________________
७६
व्यवहार- छेदसूत्रम् - २- ४ / ११२
वृ- अस्य सूत्रस्य सम्बन्धमाह
[ भा. २०६०] कीस गणो मे गुरुणो हितोत्ति इय भिक्खु अन्नहि गच्छे। गणहरणेण कलुसितो स एव भिक्खू व एव अन्नं । ।
वृ- पूर्वसूत्रेणापहरणमुक्तं ततः 'कीस' किमिति गणो मे मम गुरोर्हत इति विचिन्त्य इति अस्मादेव गुर्वपमानलक्षणात्कारणाद् भिक्षुरन्यत्र गणान्तरे गच्छेत् । यदि वा यस्य गणोऽपहृतः स एव गणहरणेन कलुषितः सन् अन्यं गणव्रजेत्ततोऽन्यगणोपसम्पत् प्रतिपादनार्थमधिकृतंसूत्रमिति सूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्या-- भिक्षुर्गणादपक्रम्य विशिष्टसूत्रार्थनिमित्तमन्यगणमुपसम्पद्य विहरेत् । तं चोभ्रामक भिक्षाचरप्रचुरे ग्रामे भिक्षार्थमटन्तं दृष्ट्रा कश्चित्साधर्मिको वदेत्-कमाचार्यमुपसम्पद्य त्वं विहरसि । एवं पृष्टः सन् यस्तत्र सर्वरत्नाधिको गीतार्थ आचार्यस्तं वदेत् तस्मिन्नुक्ते स परिकल्पयति । यमेष व्यपदिशति सोऽगीतार्थो, न चायमगीतार्थनिश्रया विहरति । ततो भूयः पृच्छति, अथ भदन्त कस्य कल्पेन, सूत्रे स्त्रीत्वं प्राकृतत्वात्, कस्य निश्रया त्वं विहरसि, एवमुक्ते यस्तत्र सर्वबहुश्रुतस्तं वदेत् तथा तस्य सर्वरत्नाधिकस्याचार्यस्यागीतार्थस्य यः शिष्यो गीतार्थः सूत्रार्थनिष्णातः समस्तस्यापि गच्छस्य तृप्तिकारी तन्निश्रयाहं विहरामूति वदेत् यं वा स भगवानाख्याति यथैतस्याज्ञा त्वया कर्तव्या । तस्याज्ञायामुपपाते समीपे वचननिदेशे च आदेशप्रतीच्छायां स्थास्यामीति सूत्रसंक्षेपार्थः । अधुना भाष्यकृत्सूत्रव्याख्यातुकामः प्रथमतः सूत्रविषयमुपदर्शयतिपव्वावितो अगीतेहिं अन्नेहिं गंतूण उभयनिम्मत्तो ।
[भा. २०६१]
आगम्म सेस साहण ततो य साहूगओन्नत्थ ।।
वृ- कश्चिदगीतैरगीतार्थैराचार्यैः प्रब्राजितः, सोऽन्यत्र गणं गत्वा उभयतः सूत्रतोऽर्थतश्च निर्मातोऽभवत् । ततः स स्वगणे आगम्य शेषाणां गीतार्थानां साधूनां साधनं करोति सर्वानपि गीतार्थान् सूत्रार्थनिमित्तमितस्ततो विप्रसृतानाचार्यस्य समीपयानयति । समानीय च तेषां सूत्रार्थान् पूरयति । अन्यदा ततो गच्छात्कोऽपि साधुरन्यत्र गणान्तरे केनापि कार्येण गतः ।
[भा. २०६२]
तत्थवि य अन्नसाहुं अटेति अहिज्जमाण साहूणं । बिंती मा पढ एवं, किं तिय अत्थो न हो एवं ।।
वृ- तत्रापिच गणान्तरेऽन्यं साधुमाचाराङ्गे 'अट्टे लोए परिजुन्ने' इति सूत्रे 'अटे' इति अधीयानं पठन्तं श्रुत्वा ब्रूते - मा पढ एवं । स प्राह किमिति । इतरो ब्रूते - अर्थो न भवति विसंवदत्येवं यथा त्वं पठसि तस्मात् अट्टे इति द्विटकारको निर्देशोऽध्येतव्यः । ।
[भा. २०६३ ] अत्थो वि अत्थि एवं, आमं नमोक्कारमादिसव्वस्स । केरिस पुन अत्थोती बेति सुण सुत्तमट्टत्ति ।।
वृ- अधीयानः पृच्छति अर्थोऽपि ननु सूत्रस्यास्ति । इतरः प्राह- आममेवं न केवलमस्य सूत्रस्यार्थोऽस्ति किन्तु सर्वस्यापि नमस्कारादिकस्य सूत्रस्यास्ति । एवमुक्तोऽध्येता पृच्छति । कीदृशः पुनरस्य सूत्रस्यार्थ इति । इतरो ब्रूते शृणु प्रथमतो यथावस्थितं सूत्रं ततः पठति अट्टे इति । अट्टे लोए परिजुन्ने इति, एवं पठित्वास्य व्याख्यानमाह[भा. २०६४]
अट्टे चउव्विहे खलु, दव्वे नदिमादि जत्थ तणकट्ठा । आवत्तंते पडिया, अहव सुवन्नादियावट्टे ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org