________________
२३४
व्यवहार-छेदसूत्रम् -२-७/१६३ यथाएतेन नामशय्यातरपिण्डः प्रतिसेवितो हा कष्टमेवंतप्यन्तमितरो ज्ञात्वानुतप्यते । एषमम दोषेण तप्यतितस्मात्प्रत्याययामियथा असदेतत्यदहंशय्यातरंपिण्डंसेवितवान् ।अथसतुतदासौचिन्तयति मा ममदोषेणैष तप्यतु तस्मान्मिथ्या दुष्कृतंकरोमि । एवं संविग्ने तप्यति यदनुतपनं तत्प्रति तपनमिति तदेवं भाष्यकृता विषमानि सूत्राक्षराणि विवृतानि । सम्प्रतिनिर्युक्त्यऽवसर :[भा.२८७६] सागारिए गिहा निग्गएय वडघरिय जंबुघरएय ।
घम्मिय गुलवाणियएहरित्तो लित्तेय दीवे य॥ वृ-सागारिके शय्यातरे शय्यातरगृहान्निर्गते वरगृहिकेजम्बूगृहिकेच असदभ्याख्यानेन विसंभोगः कृतः । इयमक्षरघटना ।भावार्थस्त्वयं-एकस्मिन्ननगरे आचार्यस्यवटगृहिकः शय्यातरः तस्मिन्नेव नगरे अन्य जम्बूगृहिको गृहस्थोऽस्ति । ताभ्यां वटगृहिकजम्बूगृहिकाभ्यां आत्मीयं गृहं कारितं । तयोश्च निर्मापितयोर्द्वयोरपि गृहयोः कपोताः प्रविष्टास्ततोऽमङ्गलमिति मन्यमानौ तौ नैमित्तिकं पृच्छतः । कथमेतस्य दुर्निमित्तस्य व्याघातो भवेत् । नैमित्तिको वदति वटगृहिको जम्बूगृहिक गृहमधितिष्ठतु जम्बूगृहिकोवटगृहिकगृहं,ततः कतिपयानि दिनानिस्थित्वा पञ्चान्निजनिजगृहेगच्छेयातां । तौ परस्परगृहे संचरिती तावदिदमथान्यदा अन्यस्मात् गच्छात् प्रघूर्णकाः समागताः । ततो वास्तव्यै जम्बूगृहिकस्य वटगृहिकगृहं प्रविष्टस्य गृहात्प्रथमालिकामानीय तेषां प्राघूर्णकानां दत्वा (त्ता) तैः शय्यातरपिण्डं मन्यमानैरुपरोधवशादप्रीत्यानुक्तास्ततस्ते प्राघूर्णका निर्गत्य आत्मीयस्याचार्यस्य समीपं गत्वा लोचयन्ति । तेऽस्माकं सांभोगिकाः शय्यातरपिण्डं भुजंते अस्माभिः कथमप्युपरोधशादप्रीत्या प्रथमालिकाभुक्ता एवं श्रुत्वा आचार्योऽपि विचिन्त्य यदि विसंभोगंतंकरोति । [भा.२८७७] नवघरकवोयपविसणदोण्हं नेमित्तिजुगवपुच्छाय ।
अनोनस्स घराइंपविसह नेमित्तितो भणइ ।। [भा.२८७८] आदेसागमपढमा भोत्तुंलज्जाएगंतुगुरुकहणं ।
सोजइकरेजवीसुंसंभोगं एत्थ सुत्तंतु ।। वृ- नवयोहयोः कपोतानां प्रविशनं । ततो द्वयोरपि गृहस्वामिनो युगपन्नैमित्तिको भणतिअन्योन्यस्यगृहप्रविशतस्तौ चप्रविष्टावन्यदाआदेशानांप्राघूर्णकानामागमस्ततोवास्तव्यैर्जम्बूगृहिकस्य वटगृहिकगृहं प्रविष्टस्यगृहात्प्रथमालिका आनीतातालजयाभुक्त्वा ततोनिर्गत्य गुरुसमीपंगत्वा गुरोः कथनंसयद्यविचार्य विष्वक्संभोगतंकरोति । तदा अत्रसूत्रमापतितंद्रष्टव्यम् । अत्रविचारदितावित्वरं गृहपरिवत्र्तं कृतवन्तौ तदा स जम्बूगृहिकोऽशय्यातर एव अथ यावत्कथिकस्तदा जम्बूगृहिक एव शय्यातरः ।।धम्मियत्ति अस्य व्याख्यानम्[भा.२८७९] धम्मितो देउलं तस्स पालेइजइभद्दओ।
सो विसंवड्ढियंतत्थ लद्धं देजा जईणउ ।। वृ-तस्य शय्यातरस्य किञ्चित् देवकुलंतत्धार्मिकः पालयति । स च यतीनां भद्रकस्ततः संवर्धितमग्रकूरतस्मिन्शय्यातरगृहेलब्ध्वासाधूनामानीय ददाति । अत्रापितथैव प्राघूर्णकागमनंधार्मिकात्प्रथमालिकानयनमित्यादिसर्वंतथैव वाच्यं गुलवणिक इत्यस्य व्याख्यानम्[भा.२८८०] वाणियतोयगुलं तत्थ विक्किणंतो उतंदये ।
तत्थसो वारिएहुजा अडंकच्छपुडेणवा ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org