________________
४५२
व्यवहार-छेदसूत्रम्-२- १०/२५१ एवमपरिणामादौ च्छेदसूत्रं विनश्यति नश्यति वा ततो नोद्दिशति एपा विचिन्त्योद्देशनता, समुद्दिशेदपि तदेव योग्यं नान्यत् । एषा विचिन्त्य समुद्देशन्। भा.[४०९९] परिनिव्ववियावाए जत्तियमेत्तं तु तरइ उप्पेउं ।
जाहगदिटुंतेणं परिचिते ताव तामुद्दिसति ।। व.परिनिर्वाप्य वाचयति । किमुक्तं भवति? जाहकदृष्टान्तेन यावन्मात्रमवग्रहीतुं शक्नोति तावन्मात्रमग्रतेनपरिचिते उद्दिशति । एषा परिनिर्वाप्य वाचना, अर्थस्य निर्यापणामाहभा.[४१००] निज्जवग्गो अत्थस्स जो वियाणाइ अत्थ सुत्तस्स।
अत्थेण व निव्वहती अत्थंपि कहेइ जं भणियं ।। वृ.अर्थस्य निर्यापक इति यद्भणितं तस्यामर्थः । यो नाम सूत्रस्यार्थं कथ्यमानं विजानाति यदि वा अर्थेन निर्वहति अर्थावधारणाबलेन सूत्रपातो निर्वाहमुपयाति तस्यार्थमपि कथयति, आस्तां सूत्रं ददातीत्यपि शब्दार्थः । सम्प्रति मतिसम्पदं चतुर्भेदामाहभा. [४१०१] मइसंपयचउभेया उग्गह ईहा अवाय धारणा य ।
उग्गहमति छब्भेया तत्थ इमा होइ नायव्वा ।। वृ.मतिसम्पच्चतुर्भेदा। तद्यथा-अवग्रह इहा अवायः धारणा च। तत्रावग्रहमवग्रह: अनिर्देश्य सामान्यमात्रग्रहणमीहनमीहा अवग्रहीतस्यार्थस्यासद्भूतविशेष परित्यागेन सद्भविशेषादानाभिमुखो बोधविशेषः । अवायो निश्चयः । धारणा स्मृतिस्तत्रावग्रहमतिरियं वक्ष्यमाणे षड्भेदा भवति ज्ञातव्या। तामेवाहभा. [४१०२] खिप्प बहुविहं व धुवअनिस्सिय तह य होई असंदिद्धं ।
उगेण्हइ एविहा अवायमवि धारणा चेव ।। वृ.१ क्षिप्तं २ बहु ३ बहुविधं ४ ध्रुव ५ निश्रित ६ असन्दिग्धमवगृह्णाति। एवं अवग्रहस्य षट् भेदं एवं षट् भेदा ईहा अवायो धारणापि च प्रत्येके ज्ञातव्या । तत्र क्षिप्रमवग्रहं व्याख्यानयति । भा.[४१०३] सीसेण कुतित्थीप व उच्चरियमेतमेवाउगिण्हे।
तं खिप्पं बहुगं पुण पंच व छ स्सत्त गंथसया॥ वृ. शिष्येन कृतीर्थिना वा यत् उच्चरितमात्रमेवावगृह्णाति तत् क्षिप्रमवग्रहणमुच्यते । बहुकं पुनरवग्रहणमिदं यत् पञ्च षट् सप्त वा ग्रन्थशतान्येकवारमवगृह्णाति; भा.[४१०४] बहुहानेगपयारं जह लिहति वधारए गणेइ विया,
अक्खाणगं कहेइ सद्दसमूहं व नेगविहं ।। वृ. बहुविधमवग्रहणं नाम अनेकप्रकारं यथा स्वयं लिखति अन्येन भण्यमानमवधारयति। अन्यच्च संख्येयवस्तु गणयति । अथवा नानापुरुषाश्रितं नानातोद्याश्रितं वा शब्दसमूहमनेकविधं अनेकप्रकारं प्रत्येकमवगृह्णाति एतत् बुहविधमवग्रहण। भा.[४१०५] न विस्सरति धुवं ता अनिस्सियं जन्न पोत्थए लिहिया,
अनभासियं च गेण्हए निस्संकिय होइ संदिद्धं । वृ. यन्नैव विस्मरति तत् ध्रुवम् । अनिश्रितं नाम यन्न पुस्तके लिखितमपेक्षते अभाषित वा परैर्व्याजेन उदीरितं वा यदवगृह्णाति तदनिश्रितं, निःशङ्कितं भवत्यसन्दिग्धं । एवं ग्रहणस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org