________________
४५३
उद्देशकः-१०, मूलं-२५१, [ भा. ४१०५ ] षड्भेदाः । साम्प्रतमीहादीनां षड्भेदान् प्रत्येकं योजयन्नाहभा. [४१०६] उग्गहियस्स उईहा ईहिता पच्छा अनंतरमवातो।
अवगते एच्छ धारण तीए विसेसो इमो नवरं ।। वृ.अवग्रहीतार्थस्य विषये ईहा प्रवर्तते, ईहाया अपि उक्तप्रकारेण षड्भेदा भावनीयाः । ईहिते सति पश्चादनन्तरमवाय उपजायते । ततस्तस्याप्युक्तपप्रकारेण षड्भेदाः । अवगते सति पश्चाद्धारणातस्तस्या अपि पडेभेदाः नवरं तस्यां धारणायामयं वक्ष्यमाणो विशेषस्तमेवाहभा. [४१०७] बहु बहुविहं पुराणं दुद्धरमनिस्सिय तहेव असंदिद्धं ।
पोराण पुरा वायितं दुद्धरनयभंगगुवलिता।। वृ. बहु बहुविधं पौराणं दुर्धरमनिश्रितं तथैवासन्दिग्धं धरणमिति धारणायाः षड्भेदास्तत्र बहुबहुविधाऽनिश्रिताऽसन्दिग्धानि तथैव पौराणं नाम यत् पुरा चिरकालो वाचितं । दर्द्धरं नाम नयभंगैर्वागुपिलत्वान्महता कष्टेन धार्यम् सम्प्रति प्रयोगमतिसम्पदं चतुर्भेदामाह। भा. [४१०८] एत्तो उ पउगमती चउव्विहा होइ आनुपुव्वीए।
आयपुरिसं व खेत्तं वत्थु वि य पउंजए वायं ।। वृ. अत ऊर्ध्वं प्रयगमतिश्चतुर्धा आनुपूर्व्या परिपाट्य वक्ष्यते । तामेवाह-आत्मानं पुरुषं क्षेत्रं वस्तु दितित्वा ज्ञात्वा वादं प्रयुक्ते उपलक्षणमेतत् । धर्मकथादिकं वा तत्रात्मद्वारमाहभा.[४१०९] जाणति पयोगभिसजो वाही जेनातुरस्स छिज्जइ।
ओइय वातो य कहा वा नियसत्तिं नाउ कायव्वा ।। वृ. यथा प्रयोगभिषक् येनौषधेनातुरस्य व्याधिः च्छिद्यते तत् जानाति ज्ञात्वा च तत् प्रयुंक्ते इत्येवमधुना प्रकारेण निजशक्तिं ज्ञात्वा वादो धर्मकथा वा कर्तव्या नान्यथा। गतं आत्मद्वारम् भा.[४११०] पुरिसं उवासगादी अहवावी जाणगा इयं परिसं।
पुव्वं तु गमेऊणं ताहे वातो पतोत्तव्वो।। वृ. पुरुषमुपासकादि कथमथवा ज्ञापिकादिकां विद्यां वा पर्षद् पूर्वं गमयित्वा पश्चात् वादः प्रयोक्तव्यो नान्यथा । गतं पुरुषद्वारमधुना क्षेत्रद्वारमाहभा.[४१११] खेत्तं मालवमादी अहवावी साहुभावियं जं तु।
नाऊण तहा विहिणा वातो य तहिं पतोत्तव्वो ।। वृ. क्षेत्रं मालवादिकं यद्वा साधुभावितं तत्तथारूपेण ज्ञात्वा विधिना जिनभणितेन वादः प्रयोक्तव्यो नान्यथा। गतं क्षेत्रद्वारं । वस्तुद्वारमाहभा. [४११२] वत्थु परवादी उ बहु आगमितो न वा च नाऊणं ।
रायावरायमच्चो दारुणभद्दस्स भावोत्ति ।। वृ.वस्तु परिवादी बह्वागमिको न वा यदि वा राजा राजामात्यो वा दारुणस्वभावो भद्रस्वभावो वा इति ज्ञात्वा वादः प्रयोक्तव्यः तदेवमुक्ता प्रयोगमतेः सम्पच्चतुःप्रकारा। सम्प्रति संग्रहपरिज्ञां चतुःप्रकारामाहभा. [४११३] बहुजनजोग्गं खेत्तं पेहे तह फलगपीढमादिन्नो।
वासासु एए दोनि वि काले य समाणए कालं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org