________________
१६०
[भा. २४८३ ]
व्यवहार - छेदसूत्रम् - २६ / १४८
सिरकोट्टण कलुषाणि य कुणमाणाइं तु पायवडियाई ।
अएण न गणियाइं जो जंपंति निप्पिवासोत्ति ।।
वृ-मातापित्रादीनि शिरः कुटनकरुणरोदनभाषणानि कुर्वाणांनि पादपतितानि वामुकेन न गणितानि । एवं साध्वसे कथ्यमाने यो जल्पति अतीव खलु निप्पिपासो घोरहृदयो न वर्तते तेन सह वक्तुमपीति । . [भा. २४८४ ] सोभावतो पडिबद्धो अप्पडिबद्धो वएज्ज जा एवं ।
सोइहिति कित्तिया तू नीया जे आसि संसारे ।।
वृ- स भावतः स्वज्ञातेषु प्रतिबद्धो ज्ञातव्यो न शक्तः स सोहमुपसर्गानिति, यस्तु तथा साध्वसे कथ्यमाने एवं ब्रूते संसारे सर्वजीवाः सर्वेषां पुत्रत्वादिकमुपगतास्ते आसीरन् संसारेऽनन्ते निजास्तान् कियतः स शोचयिष्यति । किं वा मातापित्रादिभिः शोचितैर्ये संसारहेतावसंयमे पातयन्ति स ज्ञातव्यो भावतः स्वजनेष्वप्रतिबद्धः समर्थः सोढुमुपसर्गानिति ।।
[भा. २४८५ ]
मुहरागमादिएहि य तेसि नाऊण रागवेरगं । नाऊण थिरं ताहे ससहायं पेसवेंति ततो ।।
वृ- तस्य ज्ञातविधिजिगमिथोः शोभनो मुखरागः स ज्ञायते स्वजनेषु भावतः प्रतिबद्धउपसर्गान्न सहिष्णुश्च यस्य तुन तथाविधो मुखरागः केवलंविरागः स्पष्टो लक्ष्यतेस ज्ञेयोभावतः स्वज्ञातिष्वप्रतिबद्धः सहिष्णुश्चोपसर्गान् । एवं मुखरागादिभिस्तेषां ज्ञातविधिं गन्तुमिच्छतां रागं वैराग्यं च ज्ञात्वा तथा स्थिरमुपलक्षणमेतदस्थिरं च ज्ञात्वा ततः स्थिरं मावतः स्वजनेष्वप्रबिद्धं ससहायं सूरयः प्रेषयन्ति साम्प्रतमल्पश्रुताल्पागमपदव्याख्यानार्थमाह
[भा. २४८६ ]
अबहुस्सुतो अगीतो बाहिरसत्थेहिं विरिहितो इयरो । तव्विवरीए गच्छे तारिसगसहायसहितो वा ।।
-
वृ- अल्पश्रुतो नामाबहुश्रुतः स चागीतार्थ उच्यते । इतरो अल्पागमो यो बाह्यो बाह्यशास्त्रैस्त्रैर्विरहितः । एतादृशो न गच्छेत् । स्वजनविधौ किन्तु तद्विपरीतो बहुश्रुतो बह्वागमश्च यदि वा स्वयमल्पश्रुतोऽल्पागमो वा तादशहायसहितो बहुश्रुतबह्वागमसहायसहितो गच्छेत् । धम्मकही वादीहिय तवस्सि गीएहिं संपवुिडो उ ।
[भा. २४८७ ]
निमित्तएहिय तहा, गच्छइ सो अप्पच्छट्टो उ ।।
वृ- धर्मकथाभिर्द्वित्रिप्रभृतिभिर्वा दकुशलैस्तपस्विभिः षष्ठाष्टमादितपः कारिभिर्गीतार्थेः सूत्रार्थतदुभयनिष्णातैर्नैमित्तिकैश्च संपरिवृतो गच्छेत् । अथ धर्मकथ्यादयो वहवो न सन्नित ततो जघन्यतोऽप्येकैकधर्मकथ्यादिसहाय आत्मषष्ठो व्रजेतत्र प्रवेशविधिमाह
[भा. २४८८ ]
पत्ताणवेलपविसण अह पुन पत्ता पगे हविज्जाहि । तंबाहिं ठावेउ वनसहिं मग्गति अन्नत्थ ।। पडिवत्तिकुसलेहिं सहितो ताहे उ वच्चए तहियं ।
[भा. २४८९ ]
वासपडिग्गहगमनं नातिसिनेहासणग्गहणं ।।
वृ- यदि वेलायां भिक्षावेलायां स्थानं प्राप्तास्तर्हि समकालमेव सर्वेषां प्रवेशनगथ पुनः प्रगे प्रभात एव प्राप्ता भवेयुस्तदा तं स्वजनवन्तं बहिः स्थापयित्वा वसतिमन्यत्र गृह्णन्ति । अन्यत्र वसतौ गृहीतायां प्रतिपत्तिकुशलैः सहितस्ततो बहिः स्थानात् तत्र वसती व्रजति तत्र तावदावासो यावद्भिक्षावेला
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org