________________
उद्देशकः-१०, मूलं-२५१, [भा. ४१५४]
४५९ भा. [४१५४] अट्टहिं अट्ठारसहिं व दसहिं य ठाणेहिं जे अपरोक्खा ।
आलोयण दोसेहिं छहियं ट्ठाणेहि जे अपरोक्खा ।। भा. [४१५५] आलोयणठाणेहि छहियं ठाणेहिं जे अपरोक्खा।
पंचहि नियंठेहि पंचहि य चरित्तमंतेहि ।। वृ.अष्टसु आचारवत्तत्वप्रभृतिषु स्थानेषु अष्टादशसु व्रतषट्कप्रमुखेषु दशसु च प्रायश्चित्तस्थानेषु ये अपरोक्षाः प्रत्यक्षज्ञानिनः तथा दशसु आलोचनादोषेषु वा ये अपरोक्षविज्ञानाः प्रत्यक्षविज्ञानिनः । तथा दशस्वालोचनागुणेषु षट्सु च स्थानेषु अनन्तरभाविपु ये अपरोक्षाः साक्षात् ज्ञानिनस्तथा पञ्चसु पुलकादिषु निर्ग्रन्थेषु पञ्चसु चारित्रवत्सु सामायिकादिसयमवस्तु ये प्रत्यक्षज्ञानिनस्ते आगमव्यवहारिणः । एतदेव गाथाद्वयं व्याचिख्यासुराहभा.[४१५६] अट्ठाया खमादी वयछक्कादी एवइ अट्ठरसा।
दसविह पायच्छित्ते आलोयण दोसदसहिं वा ।। वृ. अष्टौ स्थानानि आचारवत्यादीनि तानि च प्रागभिहितानी वालोचनार्हत्वनिबन्धनानि । तथा चोक्तं स्थानाङ्गे-अट्ठहिट्ठाणेहिं जाति संपन्ने भवति तो आलोयणारिहो तं जहा आयारवमित्यादि । अष्टादशस्थानादिव्रतषट्कादीनि भवन्ति पुनरष्टादशग्रहणमेतेषु अपराधास्तेषु प्रायश्चित्तविधिपरिज्ञानप्रतिपत्त्यर्थं दशस्थानानि दशविधिमालोयणपडिक्कमणेत्यादिरूपं प्रायश्चित्तं आलोचनादोपेषु दशसु अकम्पयिता इत्यादिरूपेषु तथाभा.[४१५७] छहिं काएहिं वएहि व गुणेहिं आलोयणाए दसहिं च ।
छट्ठाणावडिएहिं छहि चेव उ जे अपरोक्खा ॥ वृ. पटिस्वति कायेषु व्रतेषु वा तथा आलोचनायाः सम्बन्धिषु गुणेषु दशसु जातिसम्पन्नप्रभृतिषु । उक्तं च स्थानाङ्गे-दसहि ढाणेहिं संपन्ने अरिहइ अन्नदोसमालोइत्तए । तं जहाजातिसम्पन्ने कुलसम्पन्ने इत्यादि तथा षट्सु स्थानेष्विति षट्स्थानपतितेषु स्थानेषु ये अपरोक्षाः साक्षाद्वेदितारः कियन्ति पट्स्थानपतितानि स्थानानीत्यत आहभा. [४१५८] संखादीआ ट्ठाणा छर्हि ठाणेहिं पडियाण ट्ठाणाण !
जे संजया सरागा सेसा एक्कंमि ढाणंमि ।। वृ. पट्सु स्थानेष्वनन्तभागवृद्धा असंख्यातभागवृद्धा संख्यातभागवृद्धा संख्यातगुणवृद्धाऽसंख्यातगुणवृद्धानन्तगुणवृद्धेषु यानि पतितानि स्थानानि तेषां सम्बन्धिनो ये सरागाः संयतास्ते वेदितव्याः । पटस्थानपतितेषु सरागसंयता वर्तन्ते इति भावः । तेषां च तानि षट्स्थानपतितानि स्थानानि संयमस्थानानि संख्यातीतानि असंख्येयलोकाकाशप्रदेशप्रमाणानि अत एव सरागसंयतानां केषाञ्चिद्वर्द्धते केषाञ्चित हीयते केषाञ्चित् वर्धते हीयते च । ये तु शेषवीतरागसंयतास्ते एकस्मिन् स्थाने हि तथाहि न तेषां चारित्रं वर्धते नापि हानिमुपगच्छति । कषायाणामभावात्, किन्त्ववस्थितमेकमेव परमप्रकार्षप्राप्तं संयमस्थानमिति एतेषां वस्तूनां ये साक्षाद्वेदितारस्ते आगमव्यवहारिणस्तथा चाहभा. [४१५९] ए आगम ववहारी पन्नता रागदोस नीहूया।
आणाए जिणिंदाणं जे ववहारं ववहरंति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org