________________
४९२
व्यवहार-छेदसूत्रम्-२- १०/२५१ भा.[४३५२] सव्वातो अज्जातो सव्वे वि य पढमसंघयण वज्जा।
सव्वे य देसविरया पच्चक्खाणेण उ मरंति ।। वृ. सर्वा अप्यार्यिकाः सर्वेऽपि च प्रथमसंहननवर्जाः सर्वेऽपि च देशविरता: प्रत्याख्यानेन भक्तपरिज्ञारूपेण वा भ्रियंते। भा.[४३५३] सव्वसुहप्पभवा उ जीवियसारा उ सव्वजनगातो।
___ आहाराउ रयणं न विज्जइ हु उत्तमं लोए। वृ. सर्वस्य सुखस्य प्रभव उत्पादकारणं सर्वसुखप्रभवस्तस्मात् जीवितसारादन्नं वै प्राणा इति वचनात्सर्वस्य गतो जनकः तस्मादाहारमन्तरेण कस्याप्युत्पत्तेरभावात् । इत्थंभूतादाहाराद, अन्यदुत्तमं रत्नं लोके न विद्यते किन्त्वाहार एव सर्वोत्तमं रत्नं रत्नत्वमेव भावयति । भा.[४३५४] विग्गहगए य सिद्धे य मोत्तुं लोयंमि जत्ति या जीवा ।
सव्वे सव्वावत्थं आहारे हुंति उवउत्ता॥ वृ.विग्रहगतान् विग्रहगत्यापन्नान् सिद्धांश्च मुक्त्वा शेषा यावन्तो लोके जीवास्ते सर्वेसर्वावस्थं सर्वास्ववस्थास्वाहारे उपयुक्ता भवन्ति । तत आहारः परमन्नम्। भा.[४३५५] तं तारिसयं रयणं सारं जं सव्वलोअरयणाणं ।
सव्वं परिच्चइत्ता पादोवगया पविहरंति ।। वृ. यत्सर्वलोके रत्नानां मध्ये सारं तेषु सत्स्वपि तृप्तेरभावात् आहाररूपं रत्नं तत्तादशं सर्वं परित्यज्य धन्याः पादपोपगताः प्रविहरन्ति । भा.[४३५६] एयं पादोवगमं निपरिकम्मं जिनेहिं पनत्तं ।
जं सोऊण खमओ वक्सायपरक्कम कुणइ ।। वृ. एतत्पादपोपगमं मरणं जिनैनिःप्रतिकर्म प्रज्ञप्तं यत् श्रुत्वा क्षपको व्यवसायपराक्रम करोति । गतमुद्वर्तनादिद्वारमधुना सारेऊण य कयमितिद्वारव्याख्यानार्थमाहभा.[४३५७] कोई परीसहेहिं वाउलिं वेयणद्दिउ वावि।
उहासेज्जकयाती पढमं बितीयं च आसज्ज ।। वृ. कश्चित्प्रथमाद्वितीयपरीपहाभ्यां व्याकुलितो ध्यानाच्चालितो यदि वा वेदनया पीडया अदितः पीडितोऽवभाषेत याचेत्कदाचित् प्रथममनशनं द्वितीयं वा पानकमासाद्याधिकृत्य ततः किं कर्तव्यमत आहभा.[४३५८] गीयत्थमगीयत्थं सारेउं मतिविवोहणं काउं।
तो परिबोहयछटे पढमे पगयं सिया बिइए । वृ.स भक्तप्रत्याख्यान: कदाचित् प्रान्तदेवतयाधिष्ठितोवभाषेत, ततः परिज्ञानमित्तं स्मरणं कारयितव्यः भण्यते त्वं गीतार्थोऽगीतार्थो वा अथवा दिवसो वर्त्तते रात्रि वा तत्र यदि समस्तमवितथं ब्रूते, तदा ज्ञायते न प्रांतदेवतयाधिष्ठितः किन्तु परीषहत्याजितो याचते, तदेवं गीतार्थमगीतार्थं चात्मानं स्मारयित्वा स्मरणोत्पादनेन यथावस्थितमतिविबोधनं कृत्वा ततः प्रतिबोध्य षष्ठे रात्रिभोजने प्रथमे अशने प्रकृतं स्यात्। द्वितीये वा पानके विमुक्तं भवति। अशने पानके च याचिते तस्य भक्तपानात्मकः कवचभूत आहारो दातव्यः । अथ किं कारणं प्रत्याख्याप्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org