________________
१४५
उपोद्घातः - [नि.४१३]
एगो अ चउत्थीए कण्हो पुन तच्चपुढवीए । वृ- गमनिका-एकश्च सप्तम्यां पञ्च च षष्ट्यां पञ्चम्यामेकः एकश्च चतुर्थ्यां कृष्णः पुनस्तृतीयपृथिव्यां यास्यति गतो वेति सर्वत्र क्रियाध्याहारः कार्यः, भावार्थः स्पष्ट एव ।
बलदेवगतिप्रतिपिपादयिषयाऽऽहनि. (४१४) अटुंतगडा रामा एगो पुन बंभलोगकप्पंभि ।
उववण्णु तओ चइउं सिज्झिस्सइ भारहे वासे । वृ-गमनिका-अष्ट अन्तकृतो रामाः, अन्तकृत इति ज्ञानावरणीयादिकर्मान्तकृतः, सिद्धिं गता इत्यर्थः । एकः पुनः ब्रह्मलोककल्पे उत्पत्स्यते उत्पन्नो वेति क्रिया । ततश्च ब्रह्मलोकाच्युत्वा सेत्स्यति मोक्षं यास्यति भारते वर्ष इति गाथार्थः ॥आह-किमिति सर्वे वासुदेवाः खल्वधोगामिनो रामाश्चोर्ध्वगामिन इति ?, आहनि. (४१५) अणिआणकडा रामा सव्वेऽवि अ केसवा निआणकडा ।
अड्डुंगामी रामा केसव सव्वे अहोगामी ॥ वृ-गमनिका-अनिदानकृतो रामाः, सर्वे अपि च केशवा निदानकृतः, ऊर्ध्वगामिनो रामाः, केशवाः सर्वे अधोगामिनः । भावार्थः सुगमो, नवरं प्राकृतशैल्या पूर्वापरनिपातः ‘अनिदानकृता रामाः' इति, अन्यथा अकृतनिदाना रामा इति द्रष्टव्यं, केशवास्तु कृतनिदाना इति गाथार्थः। एवं तावदधिकृतद्वारगाथा 'जिनचक्किदसाराण' मित्यादिलक्षणा प्रपञ्चतो व्याख्यातेति । साम्प्रतं यश्चक्रवर्ती वासुदेवो वा यस्मिन् जिने जिनान्तरे वाऽऽसीत् स प्रतिपाद्यत इत्यनेन सम्बन्धेन जिनान्तरागमनं, तत्रापि तावत्प्रासङ्गत एव कालतो जिनान्तराणि निर्दिश्यन्ते -
उसभी वरवसभगई ततिअसमापच्छिमंमि कालंमि ।
उप्पन्नो पढमजिनो भरहपिआ भारहे वासे ॥ पन्नासा लक्खेहिं कोडीणं सागराण उसभाओ। उप्पन्नो अजिअजिनो ततिओ तीसाऍ लक्खेहिं॥ जिनवसइसंभवाओ दसहि उ लक्खेहिं अयरकोडीणं । ___ अभिनंदनो उ भगवं एवइकालेण उप्पन्नो ।। अभिनंदाउ सुमती नवहि उ लकखेहि अयरकोडीणं ।
उप्पन्नो सुहपन्नो सुप्पभनामस्स वोच्छामि ॥ नउई य सहस्सेहिं कोडीणं सागराण पुण्णाणं ।
सुमइजिणाउ पउमो एवतिकालेन उप्पन्नो ।। पउमप्पहनामाओ नवहि सहस्सेहि अयरकोडीणं । ___ कालेनेवइएणं सुपासनामो समुप्पन्नो ॥ कोडीसएहि नवहि उ सुपासनामा जिनो समुप्पन्नो ।
चंदप्पभो पभाए पभासयंतो उ तेलोकं ॥
नउईए कोडीहिं ससीउ सुविहीजिनो समुप्पन्नो । | 24[10
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org