SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ ४६० व्यवहार - छेदसूत्रम् - २ - १० / २५१ वृ. रागद्वेषनिभृता रागद्वेषाव्यापाररहिता आगमव्यवहारिणाः प्रज्ञप्ता ये जिनेन्द्राणामाज्ञया व्यवहारं व्यवहरन्ति । भा. [४१६० ] एवं भणिते भणती ते वोच्छिन्ना उपसंपयं इहई । तेसु य वोच्छिन्नेसु नत्थि विसुद्धी चरित्तस्स ॥ देंतावि न दीसंती न विकरेता उपसंपयं केई । तित्थं च नाण दंसण निज्जवगा चेव वोच्छिन्ना ॥ भा. [४१६१] वृ. एवं प्रागुक्तेन प्रकारणे भणिते चोदको भणति व्यवच्छिन्ना खल्विह भरतक्षेत्रे साम्प्रतमागव्यवहारिणस्तेषु च व्यवच्छिन्नेषु चारित्रस्य विशुद्धिर्नास्ति सम्यक् परिज्ञानभावतो यथावस्थितशुद्धिदायकाभावात् । अन्यच्च मासिकं पाक्षिकमित्यादि प्रायश्चित्तं ददतोऽपि न केचित् दृश्यन्ते नापि केचित्तथा रूपं प्रायश्चित्तं कुर्वन्तस्ततो ददतां कुर्वतां वा भावे सम्प्रति तीर्थं ज्ञानदर्शनं ज्ञानदर्शनात्मकमनुवर्तते नानुचारित्रात्मकं यतश्चारित्रस्य पर्यन्तसमये निर्यापका एव यथावस्थितशोधिप्रदानत उत्तरोत्तरचारित्रनिर्वाहका एव व्यवच्छिन्नाः । सम्प्रत्येतदेव विभावयिषुः प्रथमतश्चारित्रस्यशुद्धिर्नास्तीति भावयति भा. [४१६२] चोद्दसपुधव्वराणं वोच्छेदो केवलीण वुच्छेए । केसि वी आदेसो पायच्छित्तं पि वोच्छिन्नं ॥ वृ. केवलिनां व्यवच्छेदे सति तदनन्तरं स्तोकेन काले चतुर्दशपूर्वधराणामपि व्यवच्छेदो भवति । ततः शोधिदायकाभावान्नास्ति शुद्धिश्चारित्रस्य, अन्यच्च केषांचिदमयादेशो यथा प्रायश्चित्तमपि व्यवच्छिन्नं । एतदेव भावयति - भा. [४१६३] जं जत्तिएण सुज्झइ पावें तस्स तहा देंति पच्छित्तं । जिन चोद्दसपुव्वधरा तव्विवरीया जहिच्छाए || वृ. जिना: केवलिप्रभृतयश्चतुर्दशपूर्वधरा यत्पापं यस्य यावता प्रायश्चित्तेन शुद्धयति तस्य तावन्मात्रं प्रायश्चित्तं ददति ये तु तद्विपरीताः कल्पव्यवहारनिशीथधरास्ते आगमव्यवहाराभावात् यदृच्छया प्रायश्चित्तं दद्युः । कदाचिन्नयुनं कदाचिदधिकं वा ततः परमार्थतः सम्प्रति प्रायश्चित्तं व्यवच्छिन्नं तद्वयवच्छेदान्निर्यापका अपि चारित्रस्य व्यवच्छिन्ना एतदेव स्पष्टयति- (भावयति) भा. [४१६४ ] पारगमपारगं वा जाणंते जस्स जं च करणिज्जं । देइ तहा पच्चक्खी धुणक्खरसमो उपारोक्खी ॥ वृ. एष संवरीतुकामः पारगामी भविष्यति । एष नेति । पारगमपारगं वा प्रत्यक्षागमव्यवहारिणः सम्यग् जानते यश्च यस्य करणीयं कर्त्तुं शक्यं तस्य तत् ज्ञात्वा तथा ददति तथा ते पारापारगादिज्ञानं समस्थितास्ततस्तादृशमुपायमुपदिशन्ति येन स पारगामी भवति । यथा चाराधक उपजायते यस्तु परोक्षी परोक्षज्ञानी स धृणाक्षरसमः किमुक्तं भवति धुणाक्षरवत् । यदृच्छया ततः कदाचित्त पापशुद्धिर्नावश्यमिति । अन्यच्च तस्य परोक्षज्ञानिनः प्रायश्चित्तं ददतो महत्प्रायश्चित्तं पापं तथा चाह भा. [४१६५ ] Jain Education International जाऊणाहिएदाने वृत्ता मग्गविराधना । न सुज्झेइ विदेंतो उ असुद्धो कं च सोहए ।। For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy