________________
उद्देशकः-४, मूल- १२६, [भा. २१८७]
१०३ गुणपरिवृद्ध्या स्थानलाभो भवति । तथा हि भिक्षुर्गगुणाधिकत्वेन गणावच्छेदकस्थानं लभते । गणावच्छेदको गुणाधिकतया आचार्योपाध्यायस्थानमतो भिक्षुसूत्रानन्तरं क्रमेण गणावच्छेदकाचार्योपाध्यायसूत्रे, तथा द्विप्रभृतिका खलु संख्या बहुका भवति, । ततो द्विसंख्या सूत्रत्रयानन्तरं बहुसंख्यासूत्रतःयं बहूनां च परस्परमुपसम्पन्नानां पिण्डो भवति तेन बहुसंख्यासूत्रत्रयात्परं पिण्डः पिण्डसूत्रमूक्तमिति, एवमनेन सम्बन्धजातेनायातस्यास्य सूत्रसप्तकस्य व्याख्या-; द्वौ भिक्षू एकतः संहतौ विहरतो नोण्हमिति वाक्यालङ्गारे कल्पते अन्योन्यमुपसम्पद्य विहर्तुं, कल्पते एहमिति पूर्ववत् । यथारनाधिकतयाऽन्योन्यमुपसम्पद्यविहर्तुमेव. गणावच्छेदकसूत्रमाचार्योपाध्यायसूत्रंचभावनीयमेवं बहुसंख्यासूत्रत्रयं पिण्डसूत्रंचेतिसूत्रसंक्षेपार्थः ।सम्प्रत्याधभिक्षुसूत्र व्याख्यानार्थमाह - [भा.२१८८] संभोइयाणदोण्हं,खेत्तादिपेहकारणगयाणं ।
पंथेसमागयाणंभिक्खणइमाभवे मेरा ।। वृ- द्वावाचार्यावन्यस्मिन्नन्यस्मिन् क्षेत्रे स्थितौ, तौ च परस्परं सांभोगिको तयोः सांभोगिकयोः द्वयोराचार्ययो भिक्षवस्ताभ्यां प्रेषिताः क्षेत्रादिप्रेक्षाकारणगताः क्षेत्रप्रत्युपेक्षणार्थमादिशब्दादुपधिमार्गणार्थंगतास्तेच तथागच्छन्तः पथिसमागताः परस्परंमिलितास्तेषांचैकेन पथा गन्तवोयमतस्तेषां क्षेत्रादिप्रेक्षाकारणगतानां पथिसमागतानां भिक्षूणांयामर्यादा सामाचरी साइयं वक्ष्यमाणा भवति[भा.२१८९] भिक्खुस्समासियंखलु पलिच्छणाणंचसेसगाणंतु ।
चउलहुग ऊपलिच्छन्नेतम्हा उवसंपयातेसि ।। वृ-यौद्वौभिक्षुस्पर्धकपतीतयोःशैक्षतरकेणरत्नाधिकस्यपुरतः आलोचयितव्यः तेनालोचितेपश्चात् रत्नाधिकेनाशैक्षतरकस्य पुरत एमवकरणै भिक्षोः शैक्षस्य रत्नाधिकस्य प्रायश्चितं खलु मासिकं मासलघु, पलिच्छन्नणं चेत्यादि । एतद्वहुसंख्याविशिष्टस्य भिक्षुसूत्रस्य व्याख्यानं, परिच्छन्नानां जघन्यतोऽप्यात्मतृतीयाणां शेषकाणांचात्मद्वितीयानांयथोक्तवेध्यकरणेप्रायश्चित्तंमासलघु, तत्र हि यद्येकोऽपरिच्छन्नस्तर्हि तेनान्य आत्मद्वितीय आत्मतृतीयो वा उपसम्पत्तव्यो नो चेदुपसम्पद्यतेतर्हि तस्मिन्नपरिच्छन्नेऽनुपसंपद्यमानेप्रायश्चित्तंचत्वारो-लघुकास्तंचोपसम्पद्यमानंयोनोपसम्पदाप्रतीच्छति, तस्यमासलघु,यत एवंतस्मात्परस्परमुपसम्पत्तेषांभवतिकर्तव्या, एनामेव नियुक्तिगाथांभाष्यकृत व्याचिख्यासुः प्रथमतो भिक्खुस्समासियंखल्वित्येतद्व्याख्यनयति-- [भा.२१९०] दो भिक्खूअगीयत्था,सीया एक्कोव होज्ज उअगीतो।
राइनिय पलिच्छन्नेपुव्वं इयरेसुलहुलहुगा ।। वृ-द्वौ भिक्षु अगीतार्थौ यदि वा द्वावपि गीतौ गीतार्थो तयोः परस्परस्यालोचनमन्यथा प्रायश्चित्तं मासलघु, । अथवा एको गीतार्थ एकश्चभवत्यगीतार्थः । तत्र रत्नाधिकेन परिच्छन्ने भावपरिच्छेदोपेते गीतार्थे इत्यर्थः । पूर्वमालोचयितव्यं पश्चादितरेष्वगीतार्थेषुरत्नाधिकेन एवं चेत्तेन कुर्वतेतर्हिरत्नाधिकं प्रायश्चित्तंमासलघु, । इतरेषांचत्वारोलघुकाः । एनमेवगाथां विवरीषुः प्रथमतो दो भिक्खूअगीयत्था सीया इत्येतद्विवृणोति। [भा.२१९१] दोसु अगीयत्थेसुअहवा गीतेसु सेहतरो पुट्विं ।
____ जइनालोयइलहुओ । न विगडे इयरोविजइपच्छा ।। वृ-द्वयोर्भिक्ष्वोरगीतार्थयोर्मध्ये यदि शैक्षतरः पूर्वं स्वाधिकस्य पुरतो नालोचयति तदा तस्य
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org