहातिरिक्तात्मप्रतिपादकानि इति, अतः संशयः, युक्ता च भूतसमुदायमात्रधर्मता चेतनायाः, ते मतिः, तत्र एवोपलब्धेर्गौरतादिवदिति, तथा प्रत्यक्षादि प्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मेति, तत्र वेदपदानां चार्थ न जानासि, चशब्दाधुक्ति हृदयं च, तेषामयमर्थः-तत्र 'विज्ञानघने' त्यादीनां प्रथमगणघरवक्तव्यतायां व्याख्यातत्वात् न प्रदर्श्यते, “सत्येन लभ्य' इत्यादीनां तु सुगमत्वादिति । न च तत्रैव उपलब्ध्या हेतुभूतया चेतनायाः शरीरधर्मताऽनुमातुं युज्यते, तद्धर्मतया तत्रोपलम्भासिद्धेः, न च तस्मिन् सत्येव उपलम्भः तद्धर्मत्वानुमानाय अलं, ध्यभिचारदर्शनाद्, यतः स्पर्शे सत्येव रूपादयः उपल्म्यन्ते, न च तद्धर्मता तेषामिति, तस्मात् शरीरातिरिक्तात्माख्यपदार्थधर्मश्चेतना इति, देशप्रत्यक्षश्चायम्, अवग्रहादीनां स्वसंवेद्यत्वात्, भावना प्रथमगणधरवत् अवसेयास अनुमानगम्योऽपि, तच्चेदम्देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थनुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तुदेवदत्तवत्, आगमगम्यता तु अस्य प्रसिद्धा रूव 'सत्येन लभ्य' इत्यादिवेदपदप्रामाण्याभ्युपगमादिति, अलं विस्तरेण, गमनिकामात्रमेतत् । नि. (६०९) छिण्णंमि संसयंमी जिनेन जरमरणविप्पमुक्केणं ।
सो समणो पव्वइओ पंचहिं सह खंडियसएहिं । वृ- पूर्ववत् ॥ तृतीयो गणधरः समाप्त इति । अस्य च प्रथमगणधरादिदं नानात्वं-तस्य जीवसत्तायां संशयः, अस्य तु शरीरातिरिक्ते खल्वात्मनि, न तु तस्य सत्तायामिति ॥ नि. (६१०) ते पव्वइए सोउं वियत्तो आगच्छई जिनसगासं ।
वच्चामि न वंदामी वंदित्ता पज्जुवासामि ॥ वृतान् प्रव्रजितान् श्रुत्वा इन्द्रभूतिप्रमुखान् व्यक्तो नाम गणधरः आगच्छति जिनसकाशं, किंविशिष्टेनाध्यवसायेन इत्याह-व्रजामि, णमिति वाक्यालङ्कारे, वन्दामि भगवन्तं जिनं, तथा वन्दित्वा पर्युपासयामि इति गाथाक्षरार्थः ॥ इत्येवंभूतेन सङ्कल्पेन गत्वा भगवन्तं प्रणम्य तत्पादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्थी, अत्रान्तरेनि. (६११) आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं ।
नामेण य गोत्तेण य सव्वण्णू सव्वदरिसीणं ॥ वृ- व्याख्या-पूर्ववत् । नि. (६१२) किं मण्णि पंच भूया अस्थि नत्थित्ति संसओ तुझं ।
वेयपयाण य अत्थं य जाणसी तेसिमो अत्थो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org