________________
उद्देशक :- ६, मूल - १४९, [भा. २६९४]
१९९
वृ- अर्धमासस्य पक्षात्मकस्य मध्यमष्टमी सा खलु पर्व, । मासस्य मध्यं पाक्षिकं पक्षेण निर्वृत्तं ज्ञातव्यं । तच्च कृष्णचतुर्दशीरुपमवसातव्यं । तत्र प्रायो विद्यासाधनोपचारभावता बहुलादिकामासा इति वचनाच्च न केवलमेतदेव पर्व किन्त्वन्यदपि पर्व भवति । यत्रोपरागो ग्रहणं चन्द्रसूर्ययोः एतेषु च पर्वसु विद्यासाधनप्रवृत्तेर्यद्येवं तत एकरात्रग्रहणं । तत आह
[भा. २६९५]
चाउसी गहो होइ कोइ अहवावि सोलसिग्गहणं ।
वत्तं तु अनज्जते होइ दुरायं तिरायं वा ।।
वृ- कोपिविद्याया ग्रहश्चतुर्दश्यां भवति, अथवा षोडश्यां शुक्लपक्षप्रतिपदि विद्याया ग्रहणं । किमुक्तं भवतिकोऽपि विद्याया ग्रहश्चतुर्दश्यां कृतः कोऽपि प्रतिपदि क्रियते इत्येवं त्रिरात्रवसनमथवैकेन दिवसेन व्यक्तमज्ञायमाने विद्याग्रहणाय भवति द्विरात्रं त्रिरात्रं वा विष्वग् वसनमिति यदुक्तं सूत्रे-तिरायं वेति । [ भा. २६९६ ] वा सद्देण चिरं पी महपानादिसु सो उ अच्छेज्जा ।
उयविए भरहम्मी जह राया चक्रवट्टादी ।।
वृ- वाशब्देनेदं सूचयते चिरमपि कालं महाप्राणादिषु ध्यानेषु स तिष्ठेत्, स हि यावन्नाद्यापि विशिष्टलाभो भवति, तावन्न निवर्त्तते ध्यानादत्रैव दृष्टातमाह-यथा राजा चक्रवत्यादिरादिशब्दाद्वासुदेवपरिग्रहः उयविए प्रसाधिते अर्धभरते वा निवर्तते, यावदवध्यादिलाभो न भवतीति, । अथ महाप्राणध्याने कः कियन्तं कालमुत्कर्षतस्तिष्ठतीति प्रतिपादनार्थमाहबारसवासा भरहाहिवरस, छच्चेव वासुदेवाणं । तिन्निय मंडलियस्स छम्मासा पागयजनस्स ।।
[भा. २६९७ ]
वृ- महाप्राणध्यानमुत्कर्षतो भरताधिपस्य चक्रवर्तिनो द्वादशवर्षाणि यावद्भवति, षट् वर्षाणि यावद्वासुदेवानां बलदेवानामित्यर्थः । त्रीणि वर्षाणि माण्डलिकस्य षण्मासान् यावत् प्राकृतजनस्य ।। [भा. २६९८ ] जे जत्थ अहिगया खलु अस्सादद्धक्खमाइया रन्ना । तेसि भरणंसि ऊने भुंजति भोए अदंडादी ।।
बृ- ये अस्सादद्धक्खमाइया महाश्वपत्यादयो यत्राश्चभरादौ राज्ञा अधिकृता व्यापारिताः स तेषामश्चादीनां भरणे ऊने सतिभोगान् अदंडाक्षतिदण्डादिरहितान् भुङ्क्तेन तस्य तथा भोगान् भुञ्जानस्य दण्डोऽपराधो वाऽद्याप्यश्चादिभरणाभावात् एष दृष्टान्त उक्तः । सम्प्रति दान्तिकयोजनामाह[भा. २६९९ ] इयपुव्वगयाधीते बाहु सनामेव तं मिणेपिच्छ । पिय इत्ति व अत्थपए मिणइत्ति व दोवि अविरुद्धा ।।
वृ- इत्येवममुना दृष्टान्तप्रकारेण पूर्वगते अधीते बाहु स नामे भद्रबाहुरिव पूर्वगतं पश्चान्महापानध्यानबलेन मिनोति निः शेषमात्मेच्छया तावन्ननिवर्तते ततश्चिरकालमपि वसति, तस्य न कोऽप्यपराधः प्रायश्चित्तदण्डो वा सम्प्रति महापानशद्बस्य व्युत्पत्तिमाह- पिवतीति वा मिनोतीति वेत द्वावपि शब्दावेतावविरुद्धौ तत्वत एकार्थावित्यर्थः । तत एवं व्युत्पत्तिः- पिबति अर्थपदानि यत्रस्थितस्तत्पानं, महच्च तत्पानं च महापानमिति ।।
[भा. २७०० ]
वा अंतो गणी व गणो विक्खेवो मा हु होज अग्रहणं वसते हि परिखित्तो उ अत्थेन कारणे तेहिं ।।
वृ- अन्तर्गणी गणो वा वाशब्दादेवं बहिरपि । इयमत्र भावना-यद्याचार्यो वसतेरन्तस्ततो गणो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org