SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ४७७ उद्देशकः-१०, मूलं-२५१, [ भा. ४२६८] ते खलु गवेसमाणा खेत्ते काले य अपरिमाणं ॥ वृ.यस्मादेवं क्षेत्रतः कालतश्च मार्गणायामादरः कृतः । भा. [४२६९] तम्हा संविग्गेणं पवयणगहियत्थ सव्वसारेणं । निज्जवगेण समाही, कायव्वा उत्तमट्ठमि ।। वृ. गाथा चतुष्टयमपि प्राग्वत् । गतं संविग्नद्वारमिदानीमेकद्वारमेको निर्यापको न कर्तव्यः। किन्तु बहवोऽन्यथा विराधनादिदोषप्रसङ्गात्तमेवोपदर्शयति, भा.[४२७०] एकंमि उ निज्जवग्गे विराधना होइ कज्जहानी य । सो सेहा वि य चत्ता पावयणं चेव उम्माहो । वृ.एकस्मिन् निर्यापके संयमविराधना आत्मविराधना च भवति,। तथा हि-कृतभक्तप्रत्याख्याननिमित्तं पानकग्रहणायाटन् यदा क्वापि न लभते, तदा माभत पश्चात् ग्लानस्यासमाधिरित्याधार्मिकमपि पानकं गृह्णीयादिति संयमविराधना, निरन्तरमेकस्य क्लिश्यमानस्यात्मविराधना तथा कार्यहानिश्च भवति । तथाहि मरणसमये समाध्युत्पादनाय सोपेक्षते । स च कदाचित्तत्समये पानकादिनिमित्तमन्यत्र गतो भवेत् तथा स भक्तप्रत्याख्यानस्त्यक्तः शैक्षा अपि च त्यक्ताः प्रवचनतस्त्यक्तमुड्डाहश्चोपजायते । एतद्विभावनार्थमाहभा.[४२७१] तस्सट्ट गतोहासणादि अदाने सो परिच्चत्तो। दाउं व अदाउं वा भवंति सेहा व निद्धम्मा ॥ वृ. तस्य प्रत्याख्यानभक्तस्यार्थाय पानकादीनां मागणाय गतो निर्यापकस्तस्य समीपे शैक्षकोऽपरिणतो वा मुक्तस्तस्य समीपे उहासणेति भक्तं याचितं ते च शैक्षकादयो न कल्पते । एतस्य च भक्तं कृतप्रत्याख्यानत्वादिति न ददति दाने च सोऽसमाधिना मरणं प्राप्नुयदिति चैतदेवमेव हिंसादिप्रत्याख्यानान्यपि ततः कल्पन्ते हिंसादयोऽपीति निर्धर्माणो जायंते। भा. [४२७२] कूयइ अदिज्जमाणे, मारेन्ति बलत्ति पवयणं चत्तं सेहा य पडिगया जणे अवण्णं पयासेंति ॥ व. तैः शैक्षकैरेवादीयमाने भक्ते स महत्ता शब्देन कूजति यथा मामेते बलान्मारयन्ति इत्येवमुक्तेन प्रकारेण प्रवचनं त्यक्तं । तथा शैक्षा ये प्रतिगताः प्रतिभग्नाः सन्तो जनेऽवज्ञां प्रकाशयन्ति । एष उड्डाहः । गतमेकद्वारमाभोगेन द्वारमाहभा.[४२७३] परतो सयं व नच्चा पारगमिच्छत्ति अपारगे गुरुगा। असती खेमसुभिक्खे निव्वाघाएण पडिवत्ती।। वृ. भक्तं प्रत्याख्यातुकामः कोऽपि समागतस्ततः आचार्येणाभोगः कर्तव्यो यावदस्य भक्तप्रत्याख्यानं समाप्तिमुपयाति तावदशिवायुपद्रवो नगरादीनां वोत्थानं भविष्यति किं वा नेति, तच्च कथं ज्ञातव्यं ते (तत्) स्वयमाचार्यस्यातिशयोऽस्ति तेन ज्ञातव्यं, यदि वा निमित्तमासोगमीमथवा स्वयं देवता कथयति यथा कंचनपुर गाथा इत्यादि। अथ स्वतोऽतिशयो निमित्तं वा नास्ति तर्हि येषां ते स्वयं प्रष्टव्याः एवं स्वतः परतो वा अशिवादीनां नगरोत्थानादीनां वा भावमवबुद्धय पुनरिदं ज्ञातव्यं । किमेष प्रत्याख्यानस्य पारगो भविष्यति किं वा नेति । तत्र यदि पारगतो ज्ञायते ततस्तं पारगमिच्छन्ति अथ चापारगं नेच्छन्ति, तथा अपारगे इष्यमाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy