________________
२४८
व्यवहार- छेदसूत्रम् - २- ७ / १६६
वृ- पूर्वोक्तं सर्वं यद्यभ्युपगतवती भवति तदा तस्या अभ्युपगताया अभ्युपगमवत्यालोचः कर्तव्यो यदा तु निवसनविधेरुपदेष्टुमुपक्रान्तो भवति तदा कल्पस्थकस्य बालस्य संयती नेपथ्यपरिधापनेन निवसनस्य दर्शनं कर्तव्यम् । तथा भिक्षाग्रहणं भिक्षाटनसामाचारीं कथयति वदति च । यावदाचार्यसमीपं न व्रजामि तावदहं ते तव तिस्रो दिशः अहमेव तवाचार्योऽहमेवोपाध्यायोऽहमेव च प्रवर्तिनीति, । आचार्यपादमूलं गतानां त्वाचार्यः प्रमाणं नयनविधिमाह
[भा. २९४६ ]
माऊ एक्कियासंबंधी इत्थी पुरिससत्थेय । एवमेव संयतीण विलिंग करणमोत्तुबितियपदं । ।
वृ- एकस्या मातुरुपलक्षणमेतत् भगिन्या वा नयनं नालबद्धस्त्रीसम्बन्धिना स्त्रीसार्थेन समं तदभावे नालसम्बन्धिना पुरुषसार्थेन तस्याप्यभावेऽन्येन भद्रकेन सार्थेन सहगाथायां सप्तमी तृतीयार्थे ।
मू. (१६७) नो कप्पइ निग्गंधीणं निग्गंध अप्पणो अठाए पव्वत्तावित्तए वा जाव धारेत्तए वा । मू. (१६८) कप्पइ निग्गंथीणं निग्गंध अन्नेसिं अट्ठाए पव्वावेत्तए वा जाव धारेतए वा ।
वृ- सूत्रद्वयस्य अक्षर गमनिका प्राग्वत्- अत्र भाष्यकारः प्राह - ऐवेत्यादिगाथापश्चार्धं । एवमेव अनेनैव प्रकारेण संयतीनामपि संयतं प्रव्राजयन्तीनां निरवशेषं वक्तव्यम् । नवरं लिङ्गकरणे द्वितीयपदं मुक्त्वा लिंगकरणे द्वितीयपदमधिकं वा सेवनीयमिति भावः । एतदेव दर्शयतिउठत निवेसंते सति करणादीय लज्जनासेय ।
[भा. २९४७ ]
-
तम्हा उ सकडिपट्टं गार्हति तयं दुविह सिक्खं ।।
वृ- अग्र पूरकमात्रकरणे उत्तिष्ठतिथ निवसति सकृत्करणादौ च यस्माल्लज्जानाशो भवति तस्मात्तकं संयतं द्विविधामपि शिक्षां ग्राहयति । सकट्टीपट्टकं सन्तं कटीपट्टकपरिधानापेतं सन्तं । आयरियउवज्झातो तइयाय पवत्तिनीउ समणीणं ।
[भा. २९४८ ]
अनेसिं अट्ठाएत्ति होइ एएसिं तिण्हंपि ।।
वृ- श्रमणीनामाचार्यउपाध्यायस्तृतीया च प्रवर्तिनी भवति, श्रमणानां त्वाचार्योपाध्यायौ ततोऽन्येषामर्थायेति । यदुक्तं सूत्रद्वयेऽपि तस्यायमर्थो भवति, यथायोगमेतेषां त्रयाणां अर्थाय संयतो त्रयाणामर्थाय संयतस्तु द्वयोरर्थायेत्यर्थः । एतेन अन्नेसिं अठाए इति सूत्रद्वयमपि व्याख्यातम् ।
मू. (१६९) नो कप्पइ निग्गंधीणं वितिगिठियं दिसं वा अनुदिसं वा उद्दिसित्तए वा धारेत्तएवा । मू. (१७०) कप्पइ निग्गंथाणं विइकिट्ठियं दिसं वा अनुदिसं वा उद्दिसित्तए वा धारेत्तए वा ।। [ भा. २९४९] पव्वावियस्स नियमा देति दिसिं दुविहमेव तिविहा वा ।
सो पुन कस्सविगिठा उद्दिसतिसन्निगिट्टावा ।।
वृ- अनन्तरसूत्रेषु प्रव्राजन्नमुक्तं प्रव्राजितस्य तु नियमात् दिशं द्विविधां त्रिविधां वा प्रयच्छंति, । संयतस्य द्विविधामाचार्योपाध्यायलक्षणां संयत्यास्त्रिविधामाचार्योपाध्यायप्रवर्तिनीरूपामित्यर्थः । सा पुनर्दिक्कस्य विप्रकृष्टा उद्दिश्यते, कस्य सन्निकृष्टेति प्रतिपादनार्थमधिकृतं सूत्रद्वयमित्येष सम्बन्धः ।
[ भा. २९५०] अहवा विसरिसपक्खस्स अभावादिक्खणावि पक्खेवि । तत्थविकस्सविगिठाद्दिसति कस्स वा नेति ।।
वृ- पुरुषाः संयतानां सदृशपक्षः, संयतीनां पुरुषा विपक्षः । अथवापीति सम्बन्धस्य प्रकारान्तरोपदर्शने सदृशपक्षस्याभावात् दीक्षणं विपक्षेऽपि कर्तव्यमित्यनन्तरसूत्रेष्वभिहितम्, तत्रापि कस्य
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org