SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ उद्देशक:-८, मूल - १९७, [भा. ३५१८] ३४९ - रखिज्जतेतहियं, अणनुन्नाएनठायंति ।। वृ-आस्तां दत्तविचारे अनुज्ञापनमंतरेण न तिष्ठतु, प्रागुक्तदोषसंभवात् किंतु अदत्तविचारेष्वपि, गाथायामेकवचनमपि शब्दलोपश्चार्षत्वात् न दत्तो विचारप्रदेशो यत्रतान्यदत्तविचाराणि तेष्वपि केष्वित्याहकोष्ठागारादिषुकोष्ठागारं धान्यस्य तृणादीनांवाआदिशब्दात् चतुःशालादीनि तथा देवकुलं गोष्टिकादीनांवागृहाणियत्रगोष्टिकादयः समवायंकुर्वन्तितानिदत्तविचाराणिगृह्यन्तेतेषुकोष्टागारादिषु यत्र येषु तृणफलकानि रक्ष्यन्ते तथाहि-प्रतितमेतत्कोष्टागारादिषु मा कोऽपि किमपि हार्षीरिति प्राहरिकमोचनेन तृणानि फलकानि च प्रयत्नेन रक्ष्यन्ते । तत्र तेष्वननुज्ञातेषु साधवो न तिष्ठन्ति किमर्थमितिचेदत आह[भा.३५१९] दोसाणक्खणठा चोएइ निरस्थयंततोसुत्तं । भन्नइकारणियंखलु, इमेय ते कारणाहुति ।। वृ-दोषाणां प्रायश्चित्तप्रसङ्गतो भङ्गादिरुपाणां रक्षणार्थंरक्षणाय तत्र न तिष्ठिन्ति अत्र परश्चोदयति, यद्येवंततःसूत्रंइह खलु निगंथाणवा निगंथीणवा नोखलुभेपाडिहारिए इत्यादि निरर्थकमविषत्वात् सूत्रे हि अनुज्ञापनमन्तरेणापि पूर्वमनुज्ञातमिति सूरिराह-भण्यते उत्तरं दीयते इदं खलु सूत्रं कारणिकं कारणैर्निवृत्तं तानिच कारणानिइमानि वक्ष्यमाणानि भवन्ति तान्येवाह[भा.३५२०] अद्धाणे अठाहिय उमसिवे गामनुगामियविवेले । तेनासावयमसगासीयं वासंदुरहियासं ।। वृ-अध्वनिमार्गेगताःसाधवस्तत्रान्यत्रयाचिता वसतिः परंनलब्धा अथवाअष्टाहिकांद्रष्टुमागता, यदिवाअवमौदर्यमशिवंवाभविष्यतीत्यन्यदेशंप्रस्थिता विकाले प्राप्ता अथवा ग्रामानुग्रामं विहरन्ति । व्यतिकुष्टमन्तरमपान्तराले इति कृत्वा सार्थवशेनवाविकेल विकाले प्राप्ताः । अन्या च वसतिर्न रोचते वसतिमन्तरेण च स्तेनभयं वा स्वापदभयं वा मशका वा दुरध्यासाः सीतं वा दुरध्यासं पतति यथा उत्तरापथे वर्ष वा घनं निपतन् तिष्ठति तत एतैः कारणैरदृष्टेऽप्यधिकृतवसति स्वामिनि मा अन्यपथिकाः कार्पटिका वा तिठंति, तथैव कायिक्यादिभूमीः प्रत्युपेक्ष्य पूर्वमवग्रहं गृहीत्वा पश्चाद्वसतिस्वामिनमनुज्ञापयन्ति । एतदेव सविशेषमाह[भा.३५२१] . एएहिं कारणेहिं पुव्वं पेहेतुदिट्टणुन्नाए । ताहेअयंत दिढेइमाउजयणा तहिं होइ ।। वृ- एतैरनन्तरोदितैः कारणैः पूर्वमुच्चारादिभूमीः प्रत्युपेक्ष्य दृष्टः परिजनोऽनुज्ञाप्यते । ततस्तस्यां वसतावायान्तिसाधवः । तत्रदष्टे परिजने इयं वक्ष्यमाणा यतनाभवति । तामेवाह[भा.३५२२] पेहेत्तुच्चारभूमादी ठायंति वोत्तुपरिजणं । अत्थाउजाव सोएइजातीहामोतमागयं ।। . वृ-प्रेक्ष्य प्रत्युपेक्ष्यउच्चारभूम्यादिपरिजनमुक्त्वासाधवस्तत्र तिष्ठन्तिकथमुक्त्वेत्यतआह-आस्महे तावत् यावत् स गृहस्वामी समागच्छति ततः तमागतं याचिष्यामहे सच आगतो येनविधिना समनुज्ञापयितव्यस्तंविधिमाह[भा.३५२३] वयंवन्नंच नाऊणवयंते वग्गुवादिणो । सभंडावेयरसेज्जं अप्पंदंतीति निरंतरं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy