________________
उद्देशक ::- ४, मूल - १२६, [ भा. २२३९]
११३
क्षेत्रे मार्गणा कृता । अयमन्यो मार्गणाविधिरादिशब्दात् दिग्वारणपरिग्रहः । गाथायां च स्त्रीत्वनिर्देशः प्राकृत्वात्तमेव मार्गणाविध्यादिकमाह
[भा. २२४० ]
अद्धाणादिसु ट्टा, अनुवट्टिया तहा उवट्ठविया विट्टा विट्ठा निष्पन्ना धारणदिसासु ।।
वृ- अध्वा मार्ग आदिशब्दादशिवावमौदर्यादिनिमित्तनिर्गमनपरिग्रहः तेष्वध्वादिषु नष्टाः साधवः । ते च द्विधा - उपस्थापिता अनुपस्थापिताश्च एकैके द्विधाचार्यस्य ते तेन गवेषिता अगवेषिताश्च । तत्र ये निष्पन्ना उपस्थापितास्ते निष्पन्ना एव न तेषां दिग्वारणं कर्तव्यमितरेषां यथाऽभवनं धारणं दिक्षु अध्वादिषु नष्टा इत्युक्तं तत्रयैः कारणैस्ते नष्टाः साधवस्तान्यभिधित्सुराहसंभममहंतसत्थे भिक्खायरिया गया व तेनठ्ठा । सिग्धगती परिरएणव आउर तेनादिएसुंच ।।
[भा. २२४१]
वृ- संभ्रमो वनदवाग्निसंभ्रमादिकः तद्वशाद्गच्छात् स्फिटिता यदि वा महति सार्थे व्रजतां कोऽपि कुत्रापीति गच्छादपगता यदि वा भिक्षाचर्यानिमित्तं सार्थादपसृत्य व्रजिका पल्यादिषु गतास्ततो नष्टा । अथवा सार्थः शीघ्रगतिस्ते च मन्दगतः तत्सार्थात् गच्छात् परिभ्रष्टाः परिरएणवत्ति यदि वा नद्यादिषूत्तरीतव्यासु सार्थ ऋजुमार्गेणोंत्तीर्ण इतरे साधवः परिएण गत्वा स्तोकपानीये समुत्तरन्ति, चिन्तयन्ति च वयं सार्थे झटित्येव मिलिष्यामस्ते च तथा परिएण गच्छन्तः सार्थात् स्फिटिता अथवा आतुराः प्रथमद्वितीयपरीषहाभ्यां जितास्ते तथा आतुराः सन्तोऽशक्नुवन्तः सार्थात्परिभ्रष्टाः स्तेनाश्चोरा आदिशद्वात् परचक्रादिपरिग्रहस्तेषु स्तेनादिषु समापत्सु भयेन पलायमाना गच्छादवस्फिटिता एवमध्वादिषु साधवो नष्टा भवन्ति । अत्र मार्गेणविधिं दिग्धारणविधिं चाह -
[भा. २२४२ ] गवेसउमा व कयव्वया जे सव्वे व तेसिं तु दिसा पुरिल्ला । गवेसमाणो लभते नुबद्धे अणाढिया संगहिया उजेणं ।।
वृ- ये कृतव्रता उपस्थापिता इत्यर्थः । तान् प्रव्राजनाचार्यो गवेषयतु वा मा वा, तथापि तेषां सैव दिक् पुरातनीया प्रव्राजनाचार्योऽशठभावेन गवेषयति । न च लभते । तथापि तान् सुचिरेणापि कालेन लब्धान् स एव प्रव्राजनाचार्यो लभते । अनाढिया संगहियाउ जेणमिति ये पुनरनातानादरपरेण गवेषितास्ते येन संगृहीतास्तस्यैव ते शिष्या इति स तेषामात्मीयां दिशं धारयति । अयमेव वृत्तबद्बोऽर्थोऽन्येनाचार्येण श्लोकेन बद्धस्तमेव श्लोकमाह
[भा. २२४३]
गवेसिए पुव्वदिसा अगविट्ठए उपच्छिमा ।
अनुबद्ध विए एवं अभिधारेंते उइणमन्ना ।।
- अनुपस्थापिते नष्टे शिष्ये शिष्यवर्गे वा प्रव्राजनाचार्येण गेवषिते पूर्वदिक प्रव्राजनाचार्यदिग् भवति । अगवेषिते पश्चिमा दिक् । येन संगृहीतास्तस्य दिग् भवतीत्यर्थः । एवमनुपस्थापिते मार्गणा भवति यः पुनरन्यक्षेत्रे गतानाचार्यानभिधारयन् व्रजति तत्रेयमन्या मार्गणा तामेवाहअभिधारेंतो वच्चति वत्तअवत्तो व वत्त एगागी । भति खेतवचं अभिधारेज्जंते तं सव्वं ।।
[ भा. २२४४ ]
वृ- अन्यक्षेत्रगतानाचार्यान् अभिधारयन् व्रजतिव्यक्तोऽव्यक्तो वा गीतार्थोऽगीतार्थोवा इत्यर्थः, ।
228
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org