________________
उद्देशक :
5:- ४, मूल - ११७, [ भा. २०८६ ]
८३
ओ बहिं सुणणा साहू सन्नी गिहत्थेसु ।।
वृ-यदि निर्गन्तुमनसोऽ नापृच्छ्या व्रजन्ति, तदा प्रायश्चित्तं मासलघु, । पृच्छायामपिकृतायां यदेव भणितं तदेवाधिकृत्य गमनकाले द्वितीयं वारमापृच्छा कर्तव्या । यदि पुनर्द्वितीयं वारं नापृच्छन्ति, तदापि प्रायश्चित्तं मासलघु । किं कारणंद्वितीयवारमापृच्छा कर्तव्येतिचेदत आह-उवओगेत्यादि यदा पूर्वमापृष्टं तदाचार्योऽनुपयुक्त आसीत् पश्चादुपयुक्तो जात उपयुक्तेन च तत्राशिवादयो दोषा ज्ञाताः । अथ बहिं सुणणेत्ति पश्चादाचार्येण विचारादिनिमित्तं बहिर्निर्गतेन श्रुतम् । यथा तत्र बहवो दोषा इति । यदि वा साधुना केनापि संज्ञिना श्रावकेण गृहस्थेन वा मिथ्यादृष्टिना भद्रकेण कथितमाचार्याणां यथा तत्र बहवो दोषा इति तस्मात् द्वितीयवारमवश्यं प्रष्टव्यम् । पृच्छायां चकृतायां यद्यपि तत्र न केचनापि दोषा आचार्येण निर्ज्ञातास्तथापि तत्र क्षेत्रप्रत्युपेक्षकाः पूर्वं प्रेषणीयास्तथा चाह नाऊणय निग्गमनं पडिलेहण सुलभदुल्लभं भिक्खं । गुणा आपुच्छा, जेविय दोसा अनापुच्छा ।।
[भा. २०८७]
वृ-तेषां साधूनां निर्गमनं ज्ञात्वाचार्येण साधुभिस्तस्य क्षेत्रस्य प्रतिलेखनं कारयितव्यम् । येन सुलभं दुर्लभं वा भैक्षं ज्ञायते । किं च ये गुणा द्वितीयवारमापृच्छायां भवन्ति, ते प्रतिलेखनेऽपि द्रष्टव्याः । येऽपि च दोषा द्वितीयवारमनापृच्छायां ते दोषा अप्रत्युपेक्षणेऽपि के ते इत्याहपच्चंत सावयाई तेना दुभिक्ख तावसीतोय ।
[भा. २०८८ ]
नियग पदुद्बुद्धाणा फेडणा हरियवन्नी य ।।
वृ- प्रत्यन्ताः सीमावर्तिनो म्लेच्छा लोकानामुपप्लवोत्पादनायोत्थिता वर्तन्ते स्वापदानि वा दुष्टानि व्याघ्रादीन्यपान्तराले । सम्प्रति स्तेना वा शरीरापहारिण उपध्यपहारिणो वा समंतत उत्थिताः, दुर्भिक्षं वा तत्रजातं तापस्यो वा प्रचुरमोहास्तत्र भूयस्यो ब्रह्मचर्योपद्रवायप्रभवन्ति, निजका वा अभिनवप्रव्रजितं साधुमुत्प्राव्राजयेयुः । प्रद्विषो वातत्र कश्चिदुपस्थितः । उद्घाणति उद्वसितो वा स कदाचित् देशो भवेत् । फेडणत्ति, तत्र या वसतिः मागासीत्सा केनचिदपनीतास्यात् । हरितपन्नीति तत्र दुर्भिक्षप्रायमतः शाकादि हरितं बाहुल्येन भक्ष्यते तच्च साधूनामकारकमथवा हरितपन्नीति नाम तत्र देशे केषुचित् गृहेषु राज्ञो दण्डं दत्वा देवतायै वल्यर्थं पुरुषो मार्यते । स च प्रव्रजितादिर्भिक्षाप्रविष्टः सन् तस्य गृहस्योपरि आर्द्रवृक्षशाखचिह्नं क्रियते । तत्रागृहीतसङ्केतो विनश्यतीति । सम्प्रति चरिकाप्रविष्टादि सूत्राणां चतुर्णामपि सामान्यतो नियुक्तिमाह
[भा. २०८९]
अन्नत्थ तत्थ विपरिणते य गेलन्ने होइ चउभंगे । फिडिया गयागतेसु यं अपुन्न पुन्नेसु वा दोच्चं । ।
वृ - अन्यत्र चरिकाप्रवेशे तत्र चरिकातो निवृत्तौ विपरिणते विपरिणामे जाते यदाभवति यच्च नाभवति तेषां तद्वक्तव्यमितिशेषः, । तथा ग्लान्ये ग्लानत्वे सतिभवति चतुर्भङ्गी । तस्यां च चतुर्भग्यामगवेषणादौ यदाभवति प्रायश्चित्तं तद्वाच्यमित्युपस्कारः । तथा स्फिटिता विपरिणतास्तेषां गतागतेषु आचार्यस्तेषां समीपं गतस्ते वा आचार्यस्य समीपमागता इत्येवं रूपेषु यावत्तं कालमधिकृतः तस्मिन् पूर्णे अपूर्णे वा यदि द्वितीयमपि वारमवग्रहमनुज्ञापयति । ततो यद्विपरिणतैर्लब्धं तदाचार्यो न लभते किन्तु यदा तेषां तथारूपं चित्तमजायतयथा द्वितीयमपि वारमवग्रहमनुज्ञापयामस्ततः प्रभृतियल्लब्धं तदाचार्यस्याभवति एष गाथार्थः । । साम्प्रतमन्यत्र तत्र वा विपरिणते यत् आभाव्यं तदुपदर्शयति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org