________________
उद्देशकः-१०, मूलं-२५१, [ भा. ४४८३ ]
५११ दस होंति अकप्पम्मी सव्वसमासेण मुण संखा ।। ७. एवमुक्तेन प्रकारेण कल्पे चतुर्विंशतिरष्टादशका भवन्ति चत्वारि शतानि द्वात्रिंशतानि भङ्गानां भवन्तीति भावः । अकल्पे दर्षे दशाष्टादशका भवन्ति अशीतिशतं भङ्गानां भवन्तीति भावः । एतां कल्पे दर्पे च सर्वसमासेन संख्यां जानीहिभा.[४४८४] सोऊण तस्स पडिसेवणं तु आलोअणा कमविहिं तु ।
आगमपुरिसजायं परियागबलं च खेत्तं च ॥ . श्रुत्वा तस्यालोचनकस्य प्रतिसेवनामालोचनाक्रमविधि च आलोचनाक्रमपरिपार्टी चावधार्यय तथा तस्य यावानागमोस्त तावन्तमागमं तथा पुरुषजातं तमष्टमादिभिर्भावितममावितं वा पर्यायं गृहस्थपर्यायो यावानासीत् यावांश्च तस्य व्रतपर्यायः तावन्तमुभयं पर्यायं बलं शारीरिकं तस्य तथा यादृशं तत् क्षेत्रमेतत्सर्वमालोचकाचार्यकथनतः स्वतो दर्शनतश्चावधार्य स्वदेशं गच्छति । तथा चाहभा. [४४८५] आहारेउ सव्वं सो गंतूणं पुणो गुरुसगासं।
तेसि निवेदेइ तहा जहानुपुव्वि गतं सव्वं ।। वृ.सआलोचनाकार्यप्रेषितः सर्वमनन्तरोदितमासमन्तात् धारयित्वा पुनरपि स्वदेशागमनेन गुरुसकाशं गत्वा तेषां गुरूणां सर्वं तथा निवेदयति यथा आनुपूर्व्या परिपाट्य गतमवधारितम्। भा.[४४८६] सो ववहारविहण्णू अनुज्जित्ता सुत्तोवएसेणं ।
सीसस्स देई आणं तस्स इमं देहि पच्छित्तं ।।। वृ. स आलोचनाचार्यो व्यवहारविधिज्ञः कल्पव्यवहारत्मके च्छेदश्रुते अनुमय्य पौर्वापर्यालोचनेन श्रुततात्पर्यो निषण्णो भूत्वा श्रुतोपदेशेन रागद्वेषतोऽन्यथा तस्य पूर्वप्रेषितस्य स्वशिष्याज्ञां ददाति । यथा गत्वा तस्येदं प्रायश्चित्तं देहि । किं तदित्याहभा.[४४८७] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता।
नक्खत्ते भे पीडासुक्के मासं तवं कुणसु॥ वृ.प्रथमस्य कार्यस्य दर्पलक्षणस्य सम्बन्धिनी दर्पादिपदभेदतो दशविधां दशप्रकारामालोचनां निशम्याकयें परिभावितं यथा नक्षत्रशब्देनात्र मासः सूचितः । मासे मासप्रमेयप्रायश्चित्तविषयौ भवतः पीडाव्रतषट्कपीडा कायषट्कपीडा कल्पादिषट्कपीडा वा आसीत् सापि च सुक्केत्ति शुक्ले इति सांकेतिकी संज्ञेति उद्घातं मासंतपः कुर्यात्। यदि चातुर्मासंषण्मासंवा लघुप्रायश्चित्तमापन्नो भवेत् तदेवं कथयतिभा. [४४८८] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता ।
___ नक्खत्ते भे पीमा चउमासतवं कुणसु सुक्के ।। भा.[४४८९] पढमस्स य कज्जस्स य दसविहमालोयणं निसामेत्ता।
नक्खत्ते भे पीला छम्मासतवं कुणसु सुक्के ।। ७. गाथा द्वयमपि व्याख्यातार्थम्। भा.[४४९०] एवं ताव उग्घाए अनुग्घाए चेव किण्हंमि ।
मासे चउमास छमासियाणि छेयं अतो वुच्छं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org