SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उद्देशक : - ७, मूल - १६६, [भा. २९३९] वत्थानिण्हाणधूवा विलेवणा ओसहाई च ।। वृ- तथा ते भवतीनां गृहस्थावस्थायां व्याधेः प्रतीकारा बहुविधा आसीरन् । विषयसुखानि च बहुविधानि, । तथाहिगृहस्थावस्थायां मनोज्ञानि वस्त्राणि, शरीरमनः प्रल्हत्तिकरं स्नानं प्राणमनोनिवृत्तिकरा धूपाः शरीरशुभगानि विलेपनानि । एतेन विषयसुस्वानि भावितानि । तथा औषधानि च गृहस्थावस्थायां नानाप्रकाराणिसंगृहीतानि, इदानीं पुनर्न विषयसुखानि नापि प्रतीकारा बहुविधास्ततः परमदुष्करं व्रतमेतदिनि, क्षेत्रतः प्रतिपृच्छामाह २४७ [ भा. २९४० ] अद्धाण दुक्खसेज्जा सरेणुतमसाय वसहितो खेत्तो । परपाएहिं गयाणं पुच्छाणय उउसुहघरेसु ।। वृ- युष्माकं सदैव पर पादैर्गतानां सदैव ऋतुसुखेषु ग्रहेषूषितानां प्रव्रज्या प्रतिपत्त्यनन्तरमध्वनि स्वपादाभ्यां गमने महत् दुःखंभविष्यति । शय्यावसतिः सरेणुका तथा दीपो रात्रौ न प्रज्वाल्यते, वसतयो वसनानि तमसा कष्टानि भविष्यन्ति । एषा क्षेत्रे प्रतिपृच्छा । कालत आहआहाराउवजोगो जो जम्मि होइ कालंमि । [भा. २९४१ ] सोन्नहा न यनिसिं अकालो जोग्गो य हीनो य ।। वृ-यो यस्मिन्काले योग्य आहाराद्युपयोगः स गृहस्थावस्थायां समपद्यत, व्रतप्रतिपत्यनन्तरं तु आहाराद्युपयोगोऽन्यथा भवति, तथा न रात्रावाहाराद्युपयोगो नवा कालेऽपि च कदाचिदयोग्यो भवति । सोऽपि च न परिपूर्णः किन्तु हीन इति, गता कालप्रतिपृच्छा । भावपृच्छामाह [भा. २९४२ ] सव्वस्स पुच्छणिज्जा नय पडिकूलेन सइरमुदतासि । त्य खुड्डीविपुच्छणिज्जा चोयण फरुसा गिराभावे ।। वृ- गृहस्थावस्थायां त्वं सर्वस्य पृच्छनीया वर्तसे, तत्रापि न प्रतिकूलेन, तथा स्वैरं स्वेच्छया मुदिता प्रमोदवती गृहस्थावस्थायामसि भवसि । व्रतप्रतिपत्त्यनन्तरं तु क्षुल्लिकापि त्वया प्रच्छनीया, तथा तथा चोदना शिक्षणं परुषया गिरा भविष्यति एतच्च परम दुस्सहमित्येषा भावे भावविषया प्रतिपृच्छा । [ भा. २९४३ ] जा जेन वयेण जहा वलालिता तं तदन्नहा भणति । सोयादि कसायाण य जोगाण य निग्गहो समिति ।। वृ- या यस्मिन् वयसि गाथायां तृतीया सप्तम्यर्थे प्राकृतत्वात् । यथा येन प्रकारेण लालिता वा शद्बो भावविषया प्रतिपृच्छा प्रकारान्तरोपदर्शने तां तदन्यथा इदं वक्ति । श्रोत्रादीनामिन्द्रियाणां कषायाणां योगानां च कायप्रभृतीनां निग्रहः कर्तव्यः समितयश्च ईर्यासमित्यादयः पञ्च परिपालनीयाः तदेवं तस्या द्रव्यादिभिस्तुलनोक्ता | सम्प्रति कायानां च दर्शनमाह [भा. २९४४ ] आलिहणं सिंचतावणवीयणं दंत धुवणादिकज्जेसु । कायाण अनुवभोगो फासुयभोगो परिमितो य ।। बू- पृथिव्याः काष्टादिना आलिखनमुदकेन सिञ्चनमग्निनातापनं वायोर्व्यञ्जनं दन्तधवनं दन्तप्रक्षालनमित्यादि कार्येषु कायानामनुपभोगः यदि पुनः कायैः प्रयोजनमुपजायते । तदा प्रासुकेन परिभोगः कर्तव्यः । सोऽपि च परिमित इति । सम्प्रति दीक्षादिद्वार प्रतिपादनार्थमाहअब्भुवगयाए लोउ कप्पठगलिंगकरणदावणया । भिक्खगहणकहेति वेति वहते दिसा तिन्नि ।। [भा. २९४५ ] For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003326
Book TitleAgam Suttani Satikam Part 22 Vyavahara
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy