________________
३४६
व्यवहार-छेदसूत्रम्-२- ८/१९५ विरस्यानतन्तरसूत्रेण भणिता । इयमपि सूत्रेणाभिधीयमाना द्वितीयावग्रहानुज्ञापना ततोर्द्वितीयावग्रहानुज्ञापना प्रस्तावादिदं सूत्रं पूर्वसूत्रादन्तरमुक्तं नवरं प्रथममनन्तरसूत्रं निजकस्यात्मीयस्योपकरणस्यावग्रहेऽनुज्ञापना विषयं द्वितीयमधिकृतं तु परस्पर परकीयस्य शय्यातरसत्कस्यान्यसत्कस्य वा इत्यर्थः । अवग्रहऽनुज्ञापनायामेवमनेन सम्बन्धेनायातस्यास्य व्याख्या नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा प्रातिहारिकं शय्यासंस्तारकं शय्यातरसत्कमन्यसत्कं वा द्वितीयमप्यवग्रहमननुज्ञाप्यबहिनिहर्तु, नवरमनुज्ञाप्यपुनः कल्पते इति सूत्रसंक्षेपार्थः । सम्प्रतिनियुक्तिविस्तरः - [भा.३५०६] परिसाडीमपरिसाडी पुव्वंभणिया इमंतुनाणत्तं ।
पडिहारियसागारियतंचेवं तेबहिनेति ।। वृ- परिशाटिः यादृशः संस्तारको भवति यादृश्चा परिशाटिरेतौ द्वावपि पूर्वस्मिन्नेवाष्टमोद्देशके भणिताविदं त्वत्र नानात्वं तदेवाह-प्रातिहारिकं सागारिकसत्कं तमे व शय्यातरसंस्तारकमन्तः स्थितं बहिर्नयति । एतदेव सविस्तरंभावयति[भा.३५०७] परिसाडी परिसेहोपुनद्धारो य वणितो पुव्वं ।
अपरिसाडिगहणंवासासुयवणियं नियमा ।। वृ-पूर्वं परिशाटेः शय्यासंस्तारकस्य प्रतिषेधः कृतो यथान कल्पते परिशाटि: शय्यासंस्तारक इति ततः पुनरुद्धारोऽपवादः पूर्वमेव वर्णितो यथा ऋतुबद्धे काले निष्कारणं संस्तारका न कल्पन्ते तथा पूर्वमेवैतदपिवर्णितंयथा वर्षासुकाले नियमादपरिशादिः शय्यांस्तारकस्य ग्रहणंकर्तव्यमिति ।। . [भा.३५०८] पुनंमि अंतो मासे वासावासेविमं भवइसुत्तं ।
तत्थेवगवावेसे असतीतंचेय नुन्नवए ।। वृ-अन्तर्ग्रामस्य नगरस्य वामध्ये पूर्णेमासे वाबहिरवस्थातुकामानाभिदमधिकृतंसूत्रभवति यथा नकल्पन्तेऽभ्यन्तराणितृणफलकादीनि यैर्दत्तानितानिअनापृच्छयबहिर्नेतुमितितत्रप्रथमतस्तत्रैबहिः प्रदेशेऽन्यंतृणफलकादिमयंशय्यासंस्तारकंगवेषयेत् । असतिबहिः संस्तारकस्यालभ्यमानात्वनाभावे तमेवसागारिकंसत्कन्यसक्तं वाशय्यासंस्तारकनुज्ञापयेत् । यथा बहिर्याचित्तः शय्या संस्तारकः परंन लब्धस्ततो यूयमनुजानीतात्मीयं संस्तारकं येन बहिर्नयाम इति । यदि नानुज्ञापयति तदा तृणमयं संस्तारकविषये प्रायश्चित्तं मासलघु फलकमयसंस्तारकविषये चतुर्लधु । अत्रैवापवादमधिकृत्य विकल्पमाह[भा.३५०९] अहवा अवस्सघेत्तव्वयंमिदव्यंमि किंभवे पढमं । .
नयनं समणुन्ना वावि वजउवाजुहत्तातो ।। वृ-अथवेत्यपवादमधिकृत्य प्रकारान्तरोपदर्शने यदि नियमात्तत्संस्तारकद्रव्येबहिर्नेतव्यं न शक्यते तद्विना मोक्षसाधनं कर्तुमिति तर्हि प्रथमतः किं कर्तव्यं नयनं समनुज्ञा वा? आचार्य आह-अवश्यं नयनलक्षणेऽपवादे प्राप्ते पूर्वं नयनं कर्तव्यं पश्चादनुज्ञापना । यदि वा पूर्वमनुज्ञा कर्तव्या पश्चान्नयनं विपर्ययो वा यथोक्ता किमुक्तं भवति नापि पूर्वमनुज्ञापयेत् नापि नीत्वा पश्चादनुज्ञापयेत् । ततः पूर्वमनुज्ञापनपश्चान्नयनमित्येकान्तशुद्धोभङ्गः एषचभङ्गस्तदाद्रष्टव्यो यदायेदोषामासकल्पेवर्णितास्ते अन्तः सन्ति बहिर्न विद्यन्ते बहिश्चतृणफलकादीन्यनुज्ञाप्यमानानि न लभ्यन्ते तदा अभ्यन्तराणि येषां सत्कानिताननुज्ञाप्यनीयन्ते । अथान्तरं शिवादीनि कारणानि निर्गमनमुहूर्तश्चाति प्रत्यासन्नो न च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org