________________
४५०
निवृत्त एतदेव व्याचष्टे - अचञ्चलो वृद्धशीलो ज्ञातव्यः उक्ता आचारसम्पच्चतुर्धाः । बहुसुय परिचियसुत्ते विचित्तसुत्ते य होइ बोधव्ये । घोसविसुद्धिकरे वा चउहा सुयसंपया होइ ।।
भा. [४०८४]
व्यवहार-छेदसूत्रम्-२- १० / २५१
-
1⁄2 श्रुतसम्पच्चतुर्धा चतुःप्रकारा भवति, तद्यथा - बहुश्रुतः परिचितसूत्र: विचित्रसूत्रो धोषविशुद्धिकरः । सम्पत्सद्वतो भेदेनाभिधानं श्रुतश्रुतववतोः कथंचिद्भदेदात् । एवमुत्तरत्र पूर्वं च परिभावनीयं । तत् बहुश्रुतमाह
भा. [ ४०८५ ]
बहुसुत्तजुगपहाणे अब्भितर बाहिरं सुयं बहुहा । होइ व सद्दग्गहणा चारित्तं वि सुबहुयंपि ॥
वृ. यस्य बहुधा बहुप्रकारमभ्यन्तमङ्गप्रविष्टं बाह्यमङ्गं बाह्य श्रुतं भवति विद्यते । घोषविशुद्धिकर इत्यत्र च शब्दग्रहणात् सुबहुककं चारित्रमपि यस्य स युगप्रधांनो बहुश्रुतः । सगनामं व परिचियं उक्कमउक्कमतो बहूहिं विगमेहिं । ससमयपरसमएहिं य उस्सग्गोववायतो चित्तं ॥
भा. [४०८६]
वृ. यथा श्रुतं उत्क्रमतः क्रमेण च तथा क्रमेण उत्क्रमेण वा एकैकपदमोचनेन इत्यादिभिरपि बहुनिर्गमैः स्वनामेव स्वाभिधानिव परिचितं सूत्रं सपरिचितसूत्रस्तथा यस्य स्वसमयपरसमयाभ्यां स्वसमयपरसमयवक्तव्यताभ्यामुत्सर्गापवादेन उत्सर्गानुविद्धमपवादानुविद्धं विचित्रं सूत्रं सविचित्रसूत्रः। घोषविशुद्धमाह
भा. [४०८७]
घोसा उदत्तमादी तिहिं विसुद्धं तु घोसपरिसुद्धं । एसा सुत्तोवसंपय सरीरउवसंपयं अतो वुच्छं ॥
वृ. घोषा उदात्तादयस्तैर्विशुद्धं घोपविशुद्धं तत्करणशीलो घोषविशुद्धिकरः एषा चतुर्धा श्रुतोपसम्पत् । अत ऊर्ध्वं शरीरोपसम्पदं वक्ष्ये । तामेवाह
भा. [४०८८]
परीणाहो तह अनुत्तप्पया सरीरंमि ।
पsिपुण्ण इंदियएहिं य थिरसंघयणो य बोधव्वो ॥
वृ. शरीरस्य आरोहः समपरिणाहः तथा अनुतप्यता अलज्जनीयता तथा परिपूर्णमिन्द्रयैः स्थिरसंहननश्चतुर्थो बोद्धव्यः । तत्रारोहपरिणाहमाह ॥
भा. [४०८९]
आरोहो दिग्घत्तं विक्खंभो वि जइ तेत्तितो चेव ।
आरोह परिणाहे उवसंपया एस नायव्वा ॥
वृ. आरोहो दीर्घत्वं परिणामो विष्कंभो विशालता । तत्र यावनारोहस्तवान् यदि विष्कंभो भवति तदा एषा उपसम्पत् आरोहपरिणाहे ज्ञातव्या । अनुतप्यतामाह
भा. [४०९०]
तवु लज्जाए धाऊ अलज्जणीयो अहीन सव्वंगो ।
होइ अनुतप्पे सो अविगलइंदियपडिपुण्णे ॥
वृ. त्रपुधातुर्लज्जायां वर्तते पौपि लज्जायामिति वचनात् । तत उत्प्राबल्येन त्रप्यते येन
Jain Education International
. तत् उत्त्रप्यं । न उत्त्रप्यमनउत्त्रप्यमलज्जनीयं तथा च शरीरशरीरमतोरभेदमधिकृत्याह- अलज्जनीयः किमुक्तं भवति अहीनसर्वाङ्ग एष भवत्यनुत्त्रप्यः । तथा अविकलानि स्पष्टं सम्पूर्णानि इन्द्रियाणि यस्य सोऽविकलेन्द्रियः । परिपूर्णः परिपूर्णेन्द्रिय उच्यते । स्थिरसंहननमाह
For Private & Personal Use Only
www.jainelibrary.org