________________
१६१
उपोद्घातः - [नि.४५८] उत्तराफाल्गुन्य इत्यर्थः । कुण्डग्रामे महावीर इति ॥ जातकर्म दिक्कुमार्यादिभिर्निर्वर्तितं पूर्ववदवसेयं, किञ्चित्प्रतिपादयत्राह[भा.६२] आभरणरयणवासं वुटुं तित्थंकरंमि जायंमि ।
सक्को अ देवराया उवागओ आगया निहओ ।। वृ-गमनिका-आभरणानि-कटककेयूरादीनि रत्नानि-इन्द्रनीलादीनि तद्वर्ष-वृष्टिं तीर्थकरे जाते सति, शक्रश्च देवराज उपागतस्तत्रैव, तथा आगताः पद्मादयो निधय इति गाथार्थः ॥ [भा.६३] तुट्ठाओ देवीओ देवा आनंदिआ सपरिसागा ।
भयवंमि वद्धमाणे तेलुक्कसुहावहे जाए। वृ-तुष्टा देव्यः देवा आनन्दिताः सह परिषद्भिः वर्तन्त इति सपरिषदः भगवति वर्धमाने त्रैलोक्यसुखावहे जाते सतीति गाथार्थः ।। गतं जन्मद्वारं, अभिषेकद्वारावयवार्थं प्रतिपादयन्नाह[भा.६४] भवणवइवाणमंतरजोइसवासी विमाणवासी अ।
सव्विड्डीइ सपरिसा चउव्विहा आगया देवा ।। वृ-गमनिका-भवनपतयश्च व्यन्तराश्च ज्योतिर्वासिनश्चेति समासः, विमानवासिनश्च सर्वा सपरिषदः चतुर्विधा आगता देवा इति गाथार्थः । [भा.६५] देवेहिं संपरिवुडो देविंदो गिण्हिऊण तित्थयरं ।
नेऊण मंदरगिरि अभिसेअंतत्थ कासी ॥ वृ- देवैः संपरिवृतो देवेन्द्रो गृहीत्वा तीर्थकरं नीत्वा मन्दरगिरि अभिसेअं' ति अभिषेकं तत्र कृतवांश्चेति गाथार्थः ॥ [भा.६६] काऊण य अभिसेअं देविंदो देवदानवेहि समं ।
जननीइ समप्पित्ता जम्मणमहिमं च कासीअ॥ वृ-गमनिका-कृत्वा चामिषेकं देवेन्द्रो देवदानवैः सार्धं, देवग्रहणात् ज्योतिष्कवैमानिकग्रहणं, दानवग्रहणात् व्यन्तर-भवनपतिग्रहणमिति । ततो जनन्याः समर्प्य जन्ममहिमां च कृतवान् स्वर्गे नन्दीश्वरे द्वीपे चेति गाथार्थः ।। साम्प्रतं यदिन्द्रादयो भुवननाथेभ्यो भक्त्या प्रयच्छन्ति तद्दर्शनायाह[भा.६७] खोमं कुंडलजुअलं सिरिदामं चेव देइ सक्को से ।
मणिकनगरयणवासं उवच्छुभे जंभगा देवा ।। वृ- गमनिका-'क्षौम' देववस्त्रं 'कुण्डलयुगलं' कर्णाभरणं 'श्रीदाम' अनेकरत्नखचितं दर्शनसुभगं भगवतो ददाति शक्रः 'से' तस्य । इत्थं निर्देशस्त्रिकालगोचरसूत्रप्रर्दनार्थः । 'जूम्भकाः' व्यन्तरा देवाः, शेषं सुगममिति गाथार्थः ॥ [भा.६८] वेसमणवयण संचोइआ उ ते तिरिअजंभगा देवा ।।
कोडिग्गसो हिरण्णं रयणाणि अ तत्थ उवनिति ॥ वृ- गमनिका-वैश्रमणवचनसंचोदितास्तु ते तिर्यग्जृम्भका देवाः । तिर्यगिति तिर्यग्लोकजृम्भकाः ‘कोट्यग्रशः' कोटीपरिमाणतः 'हिरण्यम्' अघटितरूपं रत्लानि च' इन्द्रनीलादीनि | 2411
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org